Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.011
Pancharatra: Vyasa asks Dhritarashtra to listen to Maitreya and disappears.
धृतराष्ट्र उवाच॥
एवमेतन्महाप्राज्ञ यथा वदसि नो मुने। अहं चैव विजानामि सर्वे चेमे नराधिपाः ॥३-११-१॥
भवांस्तु मन्यते साधु यत्कुरूणां सुखोदयम्। तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने ॥३-११-२॥
यदि त्वहमनुग्राह्यः कौरवेषु दया यदि। अनुशाधि दुरात्मानं पुत्रं दुर्योधनं मम ॥३-११-३॥
व्यास उवाच॥
अयमायाति वै राजन्मैत्रेयो भगवानृषिः। अन्वीय पाण्डवान्भ्रातॄनिहैवास्मद्दिदृक्षया ॥३-११-४॥
एष दुर्योधनं पुत्रं तव राजन्महानृषिः। अनुशास्ता यथान्यायं शमायास्य कुलस्य ते ॥३-११-५॥
ब्रूयाद्यदेष राजेन्द्र तत्कार्यमविशङ्कया। अक्रियायां हि कार्यस्य पुत्रं ते शप्स्यते रुषा ॥३-११-६॥
वैशम्पायन उवाच॥
एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत। पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः ॥३-११-७॥
दत्त्वार्घ्याद्याः क्रियाः सर्वा विश्रान्तं मुनिपुङ्गवम्। प्रश्रयेणाब्रवीद्राजा धृतराष्ट्रोऽम्बिकासुतः ॥३-११-८॥
सुखेनागमनं कच्चिद्भगवन्कुरुजाङ्गले। कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः ॥३-११-९॥
समये स्थातुमिच्छन्ति कच्चिच्च पुरुषर्षभाः। कच्चित्कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति ॥३-११-१०॥
मैत्रेय उवाच॥
तीर्थयात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलम्। यदृच्छया धर्मराजं दृष्टवान्काम्यके वने ॥३-११-११॥
तं जटाजिनसंवीतं तपोवननिवासिनम्। समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो ॥३-११-१२॥
तत्राश्रौषं महाराज पुत्राणां तव विभ्रमम्। अनयं द्यूतरूपेण महापायमुपस्थितम् ॥३-११-१३॥
ततोऽहं त्वामनुप्राप्तः कौरवाणामवेक्षया। सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वयि मे प्रभो ॥३-११-१४॥
नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति। यदन्योन्येन ते पुत्रा विरुध्यन्ते नराधिप ॥३-११-१५॥
मेढीभूतः स्वयं राजन्निग्रहे प्रग्रहे भवान्। किमर्थमनयं घोरमुत्पतन्तमुपेक्षसे ॥३-११-१६॥
दस्यूनामिव यद्वृत्तं सभायां कुरुनन्दन। तेन न भ्राजसे राजंस्तापसानां समागमे ॥३-११-१७॥
वैशम्पायन उवाच॥
ततो व्यावृत्य राजानं दुर्योधनममर्षणम्। उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृषिः ॥३-११-१८॥
दुर्योधन महाबाहो निबोध वदतां वर। वचनं मे महाप्राज्ञ ब्रुवतो यद्धितं तव ॥३-११-१९॥
मा द्रुहः पाण्डवान्राजन्कुरुष्व हितमात्मनः। पाण्डवानां कुरूणां च लोकस्य च नरर्षभ ॥३-११-२०॥
ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः। सर्वे नागायुतप्राणा वज्रसंहनना दृढाः ॥३-११-२१॥
सत्यव्रतपराः सर्वे सर्वे पुरुषमानिनः। हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम् ॥ हिडिम्बबकमुख्यानां किर्मीरस्य च रक्षसः ॥३-११-२२॥
इतः प्रच्यवतां रात्रौ यः स तेषां महात्मनाम्। आवृत्य मार्गं रौद्रात्मा तस्थौ गिरिरिवाचलः ॥३-११-२३॥
तं भीमः समरश्लाघी बलेन बलिनां वरः। जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा ॥३-११-२४॥
पश्य दिग्विजये राजन्यथा भीमेन पातितः। जरासन्धो महेष्वासो नागायुतबलो युधि ॥३-११-२५॥
सम्बन्धी वासुदेवश्च येषां श्यालश्च पार्षतः। कस्तान्युधि समासीत जरामरणवान्नरः ॥३-११-२६॥
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ। कुरु मे वचनं राजन्मा मृत्युवशमन्वगाः ॥३-११-२७॥
एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशां पते। ऊरुं गजकराकारं करेणाभिजघान सः ॥३-११-२८॥
दुर्योधनः स्मितं कृत्वा चरणेनालिखन्महीम्। न किञ्चिदुक्त्वा दुर्मेधास्तस्थौ किञ्चिदवाङ्मुखः ॥३-११-२९॥
तमशुश्रूषमाणं तु विलिखन्तं वसुन्धराम्। दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत् ॥३-११-३०॥
स कोपवशमापन्नो मैत्रेयो मुनिसत्तमः। विधिना सम्प्रयुक्तश्च शापायास्य मनो दधे ॥३-११-३१॥
ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः। मैत्रेयो धार्तराष्ट्रं तमशपद्दुष्टचेतसम् ॥३-११-३२॥
यस्मात्त्वं मामनादृत्य नेमां वाचं चिकीर्षसि। तस्मादस्याभिमानस्य सद्यः फलमवाप्नुहि ॥३-११-३३॥
त्वदभिद्रोहसंयुक्तं युद्धमुत्पत्स्यते महत्। यत्र भीमो गदापातैस्तवोरुं भेत्स्यते बली ॥३-११-३४॥
इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः। प्रसादयामास मुनिं नैतदेवं भवेदिति ॥३-११-३५॥
मैत्रेय उवाच॥
शमं यास्यति चेत्पुत्रस्तव राजन्यथा तथा। शापो न भविता तात विपरीते भविष्यति ॥३-११-३६॥
वैशम्पायन उवाच॥
स विलक्षस्तु राजेन्द्र दुर्योधनपिता तदा। मैत्रेयं प्राह किर्मीरः कथं भीमेन पातितः ॥३-११-३७॥
मैत्रेय उवाच॥
नाहं वक्ष्याम्यसूया ते न ते शुश्रूषते सुतः। एष ते विदुरः सर्वमाख्यास्यति गते मयि ॥३-११-३८॥
वैशम्पायन उवाच॥
इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथागतम्। किर्मीरवधसंविग्नो बहिर्दुर्योधनोऽगमत् ॥३-११-३९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.