Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.058
Core-Pancharatra: Yudhisthira loses his brothers, himself and Draupadi in the game of dice.
शकुनिरुवाच॥
बहु वित्तं पराजैषीः पाण्डवानां युधिष्ठिर। आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् ॥२-५८-१॥
युधिष्ठिर उवाच॥
मम वित्तमसङ्ख्येयं यदहं वेद सौबल। अथ त्वं शकुने कस्माद्वित्तं समनुपृच्छसि ॥२-५८-२॥
अयुतं प्रयुतं चैव खर्वं पद्मं तथार्बुदम्। शङ्खं चैव निखर्वं च समुद्रं चात्र पण्यताम् ॥ एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ॥२-५८-३॥
वैशम्पायन उवाच॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥२-५८-४॥
युधिष्ठिर उवाच॥
गवाश्वं बहुधेनूकमसङ्ख्येयमजाविकम्। यत्किञ्चिदनुवर्णानां प्राक्सिन्धोरपि सौबल ॥ एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ॥२-५८-५॥
वैशम्पायन उवाच॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥२-५८-६॥
युधिष्ठिर उवाच॥
पुरं जनपदो भूमिरब्राह्मणधनैः सह। अब्राह्मणाश्च पुरुषा राजञ्शिष्टं धनं मम ॥ एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥२-५८-७॥
वैशम्पायन उवाच॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥२-५८-८॥
युधिष्ठिर उवाच॥
राजपुत्रा इमे राजञ्शोभन्ते येन भूषिताः। कुण्डलानि च निष्काश्च सर्वं चाङ्गविभूषणम् ॥ एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ॥२-५८-९॥
वैशम्पायन उवाच॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥२-५८-१०॥
युधिष्ठिर उवाच॥
श्यामो युवा लोहिताक्षः सिंहस्कन्धो महाभुजः। नकुलो ग्लह एको मे यच्चैतत्स्वगतं धनम् ॥२-५८-११॥
शकुनिरुवाच॥
प्रियस्ते नकुलो राजन्राजपुत्रो युधिष्ठिर। अस्माकं धनतां प्राप्तो भूयस्त्वं केन दीव्यसि ॥२-५८-१२॥
वैशम्पायन उवाच॥
एवमुक्त्वा तु शकुनिस्तानक्षान्प्रत्यपद्यत। जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥२-५८-१३॥
युधिष्ठिर उवाच॥
अयं धर्मान्सहदेवोऽनुशास्ति; लोके ह्यस्मिन्पण्डिताख्यां गतश्च। अनर्हता राजपुत्रेण तेन; त्वया दीव्याम्यप्रियवत्प्रियेण ॥२-५८-१४॥
वैशम्पायन उवाच॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥२-५८-१५॥
शकुनिरुवाच॥
माद्रीपुत्रौ प्रियौ राजंस्तवेमौ विजितौ मया। गरीयांसौ तु ते मन्ये भीमसेनधनञ्जयौ ॥२-५८-१६॥
युधिष्ठिर उवाच॥
अधर्मं चरसे नूनं यो नावेक्षसि वै नयम्। यो नः सुमनसां मूढ विभेदं कर्तुमिच्छसि ॥२-५८-१७॥
शकुनिरुवाच॥
गर्ते मत्तः प्रपतति प्रमत्तः स्थाणुमृच्छति। ज्येष्ठो राजन्वरिष्ठोऽसि नमस्ते भरतर्षभ ॥२-५८-१८॥
स्वप्ने न तानि पश्यन्ति जाग्रतो वा युधिष्ठिर। कितवा यानि दीव्यन्तः प्रलपन्त्युत्कटा इव ॥२-५८-१९॥
युधिष्ठिर उवाच॥
यो नः सङ्ख्ये नौरिव पारनेता; जेता रिपूणां राजपुत्रस्तरस्वी। अनर्हता लोकवीरेण तेन; दीव्याम्यहं शकुने फल्गुनेन ॥२-५८-२०॥
