Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.205
Pancharatra: Arjuna departs on theerthayatra for 12 years.
वैशम्पायन उवाच॥
एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः । वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ॥१-२०५-१॥
तेषां मनुजसिंहानां पञ्चानाममितौजसाम् । बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी ॥१-२०५-२॥
ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिः । बभूव परमप्रीता नागैरिव सरस्वती ॥१-२०५-३॥
वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु । व्यवर्धन्कुरवः सर्वे हीनदोषाः सुखान्विताः ॥१-२०५-४॥
अथ दीर्घेण कालेन ब्राह्मणस्य विशां पते । कस्यचित्तस्कराः केचिज्जह्रुर्गा नृपसत्तम ॥१-२०५-५॥
ह्रियमाणे धने तस्मिन्ब्राह्मणः क्रोधमूर्च्छितः । आगम्य खाण्डवप्रस्थमुदक्रोशत पाण्डवान् ॥१-२०५-६॥
ह्रियते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिः । प्रसह्य वोऽस्माद्विषयादभिधावत पाण्डवाः ॥१-२०५-७॥
ब्राह्मणस्य प्रमत्तस्य हविर्ध्वाङ्क्षैर्विलुप्यते । शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्शति ॥१-२०५-८॥
ब्राह्मणस्वे हृते चोरैर्धर्मार्थे च विलोपिते । रोरूयमाणे च मयि क्रियतामस्त्रधारणम् ॥१-२०५-९॥
रोरूयमाणस्याभ्याशे तस्य विप्रस्य पाण्डवः । तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनञ्जयः ॥१-२०५-१०॥
श्रुत्वा चैव महाबाहुर्मा भैरित्याह तं द्विजम् । आयुधानि च यत्रासन्पाण्डवानां महात्मनाम् ॥ कृष्णया सह तत्रासीद्धर्मराजो युधिष्ठिरः ॥१-२०५-११॥
स प्रवेशाय चाशक्तो गमनाय च पाण्डवः । तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनः पुनः ॥ आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः ॥१-२०५-१२॥
ह्रियमाणे धने तस्मिन्ब्राह्मणस्य तपस्विनः । अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चितः ॥१-२०५-१३॥
उपप्रेक्षणजोऽधर्मः सुमहान्स्यान्महीपतेः । यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम् ॥१-२०५-१४॥
अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे । प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश्चैव नो भवेत् ॥१-२०५-१५॥
अनापृच्छ्य च राजानं गते मयि न संशयः । अजातशत्रोर्नृपतेर्मम चैवाप्रियं भवेत् ॥१-२०५-१६॥
अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम । अधर्मो वा महानस्तु वने वा मरणं मम ॥ शरीरस्यापि नाशेन धर्म एव विशिष्यते ॥१-२०५-१७॥
एवं विनिश्चित्य ततः कुन्तीपुत्रो धनञ्जयः । अनुप्रविश्य राजानमापृच्छ्य च विशां पते ॥१-२०५-१८॥
धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत । ब्राह्मणागम्यतां शीघ्रं यावत्परधनैषिणः ॥१-२०५-१९॥
न दूरे ते गताः क्षुद्रास्तावद्गच्छामहे सह । यावदावर्तयाम्यद्य चोरहस्ताद्धनं तव ॥१-२०५-२०॥
सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी । शरैर्विध्वंसितांश्चोरानवजित्य च तद्धनम् ॥१-२०५-२१॥
ब्राह्मणस्य उपाहृत्य यशः पीत्वा च पाण्डवः । आजगाम पुरं वीरः सव्यसाची परन्तपः ॥१-२०५-२२॥
सोऽभिवाद्य गुरून्सर्वांस्तैश्चापि प्रतिनन्दितः । धर्मराजमुवाचेदं व्रतमादिश्यतां मम ॥१-२०५-२३॥
समयः समतिक्रान्तो भवत्संदर्शनान्मया । वनवासं गमिष्यामि समयो ह्येष नः कृतः ॥१-२०५-२४॥
इत्युक्तो धर्मराजस्तु सहसा वाक्यमप्रियम् । कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया ॥ युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम् ॥१-२०५-२५॥
प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ । अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम् ॥ सर्वं तदनुजानामि व्यलीकं न च मे हृदि ॥१-२०५-२६॥
गुरोरनुप्रवेशो हि नोपघातो यवीयसः । यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः ॥१-२०५-२७॥
निवर्तस्व महाबाहो कुरुष्व वचनं मम । न हि ते धर्मलोपोऽस्ति न च मे धर्षणा कृता ॥१-२०५-२८॥
अर्जुन उवाच॥
न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम् । न सत्याद्विचलिष्यामि सत्येनायुधमालभे ॥१-२०५-२९॥
वैशम्पायन उवाच॥
सोऽभ्यनुज्ञाप्य राजानं ब्रह्मचर्याय दीक्षितः । वने द्वादश वर्षाणि वासायोपजगाम ह ॥१-२०५-३०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.