Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.213
Core-Pancharatra: Arjuna get Abhimanyu from Subhadra. Prativindya, Sutasoma, Shrutakarman, Shatanika and Shrutasena were born to Draupadi.
वैशम्पायन उवाच॥
उक्तवन्तो यदा वाक्यमसकृत्सर्ववृष्णयः। ततोऽब्रवीद्वासुदेवो वाक्यं धर्मार्थसंहितम् ॥१-२१३-१॥
नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान्। संमानोऽभ्यधिकस्तेन प्रयुक्तोऽयमसंशयम् ॥१-२१३-२॥
अर्थलुब्धान्न वः पार्थो मन्यते सात्वतान्सदा। स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः ॥१-२१३-३॥
प्रदानमपि कन्यायाः पशुवत्कोऽनुमंस्यते। विक्रयं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि ॥१-२१३-४॥
एतान्दोषांश्च कौन्तेयो दृष्टवानिति मे मतिः। अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः ॥१-२१३-५॥
उचितश्चैव सम्बन्धः सुभद्रा च यशस्विनी। एष चापीदृशः पार्थः प्रसह्य हृतवानिति ॥१-२१३-६॥
भरतस्यान्वये जातं शन्तनोश्च महात्मनः। कुन्तिभोजात्मजापुत्रं को बुभूषेत नार्जुनम् ॥१-२१३-७॥
न च पश्यामि यः पार्थं विक्रमेण पराजयेत्। अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष ॥१-२१३-८॥
स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः। योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत् ॥१-२१३-९॥
तमनुद्रुत्य सान्त्वेन परमेण धनञ्जयम्। निवर्तयध्वं संहृष्टा ममैषा परमा मतिः ॥१-२१३-१०॥
यदि निर्जित्य वः पार्थो बलाद्गच्छेत्स्वकं पुरम्। प्रणश्येद्वो यशः सद्यो न तु सान्त्वे पराजयः ॥१-२१३-११॥
तच्छ्रुत्वा वासुदेवस्य तथा चक्रुर्जनाधिप। निवृत्तश्चार्जुनस्तत्र विवाहं कृतवांस्ततः ॥१-२१३-१२॥
उषित्वा तत्र कौन्तेयः संवत्सरपराः क्षपाः। पुष्करेषु ततः शिष्टं कालं वर्तितवान्प्रभुः ॥ पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थमाविशत् ॥१-२१३-१३॥
अभिगम्य स राजानं विनयेन समाहितः। अभ्यर्च्य ब्राह्मणान्पार्थो द्रौपदीमभिजग्मिवान् ॥१-२१३-१४॥
तं द्रौपदी प्रत्युवाच प्रणयात्कुरुनन्दनम्। तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा ॥ सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते ॥१-२१३-१५॥
तथा बहुविधं कृष्णां विलपन्तीं धनञ्जयः। सान्त्वयामास भूयश्च क्षमयामास चासकृत् ॥१-२१३-१६॥
सुभद्रां त्वरमाणश्च रक्तकौशेयवाससम्। पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः ॥१-२१३-१७॥
साधिकं तेन रूपेण शोभमाना यशस्विनी। भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना ॥ ववन्दे पृथुताम्राक्षी पृथां भद्रा यशस्विनी ॥१-२१३-१८॥
ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना। ववन्दे द्रौपदीं भद्रा प्रेष्याहमिति चाब्रवीत् ॥१-२१३-१९॥
प्रत्युत्थाय च तां कृष्णा स्वसारं माधवस्य ताम्। सस्वजे चावदत्प्रीता निःसपत्नोऽस्तु ते पतिः ॥ तथैव मुदिता भद्रा तामुवाचैवमस्त्विति ॥१-२१३-२०॥
ततस्ते हृष्टमनसः पाण्डवेया महारथाः। कुन्ती च परमप्रीता बभूव जनमेजय ॥१-२१३-२१॥
श्रुत्वा तु पुण्डरीकाक्षः सम्प्राप्तं स्वपुरोत्तमम्। अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तदा ॥१-२१३-२२॥
आजगाम विशुद्धात्मा सह रामेण केशवः। वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः ॥१-२१३-२३॥
भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः। सैन्येन महता शौरिरभिगुप्तः परन्तपः ॥१-२१३-२४॥
तत्र दानपतिर्धीमानाजगाम महायशाः। अक्रूरो वृष्णिवीराणां सेनापतिररिंदमः ॥१-२१३-२५॥
