Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.015
Pancharatra: Krishna narrates the reason for going after Shalva.
युधिष्ठिर उवाच॥
असांनिध्यं कथं कृष्ण तवासीद्वृष्णिनन्दन। क्व चासीद्विप्रवासस्ते किं वाकार्षीः प्रवासकः ॥३-१५-१॥
कृष्ण उवाच॥
शाल्वस्य नगरं सौभं गतोऽहं भरतर्षभ। विनिहन्तुं नरश्रेष्ठ तत्र मे शृणु कारणम् ॥३-१५-२॥
महातेजा महाबाहुर्यः स राजा महायशाः। दमघोषात्मजो वीरः शिशुपालो मया हतः ॥३-१५-३॥
यज्ञे ते भरतश्रेष्ठ राजसूयेऽर्हणां प्रति। स रोषवशसम्प्राप्तो नामृष्यत दुरात्मवान् ॥३-१५-४॥
श्रुत्वा तं निहतं शाल्वस्तीव्ररोषसमन्वितः। उपायाद्द्वारकां शून्यामिहस्थे मयि भारत ॥३-१५-५॥
स तत्र योधितो राजन्बालकैर्वृष्णिपुङ्गवैः। आगतः कामगं सौभमारुह्यैव नृशंसकृत् ॥३-१५-६॥
ततो वृष्णिप्रवीरांस्तान्बालान्हत्वा बहूंस्तदा। पुरोद्यानानि सर्वाणि भेदयामास दुर्मतिः ॥३-१५-७॥
उक्तवांश्च महाबाहो क्वासौ वृष्णिकुलाधमः। वासुदेवः सुमन्दात्मा वसुदेवसुतो गतः ॥३-१५-८॥
तस्य युद्धार्थिनो दर्पं युद्धे नाशयितास्म्यहम्। आनर्ताः सत्यमाख्यात तत्र गन्तास्मि यत्र सः ॥३-१५-९॥
तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम्। अहत्वा न निवर्तिष्ये सत्येनायुधमालभे ॥३-१५-१०॥
क्वासौ क्वासाविति पुनस्तत्र तत्र विधावति। मया किल रणे युद्धं काङ्क्षमाणः स सौभराट् ॥३-१५-११॥
अद्य तं पापकर्माणं क्षुद्रं विश्वासघातिनम्। शिशुपालवधामर्षाद्गमयिष्ये यमक्षयम् ॥३-१५-१२॥
मम पापस्वभावेन भ्राता येन निपातितः। शिशुपालो महीपालस्तं वधिष्ये महीतले ॥३-१५-१३॥
भ्राता बालश्च राजा च न च सङ्ग्राममूर्धनि। प्रमत्तश्च हतो वीरस्तं हनिष्ये जनार्दनम् ॥३-१५-१४॥
एवमादि महाराज विलप्य दिवमास्थितः। कामगेन स सौभेन क्षिप्त्वा मां कुरुनन्दन ॥३-१५-१५॥
तमश्रौषमहं गत्वा यथा वृत्तः सुदुर्मतिः। मयि कौरव्य दुष्टात्मा मार्त्तिकावतको नृपः ॥३-१५-१६॥
ततोऽहमपि कौरव्य रोषव्याकुललोचनः। निश्चित्य मनसा राजन्वधायास्य मनो दधे ॥३-१५-१७॥
आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव। प्रवृद्धमवलेपं च तस्य दुष्कृतकर्मणः ॥३-१५-१८॥
ततः सौभवधायाहं प्रतस्थे पृथिवीपते। स मया सागरावर्ते दृष्ट आसीत्परीप्सता ॥३-१५-१९॥
ततः प्रध्माप्य जलजं पाञ्चजन्यमहं नृप। आहूय शाल्वं समरे युद्धाय समवस्थितः ॥३-१५-२०॥
सुमुहूर्तमभूद्युद्धं तत्र मे दानवैः सह। वशीभूताश्च मे सर्वे भूतले च निपातिताः ॥३-१५-२१॥
एतत्कार्यं महाबाहो येनाहं नागमं तदा। श्रुत्वैव हास्तिनपुरं द्यूतं चाविनयोत्थितम् ॥३-१५-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.