01.006
Library:Brigu curses Agni.
सूत उवाच॥
अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम् । ब्रह्मन्वराहरूपेण मनोमारुतरंहसा ॥१-००६-१॥
ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह । रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत् ॥१-००६-२॥
तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम् । तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम् ॥१-००६-३॥
सा तमादाय सुश्रोणी ससार भृगुनन्दनम् । च्यवनं भार्गवं ब्रह्मन्पुलोमा दुःखमूर्च्छिता ॥१-००६-४॥
तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः । रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम् ॥ सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः ॥१-००६-५॥
अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी । अनुवर्तती सृतिं तस्या भृगोः पत्न्या यशस्विनः ॥१-००६-६॥
तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा । नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः ॥ वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति ॥१-००६-७॥
स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् । तं ददर्श पिता तत्र च्यवनं तां च भामिनीम् ॥१-००६-८॥
स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः । केनासि रक्षसे तस्मै कथितेह जिहीर्षवे ॥ न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम् ॥१-००६-९॥
तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा । बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः ॥१-००६-१०॥
पुलोमोवाच॥
अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता । ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव ॥१-००६-११॥
साहं तव सुतस्यास्य तेजसा परिमोक्षिता । भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै ॥१-००६-१२॥
सूत उवाच॥
इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् । शशापाग्निमभिक्रुद्धः सर्वभक्षो भविष्यसि ॥१-००६-१३॥