Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.043
Core-Pancharatra: Duryodhana is jealous seeing Pandavas prosper
वैशम्पायन उवाच॥
वसन्दुर्योधनस्तस्यां सभायां भरतर्षभ। शनैर्ददर्श तां सर्वां सभां शकुनिना सह ॥२-४३-१॥
तस्यां दिव्यानभिप्रायान्ददर्श कुरुनन्दनः। न दृष्टपूर्वा ये तेन नगरे नागसाह्वये ॥२-४३-२॥
स कदाचित्सभामध्ये धार्तराष्ट्रो महीपतिः। स्फाटिकं तलमासाद्य जलमित्यभिशङ्कया ॥२-४३-३॥
स्ववस्त्रोत्कर्षणं राजा कृतवान्बुद्धिमोहितः। दुर्मना विमुखश्चैव परिचक्राम तां सभाम् ॥२-४३-४॥
ततः स्फाटिकतोयां वै स्फाटिकाम्बुजशोभिताम्। वापीं मत्वा स्थलमिति सवासाः प्रापतज्जले ॥२-४३-५॥
जले निपतितं दृष्ट्वा किङ्करा जहसुर्भृशम्। वासांसि च शुभान्यस्मै प्रददू राजशासनात् ॥२-४३-६॥
तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः। अर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तदा ॥२-४३-७॥
नामर्षयत्ततस्तेषामवहासममर्षणः। आकारं रक्षमाणस्तु न स तान्समुदैक्षत ॥२-४३-८॥
पुनर्वसनमुत्क्षिप्य प्रतरिष्यन्निव स्थलम्। आरुरोह ततः सर्वे जहसुस्ते पुनर्जनाः ॥२-४३-९॥
द्वारं च विवृताकारं ललाटेन समाहनत्। संवृतं चेति मन्वानो द्वारदेशादुपारमत् ॥२-४३-१०॥
एवं प्रलम्भान्विविधान्प्राप्य तत्र विशां पते। पाण्डवेयाभ्यनुज्ञातस्ततो दुर्योधनो नृपः ॥२-४३-११॥
अप्रहृष्टेन मनसा राजसूये महाक्रतौ। प्रेक्ष्य तामद्भुतामृद्धिं जगाम गजसाह्वयम् ॥२-४३-१२॥
पाण्डवश्रीप्रतप्तस्य ध्यानग्लानस्य गच्छतः। दुर्योधनस्य नृपतेः पापा मतिरजायत ॥२-४३-१३॥
पार्थान्सुमनसो दृष्ट्वा पार्थिवांश्च वशानुगान्। कृत्स्नं चापि हितं लोकमाकुमारं कुरूद्वह ॥२-४३-१४॥
महिमानं परं चापि पाण्डवानां महात्मनाम्। दुर्योधनो धार्तराष्ट्रो विवर्णः समपद्यत ॥२-४३-१५॥
स तु गच्छन्ननेकाग्रः सभामेवानुचिन्तयन्। श्रियं च तामनुपमां धर्मराजस्य धीमतः ॥२-४३-१६॥
प्रमत्तो धृतराष्ट्रस्य पुत्रो दुर्योधनस्तदा। नाभ्यभाषत्सुबलजं भाषमाणं पुनः पुनः ॥२-४३-१७॥
अनेकाग्रं तु तं दृष्ट्वा शकुनिः प्रत्यभाषत। दुर्योधन कुतोमूलं निःश्वसन्निव गच्छसि ॥२-४३-१८॥
दुर्योधन उवाच॥
दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिरवशानुगाम्। जितामस्त्रप्रतापेन श्वेताश्वस्य महात्मनः ॥२-४३-१९॥
तं च यज्ञं तथाभूतं दृष्ट्वा पार्थस्य मातुल। यथा शक्रस्य देवेषु तथाभूतं महाद्युते ॥२-४३-२०॥
अमर्षेण सुसम्पूर्णो दह्यमानो दिवानिशम्। शुचिशुक्रागमे काले शुष्ये तोयमिवाल्पकम् ॥२-४३-२१॥
पश्य सात्वतमुख्येन शिशुपालं निपातितम्। न च तत्र पुमानासीत्कश्चित्तस्य पदानुगः ॥२-४३-२२॥
दह्यमाना हि राजानः पाण्डवोत्थेन वह्निना। क्षान्तवन्तोऽपराधं तं को हि तं क्षन्तुमर्हति ॥२-४३-२३॥
वासुदेवेन तत्कर्म तथायुक्तं महत्कृतम्। सिद्धं च पाण्डवेयानां प्रतापेन महात्मनाम् ॥२-४३-२४॥
तथा हि रत्नान्यादाय विविधानि नृपा नृपम्। उपतिष्ठन्ति कौन्तेयं वैश्या इव करप्रदाः ॥२-४३-२५॥
श्रियं तथाविधां दृष्ट्वा ज्वलन्तीमिव पाण्डवे। अमर्षवशमापन्नो दह्येऽहमतथोचितः ॥२-४३-२६॥
वह्निमेव प्रवेक्ष्यामि भक्षयिष्यामि वा विषम्। अपो वापि प्रवेक्ष्यामि न हि शक्ष्यामि जीवितुम् ॥२-४३-२७॥
को हि नाम पुमाँल्लोके मर्षयिष्यति सत्त्ववान्। सपत्नानृध्यतो दृष्ट्वा हानिमात्मन एव च ॥२-४३-२८॥
सोऽहं न स्त्री न चाप्यस्त्री न पुमान्नापुमानपि। योऽहं तां मर्षयाम्यद्य तादृशीं श्रियमागताम् ॥२-४३-२९॥
ईश्वरत्वं पृथिव्याश्च वसुमत्तां च तादृशीम्। यज्ञं च तादृशं दृष्ट्वा मादृशः को न सञ्ज्वरेत् ॥२-४३-३०॥
अशक्तश्चैक एवाहं तामाहर्तुं नृपश्रियम्। सहायांश्च न पश्यामि तेन मृत्युं विचिन्तये ॥२-४३-३१॥
दैवमेव परं मन्ये पौरुषं तु निरर्थकम्। दृष्ट्वा कुन्तीसुते शुभ्रां श्रियं तामाहृतां तथा ॥२-४३-३२॥
कृतो यत्नो मया पूर्वं विनाशे तस्य सौबल। तच्च सर्वमतिक्रम्य स वृद्धोऽप्स्विव पङ्कजम् ॥२-४३-३३॥
तेन दैवं परं मन्ये पौरुषं तु निरर्थकम्। धार्तराष्ट्रा हि हीयन्ते पार्था वर्धन्ति नित्यशः ॥२-४३-३४॥
सोऽहं श्रियं च तां दृष्ट्वा सभां तां च तथाविधाम्। रक्षिभिश्चावहासं तं परितप्ये यथाग्निना ॥२-४३-३५॥
स मामभ्यनुजानीहि मातुलाद्य सुदुःखितम्। अमर्षं च समाविष्टं धृतराष्ट्रे निवेदय ॥२-४३-३६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.