02.059
Core-Pancharatra: When Duryodhana asks to bring Draupadi to Sabha, Vidura again warns.
दुर्योधन उवाच॥
एहि क्षत्तर्द्रौपदीमानयस्व; प्रियां भार्यां संमतां पाण्डवानाम्। संमार्जतां वेश्म परैतु शीघ्र; मानन्दो नः सह दासीभिरस्तु ॥२-५९-१॥
विदुर उवाच॥
दुर्विभाव्यं भवति त्वादृशेन; न मन्द सम्बुध्यसि पाशबद्धः। प्रपाते त्वं लम्बमानो न वेत्सि; व्याघ्रान्मृगः कोपयसेऽतिबाल्यात् ॥२-५९-२॥
आशीविषाः शिरसि ते पूर्णकोशा महाविषाः। मा कोपिष्ठाः सुमन्दात्मन्मा गमस्त्वं यमक्षयम् ॥२-५९-३॥
न हि दासीत्वमापन्ना कृष्णा भवति भारत। अनीशेन हि राज्ञैषा पणे न्यस्तेति मे मतिः ॥२-५९-४॥
अयं धत्ते वेणुरिवात्मघाती; फलं राजा धृतराष्ट्रस्य पुत्रः। द्यूतं हि वैराय महाभयाय; पक्वो न बुध्यत्ययमन्तकाले ॥२-५९-५॥
नारुन्तुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत। ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् ॥२-५९-६॥
समुच्चरन्त्यतिवादा हि वक्त्रा; द्यैराहतः शोचति रात्र्यहानि। परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु ॥२-५९-७॥
अजो हि शस्त्रमखनत्किलैकः; शस्त्रे विपन्ने पद्भिरपास्य भूमिम्। निकृन्तनं स्वस्य कण्ठस्य घोरं; तद्वद्वैरं मा खनीः पाण्डुपुत्रैः ॥२-५९-८॥
न किञ्चिदीड्यं प्रवदन्ति पापं; वनेचरं वा गृहमेधिनं वा। तपस्विनं सम्परिपूर्णविद्यं; भषन्ति हैवं श्वनराः सदैव ॥२-५९-९॥
द्वारं सुघोरं नरकस्य जिह्मं; न बुध्यसे धृतराष्ट्रस्य पुत्र। त्वामन्वेतारो बहवः कुरूणां; द्यूतोदये सह दुःशासनेन ॥२-५९-१०॥
मज्जन्त्यलाबूनि शिलाः प्लवन्ते; मुह्यन्ति नावोऽम्भसि शश्वदेव। मूढो राजा धृतराष्ट्रस्य पुत्रो; न मे वाचः पथ्यरूपाः शृणोति ॥२-५९-११॥
अन्तो नूनं भवितायं कुरूणां; सुदारुणः सर्वहरो विनाशः। वाचः काव्याः सुहृदां पथ्यरूपा; न श्रूयन्ते वर्धते लोभ एव ॥२-५९-१२॥