अनाधृष्टिर्महातेजा उद्धवश्च महायशाः। साक्षाद्बृहस्पतेः शिष्यो महाबुद्धिर्महायशाः ॥१-२१३-२६॥
सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः। प्रद्युम्नश्चैव साम्बश्च निशठः शङ्कुरेव च ॥१-२१३-२७॥
चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च। सारणश्च महाबाहुर्गदश्च विदुषां वरः ॥१-२१३-२८॥
एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा। आजग्मुः खाण्डवप्रस्थमादाय हरणं बहु ॥१-२१३-२९॥
ततो युधिष्ठिरो राजा श्रुत्वा माधवमागतम्। प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा ॥१-२१३-३०॥
ताभ्यां प्रतिगृहीतं तद्वृष्णिचक्रं समृद्धिमत्। विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम् ॥१-२१३-३१॥
सिक्तसंमृष्टपन्थानं पुष्पप्रकरशोभितम्। चन्दनस्य रसैः शीतैः पुण्यगन्धैर्निषेवितम् ॥१-२१३-३२॥
दह्यतागुरुणा चैव देशे देशे सुगन्धिना। सुसंमृष्टजनाकीर्णं वणिग्भिरुपशोभितम् ॥१-२१३-३३॥
प्रतिपेदे महाबाहुः सह रामेण केशवः। वृष्ण्यन्धकमहाभोजैः संवृतः पुरुषोत्तमः ॥१-२१३-३४॥
सम्पूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः। विवेश भवनं राज्ञः पुरंदरगृहोपमम् ॥१-२१३-३५॥
युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि। मूर्ध्नि केशवमाघ्राय पर्यष्वजत बाहुना ॥१-२१३-३६॥
तं प्रीयमाणं कृष्णस्तु विनयेनाभ्यपूजयत्। भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत् ॥१-२१३-३७॥
तांश्च वृष्ण्यन्धकश्रेष्ठान्धर्मराजो युधिष्ठिरः। प्रतिजग्राह सत्कारैर्यथाविधि यथोपगम् ॥१-२१३-३८॥
गुरुवत्पूजयामास कांश्चित्कांश्चिद्वयस्यवत्। कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः ॥१-२१३-३९॥
ततो ददौ वासुदेवो जन्यार्थे धनमुत्तमम्। हरणं वै सुभद्राया ज्ञातिदेयं महायशाः ॥१-२१३-४०॥
रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम्। चतुर्युजामुपेतानां सूतैः कुशलसंमतैः ॥ सहस्रं प्रददौ कृष्णो गवामयुतमेव च ॥१-२१३-४१॥
श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम्। वडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम् ॥ ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषणम् ॥१-२१३-४२॥
तथैवाश्वतरीणां च दान्तानां वातरंहसाम्। शतान्यञ्जनकेशीनां श्वेतानां पञ्च पञ्च च ॥१-२१३-४३॥
स्नापनोत्सादने चैव सुयुक्तं वयसान्वितम्। स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम् ॥१-२१३-४४॥
सुवर्णशतकण्ठीनामरोगाणां सुवाससाम्। परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः ॥१-२१३-४५॥
कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः। मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः ॥१-२१३-४६॥
गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम्। गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम् ॥१-२१३-४७॥
कॢप्तानां पटुघण्टानां वराणां हेममालिनाम्। हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः ॥१-२१३-४८॥
रामः पादग्राहणिकं ददौ पार्थाय लाङ्गली। प्रीयमाणो हलधरः सम्बन्धप्रीतिमावहन् ॥१-२१३-४९॥
स महाधनरत्नौघो वस्त्रकम्बलफेनवान्। महागजमहाग्राहः पताकाशैवलाकुलः ॥१-२१३-५०॥
पाण्डुसागरमाविद्धः प्रविवेश महानदः। पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत् ॥१-२१३-५१॥
प्रतिजग्राह तत्सर्वं धर्मराजो युधिष्ठिरः। पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान् ॥१-२१३-५२॥
ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः। विजह्रुरमरावासे नराः सुकृतिनो यथा ॥१-२१३-५३॥
