03.016
Pancharatra: Krishna describes the war preparations that were made at Dwaraka to defend against Soubha.
युधिष्ठिर उवाच॥
वासुदेव महाबाहो विस्तरेण महामते। सौभस्य वधमाचक्ष्व न हि तृप्यामि कथ्यतः ॥३-१६-१॥
वासुदेव उवाच॥
हतं श्रुत्वा महाबाहो मया श्रौतश्रवं नृपम्। उपायाद्भरतश्रेष्ठ शाल्वो द्वारवतीं पुरीम् ॥३-१६-२॥
अरुन्धत्तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन। शाल्वो वैहायसं चापि तत्पुरं व्यूह्य विष्ठितः ॥३-१६-३॥
तत्रस्थोऽथ महीपालो योधयामास तां पुरीम्। अभिसारेण सर्वेण तत्र युद्धमवर्तत ॥३-१६-४॥
पुरी समन्ताद्विहिता सपताका सतोरणा। सचक्रा सहुडा चैव सयन्त्रखनका तथा ॥३-१६-५॥
सोपतल्पप्रतोलीका साट्टाट्टालकगोपुरा। सकचग्रहणी चैव सोल्कालातावपोथिका ॥३-१६-६॥
सोष्ट्रिका भरतश्रेष्ठ सभेरीपणवानका। समित्तृणकुशा राजन्सशतघ्नीकलाङ्गला ॥३-१६-७॥
सभुशुण्ड्यश्मलगुडा सायुधा सपरश्वधा। लोहचर्मवती चापि साग्निः सहुडशृङ्गिका ॥३-१६-८॥
शास्त्रदृष्टेन विधिना संयुक्ता भरतर्षभ। द्रव्यैरनेकैर्विविधैर्गदसाम्बोद्धवादिभिः ॥३-१६-९॥
पुरुषैः कुरुशार्दूल समर्थैः प्रतिबाधने। अभिख्यातकुलैर्वीरैर्दृष्टवीर्यैश्च संयुगे ॥३-१६-१०॥
मध्यमेन च गुल्मेन रक्षिता सारसञ्ज्ञिता। उत्क्षिप्तगुल्मैश्च तथा हयैश्चैव पदातिभिः ॥३-१६-११॥
आघोषितं च नगरे न पातव्या सुरेति ह। प्रमादं परिरक्षद्भिरुग्रसेनोद्धवादिभिः ॥३-१६-१२॥
प्रमत्तेष्वभिघातं हि कुर्याच्छाल्वो नराधिपः। इति कृत्वाप्रमत्तास्ते सर्वे वृष्ण्यन्धकाः स्थिताः ॥३-१६-१३॥
आनर्ताश्च तथा सर्वे नटनर्तकगायनाः। बहिर्विवासिताः सर्वे रक्षद्भिर्वित्तसञ्चयान् ॥३-१६-१४॥
सङ्क्रमा भेदिताः सर्वे नावश्च प्रतिषेधिताः। परिखाश्चापि कौरव्य कीलैः सुनिचिताः कृताः ॥३-१६-१५॥
उदपानाः कुरुश्रेष्ठ तथैवाप्यम्बरीषकाः। समन्तात्क्रोशमात्रं च कारिता विषमा च भूः ॥३-१६-१६॥
प्रकृत्या विषमं दुर्गं प्रकृत्या च सुरक्षितम्। प्रकृत्या चायुधोपेतं विशेषेण तदानघ ॥३-१६-१७॥
सुरक्षितं सुगुप्तं च सर्वायुधसमन्वितम्। तत्पुरं भरतश्रेष्ठ यथेन्द्रभवनं तथा ॥३-१६-१८॥
न चामुद्रोऽभिनिर्याति न चामुद्रः प्रवेश्यते। वृष्ण्यन्धकपुरे राजंस्तदा सौभसमागमे ॥३-१६-१९॥
अनु रथ्यासु सर्वासु चत्वरेषु च कौरव। बलं बभूव राजेन्द्र प्रभूतगजवाजिमत् ॥३-१६-२०॥
दत्तवेतनभक्तं च दत्तायुधपरिच्छदम्। कृतापदानं च तदा बलमासीन्महाभुज ॥३-१६-२१॥
न कुप्यवेतनी कश्चिन्न चातिक्रान्तवेतनी। नानुग्रहभृतः कश्चिन्न चादृष्टपराक्रमः ॥३-१६-२२॥
एवं सुविहिता राजन्द्वारका भूरिदक्षिणैः। आहुकेन सुगुप्ता च राज्ञा राजीवलोचन ॥३-१६-२३॥