03.010
Pancharatra: Vyasa justifies his concern for Pandavas by narrating a story of Surabhi.
धृतराष्ट्र उवाच॥
भगवन्नाहमप्येतद्रोचये द्यूतसंस्तवम्। मन्ये तद्विधिनाक्रम्य कारितोऽस्मीति वै मुने ॥३-१०-१॥
नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च। गान्धारी नेच्छति द्यूतं तच्च मोहात्प्रवर्तितम् ॥३-१०-२॥
परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम्। पुत्रस्नेहेन भगवञ्जानन्नपि यतव्रत ॥३-१०-३॥
व्यास उवाच॥
वैचित्रवीर्य नृपते सत्यमाह यथा भवान्। दृढं वेद्मि परं पुत्रं परं पुत्रान्न विद्यते ॥३-१०-४॥
इन्द्रोऽप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः। अन्यैः समृद्धैरप्यर्थैर्न सुताद्विद्यते परम् ॥३-१०-५॥
अत्र ते वर्तयिष्यामि महदाख्यानमुत्तमम्। सुरभ्याश्चैव संवादमिन्द्रस्य च विशां पते ॥३-१०-६॥
त्रिविष्टपगता राजन्सुरभिः प्रारुदत्किल। गवां मात पुरा तात तामिन्द्रोऽन्वकृपायत ॥३-१०-७॥
इन्द्र उवाच॥
किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम्। मानुषेष्वथ वा गोषु नैतदल्पं भविष्यति ॥३-१०-८॥
सुरभिरुवाच॥
विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप। अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक ॥३-१०-९॥
पश्यैनं कर्षकं रौद्रं दुर्बलं मम पुत्रकम्। प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन निपीडितम् ॥३-१०-१०॥
एतं दृष्ट्वा भृशं श्रन्तं वध्यमानं सुराधिप। कृपाविष्टास्मि देवेन्द्र मनश्चोद्विजते मम ॥३-१०-११॥
एकस्तत्र बलोपेतो धुरमुद्वहतेऽधिकाम्। अपरोऽल्पबलप्राणः कृशो धमनिसन्ततः ॥ कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव ॥३-१०-१२॥
वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः। नैव शक्नोति तं भारमुद्वोढुं पश्य वासव ॥३-१०-१३॥
ततोऽहं तस्य दुःखार्ता विरौमि भृशदुःखिता। अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती ॥३-१०-१४॥
इन्द्र उवाच॥
तव पुत्रसहस्रेषु पीड्यमानेषु शोभने। किं कृपायितमस्त्यत्र पुत्र एकोऽत्र पीड्यते ॥३-१०-१५॥
सुरभिरुवाच॥
यदि पुत्रसहस्रं मे सर्वत्र सममेव मे। दीनस्य तु सतः शक्र पुत्रस्याभ्यधिका कृपा ॥३-१०-१६॥
व्यास उवाच॥
तदिन्द्रः सुरभीवाक्यं निशम्य भृशविस्मितः। जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम् ॥३-१०-१७॥
प्रववर्ष च तत्रैव सहसा तोयमुल्बणम्। कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः ॥३-१०-१८॥
तद्यथा सुरभिः प्राह सममेवास्तु ते तथा। सुतेषु राजन्सर्वेषु दीनेष्वभ्यधिका कृपा ॥३-१०-१९॥
यादृशो मे सुतः पण्डुस्तादृशो मेऽसि पुत्रक। विदुरश्च महाप्राज्ञः स्नेहादेतद्ब्रवीम्यहम् ॥३-१०-२०॥
चिराय तव पुत्राणां शतमेकश्च पार्थिव। पाण्डोः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाः सुदुःखिताः ॥३-१०-२१॥
कथं जीवेयुरत्यन्तं कथं वर्धेयुरित्यपि। इति दीनेषु पार्थेषु मनो मे परितप्यते ॥३-१०-२२॥
यदि पार्थिव कौरव्याञ्जीवमानानिहेच्छसि। दुर्योधनस्तव सुतः शमं गच्छतु पाण्डवैः ॥३-१०-२३॥