Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.155
Core:Drustadyumna and Yajnaseni born to Drupada from unclean Yaja
ब्राह्मण उवाच॥
अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान् । अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून् ॥१-१५५-१॥
पुत्रजन्म परीप्सन्वै शोकोपहतचेतनः । नास्ति श्रेष्ठं ममापत्यमिति नित्यमचिन्तयत् ॥१-१५५-२॥
जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत् । निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया ॥१-१५५-३॥
प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च । क्षात्रेण च बलेनास्य चिन्तयन्नान्वपद्यत ॥ प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत ॥१-१५५-४॥
अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन् । ब्राह्मणावसथं पुण्यमाससाद महीपतिः ॥१-१५५-५॥
तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः । तथैव नामहाभागः सोऽपश्यत्संशितव्रतौ ॥१-१५५-६॥
याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ पृषतात्मजः । संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ ॥१-१५५-७॥
तारणे युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ । स तावामन्त्रयामास सर्वकामैरतन्द्रितः ॥१-१५५-८॥
बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे । प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम् ॥१-१५५-९॥
पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः । अर्हयित्वा यथान्यायमुपयाजमुवाच सः ॥१-१५५-१०॥
येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे । उपयाज कृते तस्मिन्गवां दातास्मि तेऽर्बुदम् ॥१-१५५-११॥
यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत् । सर्वं तत्ते प्रदाताहं न हि मेऽस्त्यत्र संशयः ॥१-१५५-१२॥
इत्युक्तो नाहमित्येवं तमृषिः प्रत्युवाच ह । आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः ॥१-१५५-१३॥
ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः । उपयाजोऽब्रवीद्राजन्काले मधुरया गिरा ॥१-१५५-१४॥
ज्येष्ठो भ्राता ममागृह्णाद्विचरन्वननिर्झरे । अपरिज्ञातशौचायां भूमौ निपतितं फलम् ॥१-१५५-१५॥
तदपश्यमहं भ्रातुरसाम्प्रतमनुव्रजन् । विमर्शं सङ्करादाने नायं कुर्यात्कथञ्चन ॥१-१५५-१६॥
दृष्ट्वा फलस्य नापश्यद्दोषा येऽस्यानुबन्धिकाः । विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत् ॥१-१५५-१७॥
संहिताध्ययनं कुर्वन्वसन्गुरुकुले च यः । भैक्षमुच्छिष्टमन्येषां भुङ्क्ते चापि सदा सदा ॥ कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः ॥१-१५५-१८॥
तमहं फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा । तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति ॥१-१५५-१९॥
जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन् । उपयाजवचः श्रुत्वा नृपतिः सर्वधर्मवित् ॥ अभिसम्पूज्य पूजार्हमृषिं याजमुवाच ह ॥१-१५५-२०॥
अयुतानि ददान्यष्टौ गवां याजय मां विभो । द्रोणवैराभिसन्तप्तं त्वं ह्लादयितुमर्हसि ॥१-१५५-२१॥
स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः । तस्माद्द्रोणः पराजैषीन्मां वै स सखिविग्रहे ॥१-१५५-२२॥
क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदग्रणीः । कौरवाचार्यमुख्यस्य भारद्वाजस्य धीमतः ॥१-१५५-२३॥
द्रोणस्य शरजालानि प्राणिदेहहराणि च । षडरत्नि धनुश्चास्य दृश्यतेऽप्रतिमं महत् ॥१-१५५-२४॥
स हि ब्राह्मणवेगेन क्षात्रं वेगमसंशयम् । प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः ॥१-१५५-२५॥
क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः । तस्य ह्यस्त्रबलं घोरमप्रसह्यं नरैर्भुवि ॥१-१५५-२६॥
ब्राह्ममुच्चारयंस्तेजो हुताहुतिरिवानलः । समेत्य स दहत्याजौ क्षत्रं ब्रह्मपुरःसरः ॥ ब्रह्मक्षत्रे च विहिते ब्रह्मतेजो विशिष्यते ॥१-१५५-२७॥
सोऽहं क्षत्रबलाद्धीनो ब्रह्मतेजः प्रपेदिवान् । द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् ॥१-१५५-२८॥
द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम् । तत्कर्म कुरु मे याज निर्वपाम्यर्बुदं गवाम् ॥१-१५५-२९॥
तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत् । गुर्वर्थ इति चाकाममुपयाजमचोदयत् ॥ याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः ॥१-१५५-३०॥
ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः । आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै ॥१-१५५-३१॥
स च पुत्रो महावीर्यो महातेजा महाबलः । इष्यते यद्विधो राजन्भविता ते तथाविधः ॥१-१५५-३२॥
भारद्वाजस्य हन्तारं सोऽभिसन्धाय भूमिपः । आजह्रे तत्तथा सर्वं द्रुपदः कर्मसिद्धये ॥१-१५५-३३॥
याजस्तु हवनस्यान्ते देवीमाह्वापयत्तदा । प्रैहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम् ॥१-१५५-३४॥
देव्युवाच॥
अवलिप्तं मे मुखं ब्रह्मन्पुण्यान्गन्धान्बिभर्मि च । सुतार्थेनोपरुद्धास्मि तिष्ठ याज मम प्रिये ॥१-१५५-३५॥
याज उवाच॥
याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम् । कथं कामं न संदध्यात्सा त्वं विप्रैहि तिष्ठ वा ॥१-१५५-३६॥
ब्राह्मण उवाच॥
एवमुक्ते तु याजेन हुते हविषि संस्कृते । उत्तस्थौ पावकात्तस्मात्कुमारो देवसंनिभः ॥१-१५५-३७॥
ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम् । बिभ्रत्सखड्गः सशरो धनुष्मान्विनदन्मुहुः ॥१-१५५-३८॥
सोऽध्यारोहद्रथवरं तेन च प्रययौ तदा । ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधु साध्विति ॥१-१५५-३९॥
भयापहो राजपुत्रः पाञ्चालानां यशस्करः । राज्ञः शोकापहो जात एष द्रोणवधाय वै ॥ इत्युवाच महद्भूतमदृश्यं खेचरं तदा ॥१-१५५-४०॥
कुमारी चापि पाञ्चाली वेदिमध्यात्समुत्थिता । सुभगा दर्शनीयाङ्गी वेदिमध्या मनोरमा ॥१-१५५-४१॥
श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा । मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी ॥१-१५५-४२॥
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति । या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि ॥१-१५५-४३॥
तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी । सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रं निनीषति ॥१-१५५-४४॥
सुरकार्यमियं काले करिष्यति सुमध्यमा । अस्या हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम् ॥१-१५५-४५॥
तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसङ्घवत् । न चैतान्हर्षसम्पूणानियं सेहे वसुन्धरा ॥१-१५५-४६॥
तौ दृष्ट्वा पृषती याजं प्रपेदे वै सुतार्थिनी । न वै मदन्यां जननीं जानीयातामिमाविति ॥१-१५५-४७॥
तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया । तयोश्च नामनी चक्रुर्द्विजाः सम्पूर्णमानसाः ॥१-१५५-४८॥
धृष्टत्वादतिधृष्णुत्वाद्धर्माद्द्युत्सम्भवादपि । धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति ॥१-१५५-४९॥
कृष्णेत्येवाब्रुवन्कृष्णां कृष्णाभूत्सा हि वर्णतः । तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे ॥१-१५५-५०॥
धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं विवेशनम् । उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् ॥१-१५५-५१॥
अमोक्षणीयं दैवं हि भावि मत्वा महामतिः । तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात् ॥१-१५५-५२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.