03.014
Pancharatra: Krishna says he was away from Dwaraka, else he would have stopped gambling.
वासुदेव उवाच॥
नेदं कृच्छ्रमनुप्राप्तो भवान्स्याद्वसुधाधिप। यद्यहं द्वारकायां स्यां राजन्संनिहितः पुरा ॥३-१४-१॥
आगच्छेयमहं द्यूतमनाहूतोऽपि कौरवैः। आम्बिकेयेन दुर्धर्ष राज्ञा दुर्योधनेन च ॥३-१४-२॥
वारयेयमहं द्यूतं बहून्दोषान्प्रदर्शयन्। भीष्मद्रोणौ समानाय्य कृपं बाह्लीकमेव च ॥३-१४-३॥
वैचित्रवीर्यं राजानमलं द्यूतेन कौरव। पुत्राणां तव राजेन्द्र त्वन्निमित्तमिति प्रभो ॥३-१४-४॥
तत्र वक्ष्याम्यहं दोषान्यैर्भवानवरोपितः। वीरसेनसुतो यैश्च राज्यात्प्रभ्रंशितः पुरा ॥३-१४-५॥
अभक्षितविनाशं च देवनेन विशां पते। सातत्यं च प्रसङ्गस्य वर्णयेयं यथातथम् ॥३-१४-६॥
स्त्रियोऽक्षा मृगया पानमेतत्कामसमुत्थितम्। व्यसनं चतुष्टयं प्रोक्तं यै राजन्भ्रश्यते श्रियः ॥३-१४-७॥
तत्र सर्वत्र वक्तव्यं मन्यन्ते शास्त्रकोविदाः। विशेषतश्च वक्तव्यं द्यूते पश्यन्ति तद्विदः ॥३-१४-८॥
एकाह्ना द्रव्यनाशोऽत्र ध्रुवं व्यसनमेव च। अभुक्तनाशश्चार्थानां वाक्पारुष्यं च केवलम् ॥३-१४-९॥
एतच्चान्यच्च कौरव्य प्रसङ्गि कटुकोदयम्। द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम् ॥३-१४-१०॥
एवमुक्तो यदि मया गृह्णीयाद्वचनं मम। अनामयं स्याद्धर्मस्य कुरूणां कुरुनन्दन ॥३-१४-११॥
न चेत्स मम राजेन्द्र गृह्णीयान्मधुरं वचः। पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम् ॥३-१४-१२॥
अथैनानभिनीयैवं सुहृदो नाम दुर्हृदः। सभासदश्च तान्सर्वान्भेदयेयं दुरोदरान् ॥३-१४-१३॥
असांनिध्यं तु कौरव्य ममानर्तेष्वभूत्तदा। येनेदं व्यसनं प्राप्ता भवन्तो द्यूतकारितम् ॥३-१४-१४॥
सोऽहमेत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन। अश्रौषं त्वां व्यसनिनं युयुधानाद्यथातथम् ॥३-१४-१५॥
श्रुत्वैव चाहं राजेन्द्र परमोद्विग्नमानसः। तूर्णमभ्यागतोऽस्मि त्वां द्रष्टुकामो विशां पते ॥३-१४-१६॥
अहो कृच्छ्रमनुप्राप्ताः सर्वे स्म भरतर्षभ। ये वयं त्वां व्यसनिनं पश्यामः सह सोदरैः ॥३-१४-१७॥