01.170
Library: Story of Brigu and Ourva
ब्राह्मण्युवाच॥
नाहं गृह्णामि वस्तात दृष्टीर्नास्ति रुषान्विता। अयं तु भार्गवो नूनमूरुजः कुपितोऽद्य वः ॥१-१७०-१॥
तेन चक्षूंषि वस्तात नूनं कोपान्महात्मना। स्मरता निहतान्बन्धूनादत्तानि न संशयः ॥१-१७०-२॥
गर्भानपि यदा यूयं भृगूणां घ्नत पुत्रकाः। तदायमूरुणा गर्भो मया वर्षशतं धृतः ॥१-१७०-३॥
षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव हि। विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया ॥१-१७०-४॥
सोऽयं पितृवधान्नूनं क्रोधाद्वो हन्तुमिच्छति। तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः ॥१-१७०-५॥
तमिमं तात याचध्वमौर्वं मम सुतोत्तमम्। अयं वः प्रणिपातेन तुष्टो दृष्टीर्विमोक्ष्यति ॥१-१७०-६॥
गन्धर्व उवाच॥
एवमुक्तास्ततः सर्वे राजानस्ते तमूरुजम्। ऊचुः प्रसीदेति तदा प्रसादं च चकार सः ॥१-१७०-७॥
अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः। स और्व इति विप्रर्षिरूरुं भित्त्वा व्यजायत ॥१-१७०-८॥
चक्षूंषि प्रतिलभ्याथ प्रतिजग्मुस्ततो नृपाः। भार्गवस्तु मुनिर्मेने सर्वलोकपराभवम् ॥१-१७०-९॥
स चक्रे तात लोकानां विनाशाय महामनाः। सर्वेषामेव कार्त्स्न्येन मनः प्रवणमात्मनः ॥१-१७०-१०॥
इच्छन्नपचितिं कर्तुं भृगूणां भृगुसत्तमः। सर्वलोकविनाशाय तपसा महतैधितः ॥१-१७०-११॥
तापयामास लोकान्स सदेवासुरमानुषान्। तपसोग्रेण महता नन्दयिष्यन्पितामहान् ॥१-१७०-१२॥
ततस्तं पितरस्तात विज्ञाय भृगुसत्तमम्। पितृलोकादुपागम्य सर्व ऊचुरिदं वचः ॥१-१७०-१३॥
और्व दृष्टः प्रभावस्ते तपसोग्रस्य पुत्रक। प्रसादं कुरु लोकानां नियच्छ क्रोधमात्मनः ॥१-१७०-१४॥
नानीशैर्हि तदा तात भृगुभिर्भावितात्मभिः। वधोऽभ्युपेक्षितः सर्वैः क्षत्रियाणां विहिंसताम् ॥१-१७०-१५॥
आयुषा हि प्रकृष्टेन यदा नः खेद आविशत्। तदास्माभिर्वधस्तात क्षत्रियैरीप्सितः स्वयम् ॥१-१७०-१६॥
निखातं तद्धि वै वित्तं केनचिद्भृगुवेश्मनि। वैरायैव तदा न्यस्तं क्षत्रियान्कोपयिष्णुभिः ॥ किं हि वित्तेन नः कार्यं स्वर्गेप्सूनां द्विजर्षभ ॥
यदा तु मृत्युरादातुं न नः शक्नोति सर्वशः। तदास्माभिरयं दृष्ट उपायस्तात संमतः ॥१-१७०-१८॥
आत्महा च पुमांस्तात न लोकाँल्लभते शुभान्। ततोऽस्माभिः समीक्ष्यैवं नात्मनात्मा विनाशितः ॥१-१७०-१९॥
न चैतन्नः प्रियं तात यदिदं कर्तुमिच्छसि। नियच्छेदं मनः पापात्सर्वलोकपराभवात् ॥१-१७०-२०॥
न हि नः क्षत्रियाः केचिन्न लोकाः सप्त पुत्रक। दूषयन्ति तपस्तेजः क्रोधमुत्पतितं जहि ॥१-१७०-२१॥