Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.048
Pancharatra: Duryodhana continues to describe the presents offered to Pandavas to his father.
दुर्योधन उवाच॥
दायं तु तस्मै विविधं शृणु मे गदतोऽनघ। यज्ञार्थं राजभिर्दत्तं महान्तं धनसञ्चयम् ॥२-४८-१॥
मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम्। ये ते कीचकवेणूनां छायां रम्यामुपासते ॥२-४८-२॥
खशा एकाशनाज्योहाः प्रदरा दीर्घवेणवः। पशुपाश्च कुणिन्दाश्च तङ्गणाः परतङ्गणाः ॥२-४८-३॥
ते वै पिपीलिकं नाम वरदत्तं पिपीलिकैः। जातरूपं द्रोणमेयमहार्षुः पुञ्जशो नृपाः ॥२-४८-४॥
कृष्णाँल्ललामांश्चमराञ्शुक्लांश्चान्याञ्शशिप्रभान्। हिमवत्पुष्पजं चैव स्वादु क्षौद्रं तथा बहु ॥२-४८-५॥
उत्तरेभ्यः कुरुभ्यश्चाप्यपोढं माल्यमम्बुभिः। उत्तरादपि कैलासादोषधीः सुमहाबलाः ॥२-४८-६॥
पार्वतीया बलिं चान्यमाहृत्य प्रणताः स्थिताः। अजातशत्रोर्नृपतेर्द्वारि तिष्ठन्ति वारिताः ॥२-४८-७॥
ये परार्धे हिमवतः सूर्योदयगिरौ नृपाः। वारिषेणसमुद्रान्ते लोहित्यमभितश्च ये ॥ फलमूलाशना ये च किराताश्चर्मवाससः ॥२-४८-८॥
चन्दनागुरुकाष्ठानां भारान्कालीयकस्य च। चर्मरत्नसुवर्णानां गन्धानां चैव राशयः ॥२-४८-९॥
कैरातिकानामयुतं दासीनां च विशां पते। आहृत्य रमणीयार्थान्दूरजान्मृगपक्षिणः ॥२-४८-१०॥
निचितं पर्वतेभ्यश्च हिरण्यं भूरिवर्चसम्। बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः ॥२-४८-११॥
कायव्या दरदा दार्वाः शूरा वैयमकास्तथा। औदुम्बरा दुर्विभागाः पारदा बाह्लिकैः सह ॥२-४८-१२॥
काश्मीराः कुन्दमानाश्च पौरका हंसकायनाः। शिबित्रिगर्तयौधेया राजन्या मद्रकेकयाः ॥२-४८-१३॥
अम्बष्ठाः कौकुरास्तार्क्ष्या वस्त्रपाः पह्लवैः सह। वसातयः समौलेयाः सह क्षुद्रकमालवैः ॥२-४८-१४॥
शौण्डिकाः कुक्कुराश्चैव शकाश्चैव विशां पते। अङ्गा वङ्गाश्च पुण्ड्राश्च शानवत्या गयास्तथा ॥२-४८-१५॥
सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रपाणयः। आहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवे ॥२-४८-१६॥
वङ्गाः कलिङ्गपतयस्ताम्रलिप्ताः सपुण्ड्रकाः। दुकूलं कौशिकं चैव पत्रोर्णं प्रावरानपि ॥२-४८-१७॥
तत्र स्म द्वारपालैस्ते प्रोच्यन्ते राजशासनात्। कृतकाराः सुबलयस्ततो द्वारमवाप्स्यथ ॥२-४८-१८॥
ईषादन्तान्हेमकक्षान्पद्मवर्णान्कुथावृतान्। शैलाभान्नित्यमत्तांश्च अभितः काम्यकं सरः ॥२-४८-१९॥
दत्त्वैकैको दशशतान्कुञ्जरान्कवचावृतान्। क्षमावतः कुलीनांश्च द्वारेण प्राविशंस्ततः ॥२-४८-२०॥
एते चान्ये च बहवो गणा दिग्भ्यः समागताः। अन्यैश्चोपाहृतान्यत्र रत्नानीह महात्मभिः ॥२-४८-२१॥
राजा चित्ररथो नाम गन्धर्वो वासवानुगः। शतानि चत्वार्यददद्धयानां वातरंहसाम् ॥२-४८-२२॥
तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम्। आम्रपत्रसवर्णानामददद्धेममालिनाम् ॥२-४८-२३॥
कृती तु राजा कौरव्य शूकराणां विशां पते। अददद्गजरत्नानां शतानि सुबहून्यपि ॥२-४८-२४॥
विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम्। कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहृते ॥२-४८-२५॥
पांशुराष्ट्राद्वसुदानो राजा षड्विंशतिं गजान्। अश्वानां च सहस्रे द्वे राजन्काञ्चनमालिनाम् ॥२-४८-२६॥
जवसत्त्वोपपन्नानां वयःस्थानां नराधिप। बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत् ॥२-४८-२७॥
यज्ञसेनेन दासीनां सहस्राणि चतुर्दश। दासानामयुतं चैव सदाराणां विशां पते ॥२-४८-२८॥
गजयुक्ता महाराज रथाः षड्विंशतिस्तथा। राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम् ॥२-४८-२९॥
समुद्रसारं वैडूर्यं मुक्ताः शङ्खांस्तथैव च। शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन् ॥२-४८-३०॥
संवृता मणिचीरैस्तु श्यामास्ताम्रान्तलोचनाः। तान्गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः ॥२-४८-३१॥
प्रीत्यर्थं ब्राह्मणाश्चैव क्षत्रियाश्च विनिर्जिताः। उपाजह्रुर्विशश्चैव शूद्राः शुश्रूषवोऽपि च ॥ प्रीत्या च बहुमानाच्च अभ्यगच्छन्युधिष्ठिरम् ॥२-४८-३२॥
सर्वे म्लेच्छाः सर्ववर्णा आदिमध्यान्तजास्तथा। नानादेशसमुत्थैश्च नानाजातिभिरागतैः ॥ पर्यस्त इव लोकोऽयं युधिष्ठिरनिवेशने ॥२-४८-३३॥
उच्चावचानुपग्राहान्राजभिः प्रहितान्बहून्। शत्रूणां पश्यतो दुःखान्मुमूर्षा मेऽद्य जायते ॥२-४८-३४॥
भृत्यास्तु ये पाण्डवानां तांस्ते वक्ष्यामि भारत। येषामामं च पक्वं च संविधत्ते युधिष्ठिरः ॥२-४८-३५॥
अयुतं त्रीणि पद्मानि गजारोहाः ससादिनः। रथानामर्बुदं चापि पादाता बहवस्तथा ॥२-४८-३६॥
प्रमीयमाणमारब्धं पच्यमानं तथैव च। विसृज्यमानं चान्यत्र पुण्याहस्वन एव च ॥२-४८-३७॥
नाभुक्तवन्तं नाहृष्टं नासुभिक्षं कथञ्चन। अपश्यं सर्ववर्णानां युधिष्ठिरनिवेशने ॥२-४८-३८॥
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः। त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः ॥ सुप्रीताः परितुष्टाश्च तेऽप्याशंसन्त्यरिक्षयम् ॥२-४८-३९॥
दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम्। भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने ॥२-४८-४०॥
भुक्ताभुक्तं कृताकृतं सर्वमाकुब्जवामनम्। अभुञ्जाना याज्ञसेनी प्रत्यवैक्षद्विशां पते ॥२-४८-४१॥
द्वौ करं न प्रयच्छेतां कुन्तीपुत्राय भारत। वैवाहिकेन पाञ्चालाः सख्येनान्धकवृष्णयः ॥२-४८-४२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.