तत्र तत्र महापानैरुत्कृष्टतलनादितैः। यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः ॥१-२१३-५४॥
एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून्। पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं पुरीम् ॥१-२१३-५५॥
रामं पुरस्कृत्य ययुर्वृष्ण्यन्धकमहारथाः। रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः ॥१-२१३-५६॥
वासुदेवस्तु पार्थेन तत्रैव सह भारत। उवास नगरे रम्ये शक्रप्रस्थे महामनाः ॥ व्यचरद्यमुनाकूले पार्थेन सह भारत ॥१-२१३-५७॥
ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा। जयन्तमिव पौलोमी द्युतिमन्तमजीजनत् ॥१-२१३-५८॥
दीर्घबाहुं महासत्त्वमृषभाक्षमरिंदमम्। सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम् ॥१-२१३-५९॥
अभीश्च मन्युमांश्चैव ततस्तमरिमर्दनम्। अभिमन्युमिति प्राहुरार्जुनिं पुरुषर्षभम् ॥१-२१३-६०॥
स सात्वत्यामतिरथः सम्बभूव धनञ्जयात्। मखे निर्मथ्यमानाद्वा शमीगर्भाद्धुताशनः ॥१-२१३-६१॥
यस्मिञ्जाते महाबाहुः कुन्तीपुत्रो युधिष्ठिरः। अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च तावतः ॥१-२१३-६२॥
दयितो वासुदेवस्य बाल्यात्प्रभृति चाभवत्। पितृणां चैव सर्वेषां प्रजानामिव चन्द्रमाः ॥१-२१३-६३॥
जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः। स चापि ववृधे बालः शुक्लपक्षे यथा शशी ॥१-२१३-६४॥
चतुष्पादं दशविधं धनुर्वेदमरिंदमः। अर्जुनाद्वेद वेदज्ञात्सकलं दिव्यमानुषम् ॥१-२१३-६५॥
विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः। क्रियास्वपि च सर्वासु विशेषानभ्यशिक्षयत् ॥१-२१३-६६॥
आगमे च प्रयोगे च चक्रे तुल्यमिवात्मनः। तुतोष पुत्रं सौभद्रं प्रेक्षमाणो धनञ्जयः ॥१-२१३-६७॥
सर्वसंहननोपेतं सर्वलक्षणलक्षितम्। दुर्धर्षमृषभस्कन्धं व्यात्ताननमिवोरगम् ॥१-२१३-६८॥
सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम्। मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम् ॥१-२१३-६९॥
कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाकृतौ। ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा ॥१-२१३-७०॥
पाञ्चाल्यपि च पञ्चभ्यः पतिभ्यः शुभलक्षणा। लेभे पञ्च सुतान्वीराञ्शुभान्पञ्चाचलानिव ॥१-२१३-७१॥
युधिष्ठिरात्प्रतिविन्ध्यं सुतसोमं वृकोदरात्। अर्जुनाच्छ्रुतकर्माणं शतानीकं च नाकुलिम् ॥१-२१३-७२॥
सहदेवाच्छ्रुतसेनमेतान्पञ्च महारथान्। पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा ॥१-२१३-७३॥
शास्त्रतः प्रतिविन्ध्यं तमूचुर्विप्रा युधिष्ठिरम्। परप्रहरणज्ञाने प्रतिविन्ध्यो भवत्वयम् ॥१-२१३-७४॥
सुते सोमसहस्रे तु सोमार्कसमतेजसम्। सुतसोमं महेष्वासं सुषुवे भीमसेनतः ॥१-२१३-७५॥
श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना। जातः पुत्रस्तवेत्येवं श्रुतकर्मा ततोऽभवत् ॥१-२१३-७६॥
शतानीकस्य राजर्षेः कौरव्यः कुरुनन्दनः। चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम् ॥१-२१३-७७॥
ततस्त्वजीजनत्कृष्णा नक्षत्रे वह्निदैवते। सहदेवात्सुतं तस्माच्छ्रुतसेनेति तं विदुः ॥१-२१३-७८॥
एकवर्षान्तरास्त्वेव द्रौपदेया यशस्विनः। अन्वजायन्त राजेन्द्र परस्परहिते रताः ॥१-२१३-७९॥
जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च। चकार विधिवद्धौम्यस्तेषां भरतसत्तम ॥१-२१३-८०॥
कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः। जगृहुः सर्वमिष्वस्त्रमर्जुनाद्दिव्यमानुषम् ॥१-२१३-८१॥
देवगर्भोपमैः पुत्रैर्व्यूढोरस्कैर्महाबलैः। अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन् ॥१-२१३-८२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.