01.193
Core: Duryodhana suggests cunning ways to destroy Pandavas.
धृतराष्ट्र उवाच॥
अहमप्येवमेवैतच्चिन्तयामि यथा युवाम्। विवेक्तुं नाहमिच्छामि त्वाकारं विदुरं प्रति ॥१-१९३-१॥
अतस्तेषां गुणानेव कीर्तयामि विशेषतः। नावबुध्येत विदुरो ममाभिप्रायमिङ्गितैः ॥१-१९३-२॥
यच्च त्वं मन्यसे प्राप्तं तद्ब्रूहि त्वं सुयोधन। राधेय मन्यसे त्वं च यत्प्राप्तं तद्ब्रवीहि मे ॥१-१९३-३॥
दुर्योधन उवाच॥
अद्य तान्कुशलैर्विप्रैः सुकृतैराप्तकारिभिः। कुन्तीपुत्रान्भेदयामो माद्रीपुत्रौ च पाण्डवौ ॥१-१९३-४॥
अथ वा द्रुपदो राजा महद्भिर्वित्तसञ्चयैः। पुत्राश्चास्य प्रलोभ्यन्ताममात्याश्चैव सर्वशः ॥१-१९३-५॥
परित्यजध्वं राजानं कुन्तीपुत्रं युधिष्ठिरम्। अथ तत्रैव वा तेषां निवासं रोचयन्तु ते ॥१-१९३-६॥
इहैषां दोषवद्वासं वर्णयन्तु पृथक्पृथक्। ते भिद्यमानास्तत्रैव मनः कुर्वन्तु पाण्डवाः ॥१-१९३-७॥
अथवा कुशलाः केचिदुपायनिपुणा नराः। इतरेतरतः पार्थान्भेदयन्त्वनुरागतः ॥१-१९३-८॥
व्युत्थापयन्तु वा कृष्णां बहुत्वात्सुकरं हि तत्। अथवा पाण्डवांस्तस्यां भेदयन्तु ततश्च ताम् ॥१-१९३-९॥
भीमसेनस्य वा राजन्नुपायकुशलैर्नरैः। मृत्युर्विधीयतां छन्नैः स हि तेषां बलाधिकः ॥१-१९३-१०॥
तस्मिंस्तु निहते राजन्हतोत्साहा हतौजसः। यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः ॥१-१९३-११॥
अजेयो ह्यर्जुनः सङ्ख्ये पृष्ठगोपे वृकोदरे। तमृते फल्गुनो युद्धे राधेयस्य न पादभाक् ॥१-१९३-१२॥
ते जानमाना दौर्बल्यं भीमसेनमृते महत्। अस्मान्बलवतो ज्ञात्वा नशिष्यन्त्यबलीयसः ॥१-१९३-१३॥
इहागतेषु पार्थेषु निदेशवशवर्तिषु। प्रवर्तिष्यामहे राजन्यथाश्रद्धं निबर्हणे ॥१-१९३-१४॥
अथवा दर्शनीयाभिः प्रमदाभिर्विलोभ्यताम्। एकैकस्तत्र कौन्तेयस्ततः कृष्णा विरज्यताम् ॥१-१९३-१५॥
प्रेष्यतां वापि राधेयस्तेषामागमनाय वै। ते लोप्त्रहारैः सन्धाय वध्यन्तामाप्तकारिभिः ॥१-१९३-१६॥
एतेषामभ्युपायानां यस्ते निर्दोषवान्मतः। तस्य प्रयोगमातिष्ठ पुरा कालोऽतिवर्तते ॥१-१९३-१७॥
यावच्चाकृतविश्वासा द्रुपदे पार्थिवर्षभे। तावदेवाद्य ते शक्या न शक्यास्तु ततः परम् ॥१-१९३-१८॥
एषा मम मतिस्तात निग्रहाय प्रवर्तते। साधु वा यदि वासाधु किं वा राधेय मन्यसे ॥१-१९३-१९॥