Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.012
Core-Pancharatra: In the forest of Kamyaka, Bhima kills Kirmira, brother of Baka.
धृतराष्ट्र उवाच॥
किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम्। रक्षसा भीमसेनस्य कथमासीत्समागमः ॥३-१२-१॥
विदुर उवाच॥
शृणु भीमस्य कर्मेदमतिमानुषकर्मणः। श्रुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः ॥३-१२-२॥
इतः प्रयाता राजेन्द्र पाण्डवा द्यूतनिर्जिताः। जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद्वनम् ॥३-१२-३॥
रात्रौ निशीथे स्वाभीले गतेऽर्धसमये नृप। प्रचारे पुरुषादानां रक्षसां भीमकर्मणाम् ॥३-१२-४॥
तद्वनं तापसा नित्यं शेषाश्च वनचारिणः। दूरात्परिहरन्ति स्म पुरुषादभयात्किल ॥३-१२-५॥
तेषां प्रविशतां तत्र मार्गमावृत्य भारत। दीप्ताक्षं भीषणं रक्षः सोल्मुकं प्रत्यदृश्यत ॥३-१२-६॥
बाहू महान्तौ कृत्वा तु तथास्यं च भयानकम्। स्थितमावृत्य पन्थानं येन यान्ति कुरूद्वहाः ॥३-१२-७॥
दष्टोष्ठदंष्ट्रं ताम्राक्षं प्रदीप्तोर्ध्वशिरोरुहम्। सार्करश्मितडिच्चक्रं सबलाकमिवाम्बुदम् ॥३-१२-८॥
सृजन्तं राक्षसीं मायां महारावविराविणम्। मुञ्चन्तं विपुलं नादं सतोयमिव तोयदम् ॥३-१२-९॥
तस्य नादेन सन्त्रस्ताः पक्षिणः सर्वतोदिशम्। विमुक्तनादाः सम्पेतुः स्थलजा जलजैः सह ॥३-१२-१०॥
सम्प्रद्रुतमृगद्वीपिमहिषर्क्षसमाकुलम्। तद्वनं तस्य नादेन सम्प्रस्थितमिवाभवत् ॥३-१२-११॥
तस्योरुवाताभिहता ताम्रपल्लवबाहवः। विदूरजाताश्च लताः समाश्लिष्यन्त पादपान् ॥३-१२-१२॥
तस्मिन्क्षणेऽथ प्रववौ मारुतो भृशदारुणः। रजसा संवृतं तेन नष्टर्ष्कमभवन्नभः ॥३-१२-१३॥
पञ्चानां पाण्डुपुत्राणामविज्ञातो महारिपुः। पञ्चानामिन्द्रियाणां तु शोकवेग इवातुलः ॥३-१२-१४॥
स दृष्ट्वा पाण्डवान्दूरात्कृष्णाजिनसमावृतान्। आवृणोत्तद्वनद्वारं मैनाक इव पर्वतः ॥३-१२-१५॥
तं समासाद्य वित्रस्ता कृष्णा कमललोचना। अदृष्टपूर्वं सन्त्रासान्न्यमीलयत लोचने ॥३-१२-१६॥
दुःशासनकरोत्सृष्टविप्रकीर्णशिरोरुहा। पञ्चपर्वतमध्यस्था नदीवाकुलतां गता ॥३-१२-१७॥
मोमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः। इन्द्रियाणि प्रसक्तानि विषयेषु यथा रतिम् ॥३-१२-१८॥
अथ तां राक्षसीं मायामुत्थितां घोरदर्शनाम्। रक्षोघ्नैर्विविधैर्मन्त्रैर्धौम्यः सम्यक्प्रयोजितैः ॥ पश्यतां पाण्डुपुत्राणां नाशयामास वीर्यवान् ॥३-१२-१९॥
स नष्टमायोऽतिबलः क्रोधविस्फारितेक्षणः। काममूर्तिधरः क्षुद्रः कालकल्पो व्यदृश्यत ॥३-१२-२०॥
तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः। को भवान्कस्य वा किं ते क्रियतां कार्यमुच्यताम् ॥३-१२-२१॥
प्रत्युवाचाथ तद्रक्षो धर्मराजं युधिष्ठिरम्। अहं बकस्य वै भ्राता किर्मीर इति विश्रुतः ॥३-१२-२२॥
वनेऽस्मिन्काम्यके शून्ये निवसामि गतज्वरः। युधि निर्जित्य पुरुषानाहारं नित्यमाचरन् ॥३-१२-२३॥
के यूयमिह सम्प्राप्ता भक्ष्यभूता ममान्तिकम्। युधि निर्जित्य वः सर्वान्भक्षयिष्ये गतज्वरः ॥३-१२-२४॥
युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः। आचचक्षे ततः सर्वं गोत्रनामादि भारत ॥३-१२-२५॥
पाण्डवो धर्मराजोऽहं यदि ते श्रोत्रमागतः। सहितो भ्रातृभिः सर्वैर्भीमसेनार्जुनादिभिः ॥३-१२-२६॥
हृतराज्यो वने वासं वस्तुं कृतमतिस्ततः। वनमभ्यागतो घोरमिदं तव परिग्रहम् ॥३-१२-२७॥
किर्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम। उपपादितमद्येह चिरकालान्मनोगतम् ॥३-१२-२८॥
भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः। चरामि पृथिवीं कृत्स्नां नैनमासादयाम्यहम् ॥३-१२-२९॥
सोऽयमासादितो दिष्ट्या भ्रातृहा काङ्क्षितश्चिरम्। अनेन हि मम भ्राता बको विनिहतः प्रियः ॥३-१२-३०॥
वेत्रकीयगृहे राजन्ब्राह्मणच्छद्मरूपिणा। विद्याबलमुपाश्रित्य न ह्यस्त्यस्यौरसं बलम् ॥३-१२-३१॥
हिडिम्बश्च सखा मह्यं दयितो वनगोचरः। हतो दुरात्मनानेन स्वसा चास्य हृता पुरा ॥३-१२-३२॥
सोऽयमभ्यागतो मूढो ममेदं गहनं वनम्। प्रचारसमयेऽस्माकमर्धरात्रे समास्थिते ॥३-१२-३३॥
अद्यास्य यातयिष्यामि तद्वैरं चिरसम्भृतम्। तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा ॥३-१२-३४॥
अद्याहमनृणो भूत्वा भ्रातुः सख्युस्तथैव च। शान्तिं लब्धास्मि परमां हत्व राक्षसकण्टकम् ॥३-१२-३५॥
यदि तेन पुरा मुक्तो भीमसेनो बकेन वै। अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर ॥३-१२-३६॥
एनं हि विपुलप्राणमद्य हत्वा वृकोदरम्। सम्भक्ष्य जरयिष्यामि यथागस्त्यो महासुरम् ॥३-१२-३७॥
एवमुक्तस्तु धर्मात्मा सत्यसन्धो युधिष्ठिरः। नैतदस्तीति सक्रोधो भर्त्सयामास राक्षसम् ॥३-१२-३८॥
ततो भीमो महाबाहुरारुज्य तरसा द्रुम। दशव्याममिवोद्विद्धं निष्पत्रमकरोत्तदा ॥३-१२-३९॥
चकार सज्यं गाण्डीवं वज्रनिष्पेषगौरवम्। निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः ॥३-१२-४०॥
निवार्य भीमो जिष्णुं तु तद्रक्षो घोरदर्शनम्। अभिद्रुत्याब्रवीद्वाक्यं तिष्ठ तिष्ठेति भारत ॥३-१२-४१॥
इत्युक्त्वैनमभिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः। निष्पिष्य पाणिना पाणिं संदष्टोष्ठपुटो बली ॥ तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा ॥३-१२-४२॥
यमदण्डप्रतीकाशं ततस्तं तस्य मूर्धनि। पातयामास वेगेन कुलिशं मघवानिव ॥३-१२-४३॥
असम्भ्रान्तं तु तद्रक्षः समरे प्रत्यदृश्यत। चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव ॥३-१२-४४॥
तदुदस्तमलातं तु भीमः प्रहरतां वरः। पदा सव्येन चिक्षेप तद्रक्षः पुनराव्रजत् ॥३-१२-४५॥
किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम्। दण्डपाणिरिव क्रुद्धः समरे प्रत्ययुध्यत ॥३-१२-४६॥
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम्। वालिसुग्रीवयोर्भ्रात्रोर्यथा श्रीकाङ्क्षिणोः पुरा ॥३-१२-४७॥
शीर्षयोः पतिता वृक्षा बिभिदुर्नैकधा तयोः। यथैवोत्पलपद्मानि मत्तयोर्द्विपयोस्तथा ॥३-१२-४८॥
मुञ्जवज्जर्जरीभूता बहवस्तत्र पादपाः। चीराणीव व्युदस्तानि रेजुस्तत्र महावने ॥३-१२-४९॥
