02.057
Core-Pancharatra: Duryodhana rebukes Vidura.
दुर्योधन उवाच॥
परेषामेव यशसा श्लाघसे त्वं; सदा छन्नः कुत्सयन्धार्तराष्ट्रान्। जानीमस्त्वां विदुर यत्प्रियस्त्वं; बालानिवास्मानवमन्यसे त्वम् ॥२-५७-१॥
सुविज्ञेयः पुरुषोऽन्यत्रकामो; निन्दाप्रशंसे हि तथा युनक्ति। जिह्वा मनस्ते हृदयं निर्व्यनक्ति; ज्यायो निराह मनसः प्रातिकूल्यम् ॥२-५७-२॥
उत्सङ्गेन व्याल इवाहृतोऽसि; मार्जारवत्पोषकं चोपहंसि। भर्तृघ्नत्वान्न हि पापीय आहु; स्तस्मात्क्षत्तः किं न बिभेषि पापात् ॥२-५७-३॥
जित्वा शत्रून्फलमाप्तं महन्नो; मास्मान्क्षत्तः परुषाणीह वोचः। द्विषद्भिस्त्वं सम्प्रयोगाभिनन्दी; मुहुर्द्वेषं यासि नः सम्प्रमोहात् ॥२-५७-४॥
अमित्रतां याति नरोऽक्षमं ब्रुव; न्निगूहते गुह्यममित्रसंस्तवे। तदाश्रितापत्रपा किं न बाधते; यदिच्छसि त्वं तदिहाद्य भाषसे ॥२-५७-५॥
मा नोऽवमंस्था विद्म मनस्तवेदं; शिक्षस्व बुद्धिं स्थविराणां सकाशात्। यशो रक्षस्व विदुर सम्प्रणीतं; मा व्यापृतः परकार्येषु भूस्त्वम् ॥२-५७-६॥
अहं कर्तेति विदुर मावमंस्था; मा नो नित्यं परुषाणीह वोचः। न त्वां पृच्छामि विदुर यद्धितं मे; स्वस्ति क्षत्तर्मा तितिक्षून्क्षिणु त्वम् ॥२-५७-७॥
एकः शास्ता न द्वितीयोऽस्ति शास्ता; गर्भे शयानं पुरुषं शास्ति शास्ता। तेनानुशिष्टः प्रवणादिवाम्भो; यथा नियुक्तोऽस्मि तथा वहामि ॥२-५७-८॥
भिनत्ति शिरसा शैलमहिं भोजयते च यः। स एव तस्य कुरुते कार्याणामनुशासनम् ॥२-५७-९॥
यो बलादनुशास्तीह सोऽमित्रं तेन विन्दति। मित्रतामनुवृत्तं तु समुपेक्षेत पण्डितः ॥२-५७-१०॥
प्रदीप्य यः प्रदीप्ताग्निं प्राक्त्वरन्नाभिधावति। भस्मापि न स विन्देत शिष्टं क्वचन भारत ॥२-५७-११॥
न वासयेत्पारवर्ग्यं द्विषन्तं; विशेषतः क्षत्तरहितं मनुष्यम्। स यत्रेच्छसि विदुर तत्र गच्छ; सुसान्त्वितापि ह्यसती स्त्री जहाति ॥२-५७-१२॥
विदुर उवाच॥
एतावता ये पुरुषं त्यजन्ति; तेषां सख्यमन्तवद्ब्रूहि राजन्। राज्ञां हि चित्तानि परिप्लुतानि; सान्त्वं दत्त्वा मुसलैर्घातयन्ति ॥२-५७-१३॥
अबालस्त्वं मन्यसे राजपुत्र; बालोऽहमित्येव सुमन्दबुद्धे। यः सौहृदे पुरुषं स्थापयित्वा; पश्चादेनं दूषयते स बालः ॥२-५७-१४॥
न श्रेयसे नीयते मन्दबुद्धिः; स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा। ध्रुवं न रोचेद्भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः ॥२-५७-१५॥
अनुप्रियं चेदनुकाङ्क्षसे त्वं; सर्वेषु कार्येषु हिताहितेषु। स्त्रियश्च राजञ्जडपङ्गुकांश्च; पृच्छ त्वं वै तादृशांश्चैव मूढान् ॥२-५७-१६॥
लभ्यः खलु प्रातिपीय नरोऽनुप्रियवागिह। अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥२-५७-१७॥
यस्तु धर्मे पराश्वस्य हित्वा भर्तुः प्रियाप्रिये। अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥२-५७-१८॥
अव्याधिजं कटुकं तीक्ष्णमुष्णं; यशोमुषं परुषं पूतिगन्धि। सतां पेयं यन्न पिबन्त्यसन्तो; मन्युं महाराज पिब प्रशाम्य ॥२-५७-१९॥
वैचित्रवीर्यस्य यशो धनं च; वाञ्छाम्यहं सहपुत्रस्य शश्वत्। यथा तथा वोऽस्तु नमश्च वोऽस्तु; ममापि च स्वस्ति दिशन्तु विप्राः ॥२-५७-२०॥
आशीविषान्नेत्रविषान्कोपयेन्न तु पण्डितः। एवं तेऽहं वदामीदं प्रयतः कुरुनन्दन ॥२-५७-२१॥