Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.157
Library:Story of Draupadi
वैशम्पायन उवाच॥
वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु। आजगामाथ तान्द्रष्टुं व्यासः सत्यवतीसुतः ॥१-१५७-१॥
तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परन्तपाः। प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस्तदा ॥१-१५७-२॥
समनुज्ञाप्य तान्सर्वानासीनान्मुनिरब्रवीत्। प्रसन्नः पूजितः पार्थैः प्रीतिपूर्वमिदं वचः ॥१-१५७-३॥
अपि धर्मेण वर्तध्वं शास्त्रेण च परन्तपाः। अपि विप्रेषु वः पूजा पूजार्हेषु न हीयते ॥१-१५७-४॥
अथ धर्मार्थवद्वाक्यमुक्त्वा स भगवानृषिः। विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत् ॥१-१५७-५॥
आसीत्तपोवने काचिदृषेः कन्या महात्मनः। विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता ॥१-१५७-६॥
कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत। नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ॥१-१५७-७॥
तपस्तप्तुमथारेभे पत्यर्थमसुखा ततः। तोषयामास तपसा सा किलोग्रेण शङ्करम् ॥१-१५७-८॥
तस्याः स भगवांस्तुष्टस्तामुवाच तपस्विनीम्। वरं वरय भद्रं ते वरदोऽस्मीति भामिनि ॥१-१५७-९॥
अथेश्वरमुवाचेदमात्मनः सा वचो हितम्। पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः ॥१-१५७-१०॥
तामथ प्रत्युवाचेदमीशानो वदतां वरः। पञ्च ते पतयो भद्रे भविष्यन्तीति शङ्करः ॥१-१५७-११॥
प्रतिब्रुवन्तीमेकं मे पतिं देहीति शङ्करम्। पुनरेवाब्रवीद्देव इदं वचनमुत्तमम् ॥१-१५७-१२॥
पञ्चकृत्वस्त्वया उक्तः पतिं देहीत्यहं पुनः। देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति ॥१-१५७-१३॥
द्रुपदस्य कुले जाता कन्या सा देवरूपिणी। निर्दिष्टा भवतां पत्नी कृष्णा पार्षत्यनिन्दिता ॥१-१५७-१४॥
पाञ्चालनगरं तस्मात्प्रविशध्वं महाबलाः। सुखिनस्तामनुप्राप्य भविष्यथ न संशयः ॥१-१५७-१५॥
एवमुक्त्वा महाभागः पाण्डवानां पितामहः। पार्थानामन्त्र्य कुन्तीं च प्रातिष्ठत महातपाः ॥१-१५७-१६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.