Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.013
Core-Pancharatra: Krishna and Arjuna are Nara and Narayana.
वैशम्पायन उवाच॥
भोजाः प्रव्रजिताञ्श्रुत्वा वृष्णयश्चान्धकैः सह। पाण्डवान्दुःखसन्तप्तान्समाजग्मुर्महावने ॥३-१३-१॥
पाञ्चालस्य च दायादा धृष्टकेतुश्च चेदिपः। केकयाश्च महावीर्या भ्रातरो लोकविश्रुताः ॥३-१३-२॥
वने तेऽभिययुः पार्थान्क्रोधामर्शसमन्विताः। गर्हयन्तो धार्तराष्ट्रान्किं कुर्म इति चाब्रुवन् ॥३-१३-३॥
वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रियर्षभाः। परिवार्योपविविशुर्धर्मराजं युधिष्ठिरम् ॥३-१३-४॥
वासुदेव उवाच॥
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः। दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ॥३-१३-५॥
ततः सर्वेऽभिषिञ्चामो धर्मराजं युधिष्ठिरम्। निकृत्योपचरन्वध्य एष धर्मः सनातनः ॥३-१३-६॥
वैशम्पायन उवाच॥
पार्थानामभिषङ्गेण तथा क्रुद्धं जनार्दनम्। अर्जुनः शमयामासा दिधक्षन्तमिव प्रजाः ॥३-१३-७॥
सङ्क्रुद्धं केशवं दृष्ट्वा पूर्वदेहेषु फल्गुनः। कीर्तयामास कर्माणि सत्यकीर्तेर्महात्मनः ॥३-१३-८॥
पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः। प्रजापतिपतेर्विष्णोर्लोकनाथस्य धीमतः ॥३-१३-९॥
अर्जुन उवाच॥
दश वर्षसहस्राणि यत्रसायङ्गृहो मुनिः। व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमादने ॥३-१३-१०॥
दश वर्षसहस्राणि दश वर्षशतानि च। पुष्करेष्ववसः कृष्ण त्वमपो भक्षयन्पुरा ॥३-१३-११॥
ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन। अतिष्ठ एकपादेन वायुभक्षः शतं समाः ॥३-१३-१२॥
अपकृष्टोत्तरासङ्गः कृशो धमनिसन्ततः। आसीः कृष्ण सरस्वत्यां सत्रे द्वादशवार्षिके ॥३-१३-१३॥
प्रभासं चाप्यथासाद्य तीर्थं पुण्यजनोचितम्। तथा कृष्ण महातेजा दिव्यं वर्षसहस्रकम् ॥ आतिष्ठस्तप एकेन पादेन नियमे स्थितः ॥३-१३-१४॥
क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशव। निधानं तपसां कृष्ण यज्ञस्त्वं च सनातनः ॥३-१३-१५॥
निहत्य नरकं भौममाहृत्य मणिकुण्डले। प्रथमोत्पादितं कृष्ण मेध्यमश्वमवासृजः ॥३-१३-१६॥
कृत्वा तत्कर्म लोकानामृषभः सर्वलोकजित्। अवधीस्त्वं रणे सर्वान्समेतान्दैत्यदानवान् ॥३-१३-१७॥
ततः सर्वेश्वरत्वं च सम्प्रदाय शचीपतेः। मानुषेषु महाबाहो प्रादुर्भूतोऽसि केशव ॥३-१३-१८॥
स त्वं नारायणो भूत्वा हरिरासीः परन्तप। ब्रह्मा सोमश्च सूर्यश्च धर्मो धाता यमोऽनलः ॥३-१३-१९॥
वायुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः। अजश्चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम ॥३-१३-२०॥
तुरायणादिभिर्देव क्रतुभिर्भूरिदक्षिणैः। अयजो भूरितेजा वै कृष्ण चैत्ररथे वने ॥३-१३-२१॥
शतं शतसहस्राणि सुवर्णस्य जनार्दन। एकैकस्मिंस्तदा यज्ञे परिपूर्णानि भागशः ॥३-१३-२२॥
अदितेरपि पुत्रत्वमेत्य यादवनन्दन। त्वं विष्णुरिति विख्यात इन्द्रादवरजो भुवि ॥३-१३-२३॥
