01.006
Library: The Pulomā episode concludes. The demon abducts Pulomā, Cyavana is born, the demon is destroyed by the infant's radiance, Bhṛgu returns, learns Agni revealed his wife, and curses Agni to become 'consumer of everything'.
सूत उवाच॥
अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम् । ब्रह्मन्वराहरूपेण मनोमारुतरंहसा ॥१-००६-१॥
ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह । रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत् ॥१-००६-२॥
तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम् । तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम् ॥१-००६-३॥
सा तमादाय सुश्रोणी ससार भृगुनन्दनम् । च्यवनं भार्गवं ब्रह्मन्पुलोमा दुःखमूर्च्छिता ॥१-००६-४॥
तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः । रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम् ॥ सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः ॥१-००६-५॥
अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी । अनुवर्तती सृतिं तस्या भृगोः पत्न्या यशस्विनः ॥१-००६-६॥
तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा । नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः ॥ वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति ॥१-००६-७॥
स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् । तं ददर्श पिता तत्र च्यवनं तां च भामिनीम् ॥१-००६-८॥
स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः । केनासि रक्षसे तस्मै कथितेह जिहीर्षवे ॥ न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम् ॥१-००६-९॥
तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा । बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः ॥१-००६-१०॥
पुलोमोवाच॥
अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता । ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव ॥१-००६-११॥
साहं तव सुतस्यास्य तेजसा परिमोक्षिता । भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै ॥१-००६-१२॥
सूत उवाच॥
इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् । शशापाग्निमभिक्रुद्धः सर्वभक्षो भविष्यसि ॥१-००६-१३॥