01.171
Library: Ourva's anger for the right cause discharged into water.
और्व उवाच॥
उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा। सर्वलोकविनाशाय न सा मे वितथा भवेत् ॥१-१७१-१॥
वृथारोषप्रतिज्ञो हि नाहं जीवितुमुत्सहे। अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम् ॥१-१७१-२॥
यो हि कारणतः क्रोधं सञ्जातं क्षन्तुमर्हति। नालं स मनुजः सम्यक्त्रिवर्गं परिरक्षितुम् ॥१-१७१-३॥
अशिष्टानां नियन्ता हि शिष्टानां परिरक्षता। स्थाने रोषः प्रयुक्तः स्यान्नृपैः स्वर्गजिगीषुभिः ॥१-१७१-४॥
अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा। आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे ॥१-१७१-५॥
सामरैर्हि यदा लोकैर्भृगूणां क्षत्रियाधमैः। आगर्भोत्सादनं क्षान्तं तदा मां मन्युराविषत् ॥१-१७१-६॥
आपूर्णकोशाः किल मे मातरः पितरस्तथा। भयात्सर्वेषु लोकेषु नाधिजग्मुः परायणम् ॥१-१७१-७॥
तान्भृगूणां तदा दारान्कश्चिन्नाभ्यवपद्यत। यदा तदा दधारेयमूरुणैकेन मां शुभा ॥१-१७१-८॥
प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते। तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते ॥१-१७१-९॥
यदा तु प्रतिषेद्धारं पापो न लभते क्वचित्। तिष्ठन्ति बहवो लोके तदा पापेषु कर्मसु ॥१-१७१-१०॥
जानन्नपि च यः पापं शक्तिमान्न नियच्छति। ईशः सन्सोऽपि तेनैव कर्मणा सम्प्रयुज्यते ॥१-१७१-११॥
राजभिश्चेश्वरैश्चैव यदि वै पितरो मम। शक्तैर्न शकिता त्रातुमिष्टं मत्वेह जीवितम् ॥१-१७१-१२॥
अत एषामहं क्रुद्धो लोकानामीश्वरोऽद्य सन्। भवतां तु वचो नाहमलं समतिवर्तितुम् ॥१-१७१-१३॥
मम चापि भवेदेतदीश्वरस्य सतो महत्। उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद्भयम् ॥१-१७१-१४॥
यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति। दहेदेष च मामेव निगृहीतः स्वतेजसा ॥१-१७१-१५॥
भवतां च विजानामि सर्वलोकहितेप्सुताम्। तस्माद्विदध्वं यच्छ्रेयो लोकानां मम चेश्वराः ॥१-१७१-१६॥
पितर ऊचुः॥
य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति। अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः ॥१-१७१-१७॥
आपोमयाः सर्वरसाः सर्वमापोमयं जगत्। तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम ॥१-१७१-१८॥
अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ। मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः ॥१-१७१-१९॥
एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति। न चैव सामरा लोका गमिष्यन्ति पराभवम् ॥१-१७१-२०॥
वसिष्ठ उवाच॥
ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये। उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ ॥१-१७१-२१॥
महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः। तमग्निमुद्गिरन्वक्त्रात्पिबत्यापो महोदधौ ॥१-१७१-२२॥
तस्मात्त्वमपि भद्रं ते न लोकान्हन्तुमर्हसि। पराशर परान्धर्माञ्जानञ्ज्ञानवतां वर ॥१-१७१-२३॥