तद्वृक्षयुद्धमभवत्सुमुहूर्तं विशां पते। राक्षसानां च मुख्यस्य नराणामुत्तमस्य च ॥३-१२-५०॥
ततः शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः। प्राहिणोद्राक्षसः क्रुद्धो भीमसेनश्चचाल ह ॥३-१२-५१॥
तं शिलाताडनजडं पर्यधावत्स राक्षसः। बाहुविक्षिप्तकिरणः स्वर्भानुरिव भास्करम् ॥३-१२-५२॥
तावन्योन्यं समाश्लिष्य प्रकर्षन्तौ परस्परम्। उभावपि चकाशेते प्रयुद्धौ वृषभाविव ॥३-१२-५३॥
तयोरासीत्सुतुमुलः सम्प्रहारः सुदारुणः। नखदंष्ट्रायुधवतोर्व्याघ्रयोरिव दृप्तयोः ॥३-१२-५४॥
दुर्योधननिकाराच्च बाहुवीर्याच्च दर्पितः। कृष्णानयनदृष्टश्च व्यवर्धत वृकोदरः ॥३-१२-५५॥
अभिपत्याथ बाहुभ्यां प्रत्यगृह्णादमर्षितः। मातङ्ग इव मातङ्गं प्रभिन्नकरटामुखः ॥३-१२-५६॥
तं चाप्याथ ततो रक्षः प्रतिजग्राह वीर्यवान्। तमाक्षिपद्भीमसेनो बलेन बलिनां वरः ॥३-१२-५७॥
तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा। शब्दः समभवद्घोरो वेणुस्फोटसमो युधि ॥३-१२-५८॥
अथैनमाक्षिप्य बलाद्गृह्य मध्ये वृकोदरः। धूनयामास वेगेन वायुश्चण्ड इव द्रुमम् ॥३-१२-५९॥
स भीमेन परामृष्टो दुर्बलो बलिना रणे। व्यस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम् ॥३-१२-६०॥
तत एनं परिश्रान्तमुपलभ्य वृकोदरः। योक्त्रयामास बाहुभ्यां पशुं रशनया यथा ॥३-१२-६१॥
विनदन्तं महानादं भिन्नभेरीसमस्वनम्। भ्रामयामास सुचिरं विस्फुरन्तमचेतसम् ॥३-१२-६२॥
तं विषीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः। प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत् ॥३-१२-६३॥
आक्रम्य स कटीदेशे जानुना राक्षसाधमम्। अपीडयत बाहुभ्यां कण्ठं तस्य वृकोदरः ॥३-१२-६४॥
अथ तं जडसर्वाङ्गं व्यावृत्तनयनोल्बणम्। भूतले पातयामास वाक्यं चेदमुवाच ह ॥३-१२-६५॥
हिडिम्बबकयोः पाप न त्वमश्रुप्रमार्जनम्। करिष्यसि गतश्चासि यमस्य सदनं प्रति ॥३-१२-६६॥
इत्येवमुक्त्वा पुरुषप्रवीर; स्तं राक्षसं क्रोधविवृत्तनेत्रः। प्रस्रस्तवस्त्राभरणं स्फुरन्त; मुद्भ्रान्तचित्तं व्यसुमुत्ससर्ज ॥३-१२-६७॥
तस्मिन्हते तोयदतुल्यरूपे; कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः। भीमं प्रशस्याथ गुणैरनेकै; र्हृष्टास्ततो द्वैतवनाय जग्मुः ॥३-१२-६८॥
एवं विनिहतः सङ्ख्ये किर्मीरो मनुजाधिप। भीमेन वचनात्तस्य धर्मराजस्य कौरव ॥३-१२-६९॥
ततो निष्कण्टकं कृत्वा वनं तदपराजितः। द्रौपद्या सह धर्मज्ञो वसतिं तामुवास ह ॥३-१२-७०॥
समाश्वास्य च ते सर्वे द्रौपदीं भरतर्षभाः। प्रहृष्टमनसः प्रीत्या प्रशशंसुर्वृकोदरम् ॥३-१२-७१॥
भीमबाहुबलोत्पिष्टे विनष्टे राक्षसे ततः। विविशुस्तद्वनं वीराः क्षेमं निहतकण्टकम् ॥३-१२-७२॥
स मया गच्छता मार्गे विनिकीर्णो भयावहः। वने महति दुष्टात्मा दृष्टो भीमबलाद्धतः ॥३-१२-७३॥
तत्राश्रौषमहं चैतत्कर्म भीमस्य भारत। ब्राह्मणानां कथयतां ये तत्रासन्समागताः ॥३-१२-७४॥
वैशम्पायन उवाच॥
एवं विनिहतं सङ्ख्ये किर्मीरं राक्षसोत्तमम्। श्रुत्वा ध्यानपरो राजा निशश्वासार्तवत्तदा ॥३-१२-७५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.