शिशुर्भूत्वा दिवं खं च पृथिवीं च परन्तप। त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा ॥३-१३-२४॥
सम्प्राप्य दिवमाकाशमादित्यसदने स्थितः। अत्यरोचश्च भूतात्मन्भास्करं स्वेन तेजसा ॥३-१३-२५॥
सादिता मौरवाः पाशा निसुन्दनरकौ हतौ। कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति ॥३-१३-२६॥
जारूथ्यामाहुतिः क्राथः शिशुपालो जनैः सह। भीमसेनश्च शैब्यश्च शतधन्वा च निर्जितः ॥३-१३-२७॥
तथा पर्जन्यघोषेण रथेनादित्यवर्चसा। अवाक्षीर्महिषीं भोज्यां रणे निर्जित्य रुक्मिणम् ॥३-१३-२८॥
इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान्। हतः सौभपतिः शाल्वस्त्वया सौभं च पातितम् ॥३-१३-२९॥
इरावत्यां तथा भोजः कार्तवीर्यसमो युधि। गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ ॥३-१३-३०॥
तां च भोगवतीं पुण्यामृषिकान्तां जनार्दन। द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यसि ॥३-१३-३१॥
न क्रोधो न च मात्सर्यं नानृतं मधुसूदन। त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु ॥३-१३-३२॥
आसीनं चित्तमध्ये त्वां दीप्यमानं स्वतेजसा। आगम्य ऋषयः सर्वेऽयाचन्ताभयमच्युत ॥३-१३-३३॥
युगान्ते सर्वभूतानि सङ्क्षिप्य मधुसूदन। आत्मन्येवात्मसात्कृत्वा जगदास्से परन्तप ॥३-१३-३४॥
नैवं पूर्वे नापरे वा करिष्यन्ति कृतानि ते। कर्माणि यानि देव त्वं बाल एव महाद्युते ॥३-१३-३५॥
कृतवान्पुण्डरीकाक्ष बलदेवसहायवान्। वैराजभवने चापि ब्रह्मणा न्यवसः सह ॥३-१३-३६॥
वैशम्पायन उवाच॥
एवमुक्त्वा तदात्मानमात्मा कृष्णस्य पाण्डवः। तूष्णीमासीत्ततः पार्थमित्युवाच जनार्दनः ॥३-१३-३७॥
ममैव त्वं तवैवाहं ये मदीयास्तवैव ते। यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु ॥३-१३-३८॥
नरस्त्वमसि दुर्धर्ष हरिर्नारायणो ह्यहम्। लोकाल्लोकमिमं प्राप्तौ नरनारायणावृषी ॥३-१३-३९॥
अनन्यः पार्थ मत्तस्त्वमहं त्वत्तश्च भारत। नावयोरन्तरं शक्यं वेदितुं भरतर्षभ ॥३-१३-४०॥
तस्मिन्वीरसमावाये संरब्धेष्वथ राजसु। धृष्टद्युम्नमुखैर्वीरैर्भ्रातृभिः परिवारिता ॥३-१३-४१॥
पाञ्चाली पुण्डरीकाक्षमासीनं यादवैः सह। अभिगम्याब्रवीत्कृष्णा शरण्यं शरणैषिणी ॥३-१३-४२॥
पूर्वे प्रजानिसर्गे त्वामाहुरेकं प्रजापतिम्। स्रष्टारं सर्वभूतानामसितो देवलोऽब्रवीत् ॥३-१३-४३॥
विष्णुस्त्वमसि दुर्धर्ष त्वं यज्ञो मधुसूदन। यष्टा त्वमसि यष्टव्यो जामदग्न्यो यथाब्रवीत् ॥३-१३-४४॥
ऋषयस्त्वां क्षमामाहुः सत्यं च पुरुषोत्तम। सत्याद्यज्ञोऽसि सम्भूतः कश्यपस्त्वां यथाब्रवीत् ॥३-१३-४५॥
साध्यानामपि देवानां वसूनामीश्वरेश्वरः। लोकभावन लोकेश यथा त्वां नारदोऽब्रवीत् ॥३-१३-४६॥
दिवं ते शिरसा व्याप्तं पद्भ्यां च पृथिवी विभो। जठरं ते इमे लोकाः पुरुषोऽसि सनातनः ॥३-१३-४७॥
विद्यातपोऽभितप्तानां तपसा भावितात्मनाम्। आत्मदर्शनसिद्धानामृषीणामृषिसत्तम ॥३-१३-४८॥
राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम्। सर्वधर्मोपपन्नानां त्वं गतिः पुरुषोत्तम ॥३-१३-४९॥
त्वं प्रभुस्त्वं विभुस्त्वं भूरात्मभूस्त्वं सनातनः। लोकपालाश्च लोकाश्च नक्षत्राणि दिशो दश ॥ नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वं प्रतिष्ठितम् ॥३-१३-५०॥
मर्त्यता चैव भूतानाममरत्वं दिवौकसाम्। त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम् ॥३-१३-५१॥
सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन। ईशस्त्वं सर्वभूतानां ये दिव्या ये च मानुषाः ॥३-१३-५२॥
कथं नु भार्या पार्थानां तव कृष्ण सखी विभो। धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी ॥३-१३-५३॥
स्त्रीधर्मिणी वेपमाना रुधिरेण समुक्षिता। एकवस्त्रा विकृष्टास्मि दुःखिता कुरुसंसदि ॥३-१३-५४॥
राजमध्ये सभायां तु रजसाभिसमीरिताम्। दृष्ट्वा च मां धार्तराष्ट्राः प्राहसन्पापचेतसः ॥३-१३-५५॥
दासीभावेन भोक्तुं मामीषुस्ते मधुसूदन। जीवत्सु पाण्डुपुत्रेषु पाञ्चालेष्वथ वृष्णिषु ॥३-१३-५६॥
नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः। स्नुषा भवामि धर्मेण साहं दासीकृता बलात् ॥३-१३-५७॥
गर्हये पाण्डवांस्त्वेव युधि श्रेष्ठान्महाबलान्। ये क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम् ॥३-१३-५८॥
धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम्। यौ मां विप्रकृतां क्षुद्रैर्मर्षयेतां जनार्दन ॥३-१३-५९॥
शाश्वतोऽयं धर्मपथः सद्भिराचरितः सदा। यद्भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि ॥३-१३-६०॥
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता। प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ॥३-१३-६१॥
आत्मा हि जायते तस्यां तस्माज्जाया भवत्युत। भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे ॥३-१३-६२॥
नन्विमे शरणं प्राप्तान्न त्यजन्ति कदाचन। ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः ॥३-१३-६३॥
पञ्चेमे पञ्चभिर्जाताः कुमाराश्चामितौजसः। एतेषामप्यवेक्षार्थं त्रातव्यास्मि जनार्दन ॥३-१३-६४॥
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात्। अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ॥३-१३-६५॥
कनिष्ठाच्छ्रुतकर्मा तु सर्वे सत्यपराक्रमाः। प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः ॥३-१३-६६॥
नन्विमे धनुषि श्रेष्ठा अजेया युधि शात्रवैः। किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम् ॥३-१३-६७॥
अधर्मेण हृतं राज्यं सर्वे दासाः कृतास्तथा। सभायां परिकृष्टाहमेकवस्त्रा रजस्वला ॥३-१३-६८॥
नाधिज्यमपि यच्छक्यं कर्तुमन्येन गाण्डिवम्। अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन ॥३-१३-६९॥
धिग्भीमसेनस्य बलं धिक्पार्थस्य च गाण्डिवम्। यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति ॥३-१३-७०॥
