Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.194
Core-Pancharatra: Karna advises Dhritarastra to fight Pandavas militarily.
कर्ण उवाच॥
दुर्योधन तव प्रज्ञा न सम्यगिति मे मतिः। न ह्युपायेन ते शक्याः पाण्डवाः कुरुनन्दन ॥१-१९४-१॥
पूर्वमेव हि ते सूक्ष्मैरुपायैर्यतितास्त्वया। निग्रहीतुं यदा वीर शकिता न तदा त्वया ॥१-१९४-२॥
इहैव वर्तमानास्ते समीपे तव पार्थिव। अजातपक्षाः शिशवः शकिता नैव बाधितुम् ॥१-१९४-३॥
जातपक्षा विदेशस्था विवृद्धाः सर्वशोऽद्य ते। नोपायसाध्याः कौन्तेया ममैषा मतिरच्युत ॥१-१९४-४॥
न च ते व्यसनैर्योक्तुं शक्या दिष्टकृता हि ते। शङ्किताश्चेप्सवश्चैव पितृपैतामहं पदम् ॥१-१९४-५॥
परस्परेण भेदश्च नाधातुं तेषु शक्यते। एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम् ॥१-१९४-६॥
न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः। परिद्यूनान्वृतवती किमुताद्य मृजावतः ॥१-१९४-७॥
ईप्सितश्च गुणः स्त्रीणामेकस्या बहुभर्तृता। तं च प्राप्तवती कृष्णा न सा भेदयितुं सुखम् ॥१-१९४-८॥
आर्यवृत्तश्च पाञ्चाल्यो न स राजा धनप्रियः। न सन्त्यक्ष्यति कौन्तेयान्राज्यदानैरपि ध्रुवम् ॥१-१९४-९॥
तथास्य पुत्रो गुणवाननुरक्तश्च पाण्डवान्। तस्मान्नोपायसाध्यांस्तानहं मन्ये कथञ्चन ॥१-१९४-१०॥
इदं त्वद्य क्षमं कर्तुमस्माकं पुरुषर्षभ। यावन्न कृतमूलास्ते पाण्डवेया विशां पते ॥ तावत्प्रहरणीयास्ते रोचतां तव विक्रमः ॥१-१९४-११॥
अस्मत्पक्षो महान्यावद्यावत्पाञ्चालको लघुः। तावत्प्रहरणं तेषां क्रियतां मा विचारय ॥१-१९४-१२॥
वाहनानि प्रभूतानि मित्राणि बहुलानि च। यावन्न तेषां गान्धारे तावदेवाशु विक्रम ॥१-१९४-१३॥
यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः। सह पुत्रैर्महावीर्यैस्तावदेवाशु विक्रम ॥१-१९४-१४॥
यावन्नायाति वार्ष्णेयः कर्षन्यादववाहिनीम्। राज्यार्थे पाण्डवेयानां तावदेवाशु विक्रम ॥१-१९४-१५॥
वसूनि विविधान्भोगान्राज्यमेव च केवलम्। नात्याज्यमस्ति कृष्णस्य पाण्डवार्थे महीपते ॥१-१९४-१६॥
विक्रमेण मही प्राप्ता भरतेन महात्मना। विक्रमेण च लोकांस्त्रीञ्जितवान्पाकशासनः ॥१-१९४-१७॥
विक्रमं च प्रशंसन्ति क्षत्रियस्य विशां पते। स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ ॥१-१९४-१८॥
ते बलेन वयं राजन्महता चतुरङ्गिणा। प्रमथ्य द्रुपदं शीघ्रमानयामेह पाण्डवान् ॥१-१९४-१९॥
न हि साम्ना न दानेन न भेदेन च पाण्डवाः। शक्याः साधयितुं तस्माद्विक्रमेणैव ताञ्जहि ॥१-१९४-२०॥
तान्विक्रमेण जित्वेमामखिलां भुङ्क्ष्व मेदिनीम्। नान्यमत्र प्रपश्यामि कार्योपायं जनाधिप ॥१-१९४-२१॥
वैशम्पायन उवाच॥
श्रुत्वा तु राधेयवचो धृतराष्ट्रः प्रतापवान्। अभिपूज्य ततः पश्चादिदं वचनमब्रवीत् ॥१-१९४-२२॥
उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने। त्वयि विक्रमसम्पन्नमिदं वचनमीदृशम् ॥१-१९४-२३॥
भूय एव तु भीष्मश्च द्रोणो विदुर एव च। युवां च कुरुतां बुद्धिं भवेद्या नः सुखोदया ॥१-१९४-२४॥
तत आनाय्य तान्सर्वान्मन्त्रिणः सुमहायशाः। धृतराष्ट्रो महाराज मन्त्रयामास वै तदा ॥१-१९४-२५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.