02.047
Core-Pancharatra: Duryodhana describes the presents offered to Pandavas to his father.
दुर्योधन उवाच॥
यन्मया पाण्डवानां तु दृष्टं तच्छृणु भारत। आहृतं भूमिपालैर्हि वसु मुख्यं ततस्ततः ॥२-४७-१॥
न विन्दे दृढमात्मानं दृष्ट्वाहं तदरेर्धनम्। फलतो भूमितो वापि प्रतिपद्यस्व भारत ॥२-४७-२॥
ऐडांश्चैलान्वार्षदंशाञ्जातरूपपरिष्कृतान्। प्रावाराजिनमुख्यांश्च काम्बोजः प्रददौ वसु ॥२-४७-३॥
अश्वांस्तित्तिरिकल्माषांस्त्रिशतं शुकनासिकान्। उष्ट्रवामीस्त्रिशतं च पुष्टाः पीलुशमीङ्गुदैः ॥२-४७-४॥
गोवासना ब्राह्मणाश्च दासमीयाश्च सर्वशः। प्रीत्यर्थं ते महाभागा धर्मराज्ञो महात्मनः ॥ त्रिखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः ॥२-४७-५॥
कमण्डलूनुपादाय जातरूपमयाञ्शुभान्। एवं बलिं प्रदायाथ प्रवेशं लेभिरे ततः ॥२-४७-६॥
शतं दासीसहस्राणां कार्पासिकनिवासिनाम्। श्यामास्तन्व्यो दीर्घकेश्यो हेमाभरणभूषिताः ॥ शूद्रा विप्रोत्तमार्हाणि राङ्कवान्यजिनानि च ॥२-४७-७॥
बलिं च कृत्स्नमादाय भरुकच्छनिवासिनः। उपनिन्युर्महाराज हयान्गान्धारदेशजान् ॥२-४७-८॥
इन्द्रकृष्टैर्वर्तयन्ति धान्यैर्नदीमुखैश्च ये। समुद्रनिष्कुटे जाताः परिसिन्धु च मानवाः ॥२-४७-९॥
ते वैरामाः पारदाश्च वङ्गाश्च कितवैः सह। विविधं बलिमादाय रत्नानि विविधानि च ॥२-४७-१०॥
अजाविकं गोहिरण्यं खरोष्ट्रं फलजं मधु। कम्बलान्विविधांश्चैव द्वारि तिष्ठन्ति वारिताः ॥२-४७-११॥
प्राग्ज्योतिषाधिपः शूरो म्लेच्छानामधिपो बली। यनवैः सहितो राजा भगदत्तो महारथः ॥२-४७-१२॥
आजानेयान्हयाञ्शीघ्रानादायानिलरंहसः। बलिं च कृत्स्नमादाय द्वारि तिष्ठति वारितः ॥२-४७-१३॥
अश्मसारमयं भाण्डं शुद्धदन्तत्सरूनसीन्। प्राग्ज्योतिषोऽथ तद्दत्त्वा भगदत्तोऽव्रजत्तदा ॥२-४७-१४॥
द्व्यक्षांस्त्र्यक्षाँल्ललाटाक्षान्नानादिग्भ्यः समागतान्। औष्णीषाननिवासांश्च बाहुकान्पुरुषादकान् ॥२-४७-१५॥
एकपादांश्च तत्राहमपश्यं द्वारि वारितान्। बल्यर्थं ददतस्तस्मै हिरण्यं रजतं बहु ॥२-४७-१६॥
इन्द्रगोपकवर्णाभाञ्शुकवर्णान्मनोजवान्। तथैवेन्द्रायुधनिभान्सन्ध्याभ्रसदृशानपि ॥२-४७-१७॥
अनेकवर्णानारण्यान्गृहीत्वाश्वान्मनोजवान्। जातरूपमनर्घ्यं च ददुस्तस्यैकपादकाः ॥२-४७-१८॥
चीनान्हूणाञ्शकानोड्रान्पर्वतान्तरवासिनः। वार्ष्णेयान्हारहूणांश्च कृष्णान्हैमवतांस्तथा ॥२-४७-१९॥
न पारयाम्यभिगतान्विविधान्द्वारि वारितान्। बल्यर्थं ददतस्तस्य नानारूपाननेकशः ॥२-४७-२०॥
कृष्णग्रीवान्महाकायान्रासभाञ्शतपातिनः। आहार्षुर्दशसाहस्रान्विनीतान्दिक्षु विश्रुतान् ॥२-४७-२१॥
प्रमाणरागस्पर्शाढ्यं बाह्लीचीनसमुद्भवम्। और्णं च राङ्कवं चैव कीटजं पट्टजं तथा ॥२-४७-२२॥
कुट्टीकृतं तथैवान्यत्कमलाभं सहस्रशः। श्लक्ष्णं वस्त्रमकार्पासमाविकं मृदु चाजिनम् ॥२-४७-२३॥
निशितांश्चैव दीर्घासीनृष्टिशक्तिपरश्वधान्। अपरान्तसमुद्भूतांस्तथैव परशूञ्शितान् ॥२-४७-२४॥
रसान्गन्धांश्च विविधान्रत्नानि च सहस्रशः। बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः ॥२-४७-२५॥
शकास्तुखाराः कङ्काश्च रोमशाः शृङ्गिणो नराः। महागमान्दूरगमान्गणितानर्बुदं हयान् ॥२-४७-२६॥
कोटिशश्चैव बहुशः सुवर्णं पद्मसंमितम्। बलिमादाय विविधं द्वारि तिष्ठन्ति वारिताः ॥२-४७-२७॥
आसनानि महार्हाणि यानानि शयनानि च। मणिकाञ्चनचित्राणि गजदन्तमयानि च ॥२-४७-२८॥
रथांश्च विविधाकाराञ्जातरूपपरिष्कृतान्। हयैर्विनीतैः सम्पन्नान्वैयाघ्रपरिवारणान् ॥२-४७-२९॥
विचित्रांश्च परिस्तोमान्रत्नानि च सहस्रशः। नाराचानर्धनाराचाञ्शस्त्राणि विविधानि च ॥२-४७-३०॥
एतद्दत्त्वा महद्द्रव्यं पूर्वदेशाधिपो नृपः। प्रविष्टो यज्ञसदनं पाण्डवस्य महात्मनः ॥२-४७-३१॥