य एतानाक्षिपद्राष्ट्रात्सह मात्राविहिंसकान्। अधीयानान्पुरा बालान्व्रतस्थान्मधुसूदन ॥३-१३-७१॥
भोजने भीमसेनस्य पापः प्राक्षेपयद्विषम्। कालकूटं नवं तीक्ष्णं सम्भृतं लोमहर्षणम् ॥३-१३-७२॥
तज्जीर्णमविकारेण सहान्नेन जनार्दन। सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम ॥३-१३-७३॥
प्रमाणकोट्यां विश्वस्तं तथा सुप्तं वृकोदरम्। बद्ध्वैनं कृष्ण गङ्गायां प्रक्षिप्य पुनराव्रजत् ॥३-१३-७४॥
यदा विबुद्धः कौन्तेयस्तदा सञ्छिद्य बन्धनम्। उदतिष्ठन्महाबाहुर्भीमसेनो महाबलः ॥३-१३-७५॥
आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत्। सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा ॥३-१३-७६॥
प्रतिबुद्धस्तु कौन्तेयः सर्वान्सर्पानपोथयत्। सारथिं चास्य दयितमपहस्तेन जघ्निवान् ॥३-१३-७७॥
पुनः सुप्तानुपाधाक्षीद्बालकान्वारणावते। शयानानार्यया सार्धं को नु तत्कर्तुमर्हति ॥३-१३-७८॥
यत्रार्या रुदती भीता पाण्डवानिदमब्रवीत्। महद्व्यसनमापन्ना शिखिना परिवारिता ॥३-१३-७९॥
हा हतास्मि कुतो न्वद्य भवेच्छान्तिरिहानलात्। अनाथा विनशिष्यामि बालकैः पुत्रकैः सह ॥३-१३-८०॥
तत्र भीमो महाबाहुर्वायुवेगपराक्रमः। आर्यामाश्वासयामास भ्रातॄंश्चापि वृकोदरः ॥३-१३-८१॥
वैनतेयो यथा पक्षी गरुडः पततां वरः। तथैवाभिपतिष्यामि भयं वो नेह विद्यते ॥३-१३-८२॥
आर्यामङ्केन वामेन राजानं दक्षिणेन च। अंसयोश्च यमौ कृत्वा पृष्ठे बीभत्सुमेव च ॥३-१३-८३॥
सहसोत्पत्य वेगेन सर्वानादाय वीर्यवान्। भ्रातॄनार्यां च बलवान्मोक्षयामास पावकात् ॥३-१३-८४॥
ते रात्रौ प्रस्थिताः सर्वे मात्रा सह यशस्विनः। अभ्यगच्छन्महारण्यं हिडिम्बवनमन्तिकात् ॥३-१३-८५॥
श्रान्ताः प्रसुप्तास्तत्रेमे मात्रा सह सुदुःखिताः। सुप्तांश्चैनानभ्यगच्छद्धिडिम्बा नाम राक्षसी ॥३-१३-८६॥
भीमस्य पादौ कृत्वा तु स्व उत्सङ्गे ततो बलात्। पर्यमर्दत संहृष्टा कल्याणी मृदुपाणिना ॥३-१३-८७॥
तामबुध्यदमेयात्मा बलवान्सत्यविक्रमः। पर्यपृच्छच्च तां भीमः किमिहेच्छस्यनिन्दिते ॥३-१३-८८॥
तयोः श्रुत्वा तु कथितमागच्छद्राक्षसाधमः। भीमरूपो महानादान्विसृजन्भीमदर्शनः ॥३-१३-८९॥
केन सार्धं कथयसि आनयैनं ममान्तिकम्। हिडिम्बे भक्षयिष्यावो न चिरं कर्तुमर्हसि ॥३-१३-९०॥
सा कृपासङ्गृहीतेन हृदयेन मनस्विनी। नैनमैच्छत्तदाख्यातुमनुक्रोशादनिन्दिता ॥३-१३-९१॥
स नादान्विनदन्घोरान्राक्षसः पुरुषादकः। अभ्यद्रवत वेगेन भीमसेनं तदा किल ॥३-१३-९२॥
तमभिद्रुत्य सङ्क्रुद्धो वेगेन महता बली। अगृह्णात्पाणिना पाणिं भीमसेनस्य राक्षसः ॥३-१३-९३॥
इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम्। संहत्य भीमसेनाय व्याक्षिपत्सहसा करम् ॥३-१३-९४॥
गृहीतं पाणिना पाणिं भीमसेनोऽथ रक्षसा। नामृष्यत महाबाहुस्तत्राक्रुध्यद्वृकोदरः ॥३-१३-९५॥
तत्रासीत्तुमुलं युद्धं भीमसेनहिडिम्बयोः। सर्वास्त्रविदुषोर्घोरं वृत्रवासवयोरिव ॥३-१३-९६॥
हत्वा हिडिम्बं भीमोऽथ प्रस्थितो भ्रातृभिः सह। हिडिम्बामग्रतः कृत्वा यस्यां जातो घटोत्कचः ॥३-१३-९७॥
