Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.162
Library: King Samvarana sends Vashishtha to Sun for Tapati.
गन्धर्व उवाच॥
एवमुक्त्वा ततस्तूर्णं जगामोर्ध्वमनिन्दिता। स तु राजा पुनर्भूमौ तत्रैव निपपात ह ॥१-१६२-१॥
अमात्यः सानुयात्रस्तु तं ददर्श महावने। क्षितौ निपतितं काले शक्रध्वजमिवोच्छ्रितम् ॥१-१६२-२॥
तं हि दृष्ट्वा महेष्वासं निरश्वं पतितं क्षितौ। बभूव सोऽस्य सचिवः सम्प्रदीप्त इवाग्निना ॥१-१६२-३॥
त्वरया चोपसङ्गम्य स्नेहादागतसम्भ्रमः। तं समुत्थापयामास नृपतिं काममोहितम् ॥१-१६२-४॥
भूतलाद्भूमिपालेशं पितेव पतितं सुतम्। प्रज्ञया वयसा चैव वृद्धः कीर्त्या दमेन च ॥१-१६२-५॥
अमात्यस्तं समुत्थाप्य बभूव विगतज्वरः। उवाच चैनं कल्याण्या वाचा मधुरयोत्थितम् ॥ मा भैर्मनुजशार्दूल भद्रं चास्तु तवानघ ॥१-१६२-६॥
क्षुत्पिपासापरिश्रान्तं तर्कयामास तं नृपम्। पतितं पातनं सङ्ख्ये शात्रवाणां महीतले ॥१-१६२-७॥
वारिणाथ सुशीतेन शिरस्तस्याभ्यषेचयत्। अस्पृशन्मुकुटं राज्ञः पुण्डरीकसुगन्धिना ॥१-१६२-८॥
ततः प्रत्यागतप्राणस्तद्बलं बलवान्नृपः। सर्वं विसर्जयामास तमेकं सचिवं विना ॥१-१६२-९॥
ततस्तस्याज्ञया राज्ञो विप्रतस्थे महद्बलम्। स तु राजा गिरिप्रस्थे तस्मिन्पुनरुपाविशत् ॥१-१६२-१०॥
ततस्तस्मिन्गिरिवरे शुचिर्भूत्वा कृताञ्जलिः। आरिराधयिषुः सूर्यं तस्थावूर्ध्वभुजः क्षितौ ॥१-१६२-११॥
जगाम मनसा चैव वसिष्ठमृषिसत्तमम्। पुरोहितममित्रघ्नस्तदा संवरणो नृपः ॥१-१६२-१२॥
नक्तंदिनमथैकस्थे स्थिते तस्मिञ्जनाधिपे। अथाजगाम विप्रर्षिस्तदा द्वादशमेऽहनि ॥१-१६२-१३॥
स विदित्वैव नृपतिं तपत्या हृतमानसम्। दिव्येन विधिना ज्ञात्वा भावितात्मा महानृषिः ॥१-१६२-१४॥
तथा तु नियतात्मानं स तं नृपतिसत्तमम्। आबभाषे स धर्मात्मा तस्यैवार्थचिकीर्षया ॥१-१६२-१५॥
स तस्य मनुजेन्द्रस्य पश्यतो भगवानृषिः। ऊर्ध्वमाचक्रमे द्रष्टुं भास्करं भास्करद्युतिः ॥१-१६२-१६॥
सहस्रांशुं ततो विप्रः कृताञ्जलिरुपस्थितः। वसिष्ठोऽहमिति प्रीत्या स चात्मानं न्यवेदयत् ॥१-१६२-१७॥
तमुवाच महातेजा विवस्वान्मुनिसत्तमम्। महर्षे स्वागतं तेऽस्तु कथयस्व यथेच्छसि ॥१-१६२-१८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.