वैशम्पायन उवाच॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥२-५८-२१॥
शकुनिरुवाच॥
अयं मया पाण्डवानां धनुर्धरः; पराजितः पाण्डवः सव्यसाची। भीमेन राजन्दयितेन दीव्य; यत्कैतव्यं पाण्डव तेऽवशिष्टम् ॥२-५८-२२॥
युधिष्ठिर उवाच॥
यो नो नेता यो युधां नः प्रणेता; यथा वज्री दानवशत्रुरेकः। तिर्यक्प्रेक्षी संहतभ्रूर्महात्मा; सिंहस्कन्धो यश्च सदात्यमर्षी ॥२-५८-२३॥
बलेन तुल्यो यस्य पुमान्न विद्यते; गदाभृतामग्र्य इहारिमर्दनः। अनर्हता राजपुत्रेण तेन; दीव्याम्यहं भीमसेनेन राजन् ॥२-५८-२४॥
वैशम्पायन उवाच॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥२-५८-२५॥
शकुनिरुवाच॥
बहु वित्तं पराजैषीर्भ्रातॄंश्च सहयद्विपान्। आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् ॥२-५८-२६॥
युधिष्ठिर उवाच॥
अहं विशिष्टः सर्वेषां भ्रातॄणां दयितस्तथा। कुर्यामस्ते जिताः कर्म स्वयमात्मन्युपप्लवे ॥२-५८-२७॥
वैशम्पायन उवाच॥
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥२-५८-२८॥
शकुनिरुवाच॥
एतत्पापिष्ठमकरोर्यदात्मानं पराजितः। शिष्टे सति धने राजन्पाप आत्मपराजयः ॥२-५८-२९॥
वैशम्पायन उवाच॥
एवमुक्त्वा मताक्षस्तान्ग्लहे सर्वानवस्थितान्। पराजयल्लोकवीरानाक्षेपेण पृथक्पृथक् ॥२-५८-३०॥
शकुनिरुवाच॥
अस्ति वै ते प्रिया देवी ग्लह एकोऽपराजितः। पणस्व कृष्णां पाञ्चालीं तयात्मानं पुनर्जय ॥२-५८-३१॥
युधिष्ठिर उवाच॥
नैव ह्रस्वा न महती नातिकृष्णा न रोहिणी। सरागरक्तनेत्रा च तया दीव्याम्यहं त्वया ॥२-५८-३२॥
शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया। शारदोत्पलसेविन्या रूपेण श्रीसमानया ॥२-५८-३३॥
तथैव स्यादानृशंस्यात्तथा स्याद्रूपसम्पदा। तथा स्याच्छीलसम्पत्त्या यामिच्छेत्पुरुषः स्त्रियम् ॥२-५८-३४॥
चरमं संविशति या प्रथमं प्रतिबुध्यते। आ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम् ॥२-५८-३५॥
आभाति पद्मवद्वक्त्रं सस्वेदं मल्लिकेव च। वेदीमध्या दीर्घकेशी ताम्राक्षी नातिरोमशा ॥२-५८-३६॥
तयैवंविधया राजन्पाञ्चाल्याहं सुमध्यया। ग्लहं दीव्यामि चार्वङ्ग्या द्रौपद्या हन्त सौबल ॥२-५८-३७॥
वैशम्पायन उवाच॥
एवमुक्ते तु वचने धर्मराजेन भारत। धिग्धिगित्येव वृद्धानां सभ्यानां निःसृता गिरः ॥२-५८-३८॥
चुक्षुभे सा सभा राजन्राज्ञां सञ्जज्ञिरे कथाः। भीष्मद्रोणकृपादीनां स्वेदश्च समजायत ॥२-५८-३९॥
शिरो गृहीत्वा विदुरो गतसत्त्व इवाभवत्। आस्ते ध्यायन्नधोवक्त्रो निःश्वसन्पन्नगो यथा ॥२-५८-४०॥
धृतराष्ट्रस्तु संहृष्टः पर्यपृच्छत्पुनः पुनः। किं जितं किं जितमिति ह्याकारं नाभ्यरक्षत ॥२-५८-४१॥
जहर्ष कर्णोऽतिभृशं सह दुःशासनादिभिः। इतरेषां तु सभ्यानां नेत्रेभ्यः प्रापतज्जलम् ॥२-५८-४२॥
सौबलस्त्वविचार्यैव जितकाशी मदोत्कटः। जितमित्येव तानक्षान्पुनरेवान्वपद्यत ॥२-५८-४३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.