01.156
Core:As per Kunti's suggestion, Pandavas prepare their travel to Panchala.
वैशम्पायन उवाच॥
एतच्छ्रुत्वा तु कौन्तेयाः शल्यविद्धा इवाभवन् । सर्वे चास्वस्थमनसो बभूवुस्ते महारथाः ॥१-१५६-१॥
ततः कुन्ती सुतान्दृष्ट्वा विभ्रान्तान्गतचेतसः । युधिष्ठिरमुवाचेदं वचनं सत्यवादिनी ॥१-१५६-२॥
चिररात्रोषिताः स्मेह ब्राह्मणस्य निवेशने । रममाणाः पुरे रम्ये लब्धभैक्षा युधिष्ठिर ॥१-१५६-३॥
यानीह रमणीयानि वनान्युपवनानि च । सर्वाणि तानि दृष्टानि पुनः पुनररिंदम ॥१-१५६-४॥
पुनर्दृष्टानि तान्येव प्रीणयन्ति न नस्तथा । भैक्षं च न तथा वीर लभ्यते कुरुनन्दन ॥१-१५६-५॥
ते वयं साधु पाञ्चालान्गच्छाम यदि मन्यसे । अपूर्वदर्शनं तात रमणीयं भविष्यति ॥१-१५६-६॥
सुभिक्षाश्चैव पाञ्चालाः श्रूयन्ते शत्रुकर्शन । यज्ञसेनश्च राजासौ ब्रह्मण्य इति शुश्रुमः ॥१-१५६-७॥
एकत्र चिरवासो हि क्षमो न च मतो मम । ते तत्र साधु गच्छामो यदि त्वं पुत्र मन्यसे ॥१-१५६-८॥
युधिष्ठिर उवाच॥
भवत्या यन्मतं कार्यं तदस्माकं परं हितम् । अनुजांस्तु न जानामि गच्छेयुर्नेति वा पुनः ॥१-१५६-९॥
वैशम्पायन उवाच॥
ततः कुन्ती भीमसेनमर्जुनं यमजौ तथा । उवाच गमनं ते च तथेत्येवाब्रुवंस्तदा ॥१-१५६-१०॥
तत आमन्त्र्य तं विप्रं कुन्ती राजन्सुतैः सह । प्रतस्थे नगरीं रम्यां द्रुपदस्य महात्मनः ॥१-१५६-११॥