Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.004
Library: Sun gives the gift of food. Brahmanas depart.
वैशम्पायन उवाच॥
ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम्। दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः ॥३-४-१॥
यत्तेऽभिलषितं राजन्सर्वमेतदवाप्स्यसि। अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः ॥३-४-२॥
फलमूलामिषं शाकं संस्कृतं यन्महानसे। चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति ॥ धनं च विविधं तुभ्यमित्युक्त्वान्तरधीयत ॥३-४-३॥
लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्य धर्मवित्। जग्राह पादौ धौम्यस्य भ्रातॄंश्चास्वजताच्युतः ॥३-४-४॥
द्रौपद्या सह सङ्गम्य पश्यमानोऽभ्ययात्प्रभुः। महानसे तदान्नं तु साधयामास पाण्डवः ॥३-४-५॥
संस्कृतं प्रसवं याति वन्यमन्नं चतुर्विधम्। अक्षय्यं वर्धते चान्नं तेन भोजयते द्विजान् ॥३-४-६॥
भुक्तवत्सु च विप्रेषु भोजयित्वानुजानपि। शेषं विघससञ्ज्ञं तु पश्चाद्भुङ्क्ते युधिष्ठिरः ॥ युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती ॥३-४-७॥
एवं दिवाकरात्प्राप्य दिवाकरसमद्युतिः। कामान्मनोऽभिलषितान्ब्राह्मणेभ्यो ददौ प्रभुः ॥३-४-८॥
पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु। यज्ञियार्थाः प्रवर्तन्ते विधिमन्त्रप्रमाणतः ॥३-४-९॥
ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः। द्विजसङ्घैः परिवृताः प्रययुः काम्यकं वनम् ॥३-४-१०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.