01.192
Core: Funny conversation between Vidura and Dhritarastra.
वैशम्पायन उवाच॥
ततो राज्ञां चरैराप्तैश्चारः समुपनीयत। पाण्डवैरुपसम्पन्ना द्रौपदी पतिभिः शुभा ॥१-१९२-१॥
येन तद्धनुरायम्य लक्ष्यं विद्धं महात्मना। सोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः ॥१-१९२-२॥
यः शल्यं मद्रराजानमुत्क्षिप्याभ्रामयद्बली। त्रासयंश्चापि सङ्क्रुद्धो वृक्षेण पुरुषान्रणे ॥१-१९२-३॥
न चापि सम्भ्रमः कश्चिदासीत्तत्र महात्मनः। स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः ॥१-१९२-४॥
ब्रह्मरूपधराञ्श्रुत्वा पाण्डुराजसुतांस्तदा। कौन्तेयान्मनुजेन्द्राणां विस्मयः समजायत ॥१-१९२-५॥
सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता। पुनर्जातानिति स्मैतान्मन्यन्ते सर्वपार्थिवाः ॥१-१९२-६॥
धिक्कुर्वन्तस्तदा भीष्मं धृतराष्ट्रं च कौरवम्। कर्मणा सुनृशंसेन पुरोचनकृतेन वै ॥१-१९२-७॥
वृत्ते स्वयंवरे चैव राजानः सर्व एव ते। यथागतं विप्रजग्मुर्विदित्वा पाण्डवान्वृतान् ॥१-१९२-८॥
अथ दुर्योधनो राजा विमना भ्रातृभिः सह। अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च ॥१-१९२-९॥
विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम्। तं तु दुःशासनो व्रीडन्मन्दं मन्दमिवाब्रवीत् ॥१-१९२-१०॥
यद्यसौ ब्राह्मणो न स्याद्विन्देत द्रौपदीं न सः। न हि तं तत्त्वतो राजन्वेद कश्चिद्धनञ्जयम् ॥१-१९२-११॥
दैवं तु परमं मन्ये पौरुषं तु निरर्थकम्। धिगस्मत्पौरुषं तात यद्धरन्तीह पाण्डवाः ॥१-१९२-१२॥
एवं सम्भाषमाणास्ते निन्दन्तश्च पुरोचनम्। विविशुर्हास्तिनपुरं दीना विगतचेतसः ॥१-१९२-१३॥
त्रस्ता विगतसङ्कल्पा दृष्ट्वा पार्थान्महौजसः। मुक्तान्हव्यवहाच्चैनान्संयुक्तान्द्रुपदेन च ॥१-१९२-१४॥
धृष्टद्युम्नं च सञ्चिन्त्य तथैव च शिखण्डिनम्। द्रुपदस्यात्मजांश्चान्यान्सर्वयुद्धविशारदान् ॥१-१९२-१५॥
विदुरस्त्वथ ताञ्श्रुत्वा द्रौपद्या पाण्डवान्वृतान्। व्रीडितान्धार्तराष्ट्रांश्च भग्नदर्पानुपागतान् ॥१-१९२-१६॥
ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशां पते। उवाच दिष्ट्या कुरवो वर्धन्त इति विस्मितः ॥१-१९२-१७॥
वैचित्रवीर्यस्तु नृपो निशम्य विदुरस्य तत्। अब्रवीत्परमप्रीतो दिष्ट्या दिष्ट्येति भारत ॥१-१९२-१८॥
मन्यते हि वृतं पुत्रं ज्येष्ठं द्रुपदकन्यया। दुर्योधनमविज्ञानात्प्रज्ञाचक्षुर्नरेश्वरः ॥१-१९२-१९॥
अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहु। आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा ॥१-१९२-२०॥
अथास्य पश्चाद्विदुर आचख्यौ पाण्डवान्वृतान्। सर्वान्कुशलिनो वीरान्पूजितान्द्रुपदेन च ॥ तेषां सम्बन्धिनश्चान्यान्बहून्बलसमन्वितान् ॥१-१९२-२१॥
धृतराष्ट्र उवाच॥
यथैव पाण्डोः पुत्रास्ते तथैवाभ्यधिका मम। सेयमभ्यधिका प्रीतिर्वृद्धिर्विदुर मे मता ॥ यत्ते कुशलिनो वीरा मित्रवन्तश्च पाण्डवाः ॥१-१९२-२२॥
को हि द्रुपदमासाद्य मित्रं क्षत्तः सबान्धवम्। न बुभूषेद्भवेनार्थी गतश्रीरपि पार्थिवः ॥१-१९२-२३॥
वैशम्पायन उवाच॥
तं तथा भाषमाणं तु विदुरः प्रत्यभाषत। नित्यं भवतु ते बुद्धिरेषा राजञ्शतं समाः ॥१-१९२-२४॥
ततो दुर्योधनश्चैव राधेयश्च विशां पते। धृतराष्ट्रमुपागम्य वचोऽब्रूतामिदं तदा ॥१-१९२-२५॥
संनिधौ विदुरस्य त्वां वक्तुं नृप न शक्नुवः। विविक्तमिति वक्ष्यावः किं तवेदं चिकीर्षितम् ॥१-१९२-२६॥
सपत्नवृद्धिं यत्तात मन्यसे वृद्धिमात्मनः। अभिष्टौषि च यत्क्षत्तुः समीपे द्विपदां वर ॥१-१९२-२७॥
अन्यस्मिन्नृप कर्तव्ये त्वमन्यत्कुरुषेऽनघ। तेषां बलविघातो हि कर्तव्यस्तात नित्यशः ॥१-१९२-२८॥
ते वयं प्राप्तकालस्य चिकीर्षां मन्त्रयामहे। यथा नो न ग्रसेयुस्ते सपुत्रबलबान्धवान् ॥१-१९२-२९॥