ततश्च प्राद्रवन्सर्वे सह मात्रा यशस्विनः। एकचक्रामभिमुखाः संवृता ब्राह्मणव्रजैः ॥३-१३-९८॥
प्रस्थाने व्यास एषां च मन्त्री प्रियहितोऽभवत्। ततोऽगच्छन्नेकचक्रां पाण्डवाः संशितव्रताः ॥३-१३-९९॥
तत्राप्यासादयामासुर्बकं नाम महाबलम्। पुरुषादं प्रतिभयं हिडिम्बेनैव संमितम् ॥३-१३-१००॥
तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः। सहितो भ्रातृभिः सर्वैर्द्रुपदस्य पुरं ययौ ॥३-१३-१०१॥
लब्धाहमपि तत्रैव वसता सव्यसाचिना। यथा त्वया जिता कृष्ण रुक्मिणी भीष्मकात्मजा ॥३-१३-१०२॥
एवं सुयुद्धे पार्थेन जिताहं मधुसूदन। स्वयंवरे महत्कर्म कृत्वा नसुकरं परैः ॥३-१३-१०३॥
एवं क्लेशैः सुबहुभिः क्लिश्यमानाः सुदुःखिताः। निवसामार्यया हीनाः कृष्ण धौम्यपुरःसराः ॥३-१३-१०४॥
त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः। विहीनैः परिक्लिश्यन्तीं समुपेक्षन्त मां कथम् ॥३-१३-१०५॥
एतादृशानि दुःखानि सहन्ते दुर्बलीयसाम्। दीर्घकालं प्रदीप्तानि पापानां क्षुद्रकर्मणाम् ॥३-१३-१०६॥
कुले महति जातास्मि दिव्येन विधिना किल। पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर्महात्मनः ॥३-१३-१०७॥
कचग्रहमनुप्राप्ता सास्मि कृष्ण वरा सती। पञ्चानामिन्द्रकल्पानां प्रेक्षतां मधुसूदन ॥३-१३-१०८॥
इत्युक्त्वा प्रारुदत्कृष्णा मुखं प्रच्छाद्य पाणिना। पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी ॥३-१३-१०९॥
स्तनावपतितौ पीनौ सुजातौ शुभलक्षणौ। अभ्यवर्षत पाञ्चाली दुःखजैरश्रुबिन्दुभिः ॥३-१३-११०॥
चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनः पुनः। बाष्पपूर्णेन कण्ठेन क्रुद्धा वचनमब्रवीत् ॥३-१३-१११॥
नैव मे पतयः सन्ति न पुत्रा मधुसूदन। न भ्रातरो न च पिता नैव त्वं न च बान्धवाः ॥३-१३-११२॥
ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत्। न हि मे शाम्यते दुःखं कर्णो यत्प्राहसत्तदा ॥३-१३-११३॥
अथैनामब्रवीत्कृष्णस्तस्मिन्वीरसमागमे। रोदिष्यन्ति स्त्रियो ह्येवं येषां क्रुद्धासि भामिनि ॥३-१३-११४॥
बीभत्सुशरसञ्छन्नाञ्शोणितौघपरिप्लुतान्। निहताञ्जीवितं त्यक्त्वा शयानान्वसुधातले ॥३-१३-११५॥
यत्समर्थं पाण्डवानां तत्करिष्यामि मा शुचः। सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि ॥३-१३-११६॥
पतेद्द्यौर्हिमवाञ्शीर्येत्पृथिवी शकलीभवेत्। शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत् ॥३-१३-११७॥
धृष्टद्युम्न उवाच॥
अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम्। दुर्योधनं भीमसेनः कर्णं हन्ता धनञ्जयः ॥३-१३-११८॥
रामकृष्णौ व्यपाश्रित्य अजेयाः स्म शुचिस्मिते। अपि वृत्रहणा युद्धे किं पुनर्धृतराष्ट्रजैः ॥३-१३-११९॥
वैशम्पायन उवाच॥
इत्युक्तेऽभिमुखा वीरा वासुदेवमुपस्थिता। तेषां मध्ये महाबाहुः केशवो वाक्यमब्रवीत् ॥३-१३-१२०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.