Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.064
Core-Pancharatra: Hearing Karna’s words, Bhima readies himself to kill everyone, only to be restrained by Yudhisthira.
कर्ण उवाच॥
या नः श्रुता मनुष्येषु स्त्रियो रूपेण संमताः। तासामेतादृशं कर्म न कस्याञ्चन शुश्रुमः ॥२-६४-१॥
क्रोधाविष्टेषु पार्थेषु धार्तराष्ट्रेषु चाप्यति। द्रौपदी पाण्डुपुत्राणां कृष्णा शान्तिरिहाभवत् ॥२-६४-२॥
अप्लवेऽम्भसि मग्नानामप्रतिष्ठे निमज्जताम्। पाञ्चाली पाण्डुपुत्राणां नौरेषा पारगाभवत् ॥२-६४-३॥
वैशम्पायन उवाच॥
तद्वै श्रुत्वा भीमसेनः कुरुमध्येऽत्यमर्षणः। स्त्री गतिः पाण्डुपुत्राणामित्युवाच सुदुर्मनाः ॥२-६४-४॥
त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत्। अपत्यं कर्म विद्या च यतः सृष्टाः प्रजास्ततः ॥२-६४-५॥
अमेध्ये वै गतप्राणे शून्ये ज्ञातिभिरुज्झिते। देहे त्रितयमेवैतत्पुरुषस्योपजायते ॥२-६४-६॥
तन्नो ज्योतिरभिहतं दाराणामभिमर्शनात्। धनञ्जय कथं स्वित्स्यादपत्यमभिमृष्टजम् ॥२-६४-७॥
अर्जुन उवाच॥
न चैवोक्ता न चानुक्ता हीनतः परुषा गिरः। भारताः प्रतिजल्पन्ति सदा तूत्तमपूरुषाः ॥२-६४-८॥
स्मरन्ति सुकृतान्येव न वैराणि कृतानि च। सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः ॥२-६४-९॥
भीम उवाच॥
इहैवैतांस्तुरा सर्वान्हन्मि शत्रून्समागतान्। अथ निष्क्रम्य राजेन्द्र समूलान्कृन्धि भारत ॥२-६४-१०॥
किं नो विवदितेनेह किं नः क्लेशेन भारत। अद्यैवैतान्निहन्मीह प्रशाधि वसुधामिमाम् ॥२-६४-११॥
वैशम्पायन उवाच॥
इत्युक्त्वा भीमसेनस्तु कनिष्ठैर्भ्रातृभिर्वृतः। मृगमध्ये यथा सिंहो मुहुः परिघमैक्षत ॥२-६४-१२॥
सान्त्व्यमानो वीज्यमानः पार्थेनाक्लिष्टकर्मणा। स्विद्यते च महाबाहुरन्तर्दाहेन वीर्यवान् ॥२-६४-१३॥
क्रुद्धस्य तस्य स्रोतोभ्यः कर्णादिभ्यो नराधिप। सधूमः सस्फुलिङ्गार्चिः पावकः समजायत ॥२-६४-१४॥
भ्रुकुटीपुटदुष्प्रेक्ष्यमभवत्तस्य तन्मुखम्। युगान्तकाले सम्प्राप्ते कृतान्तस्येव रूपिणः ॥२-६४-१५॥
युधिष्ठिरस्तमावार्य बाहुना बाहुशालिनम्। मैवमित्यब्रवीच्चैनं जोषमास्स्वेति भारत ॥२-६४-१६॥
निवार्य तं महाबाहुं कोपसंरक्तलोचनम्। पितरं समुपातिष्ठद्धृतराष्ट्रं कृताञ्जलिः ॥२-६४-१७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.