Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.017
Pancharatra: Krishna’s various son’s fight Shalva’s army.
वासुदेव उवाच॥
तां तूपयात्वा राजेन्द्र शाल्वः सौभपतिस्तदा। प्रभूतनरनागेन बलेनोपविवेश ह ॥३-१७-१॥
समे निविष्टा सा सेना प्रभूतसलिलाशये। चतुरङ्गबलोपेता शाल्वराजाभिपालिता ॥३-१७-२॥
वर्जयित्वा श्मशानानि देवतायतनानि च। वल्मीकांश्चैव चैत्यांश्च तन्निविष्टमभूद्बलम् ॥३-१७-३॥
अनीकानां विभागेन पन्थानः षट्कृताभवन्। प्रवणा नव चैवासञ्शाल्वस्य शिबिरे नृप ॥३-१७-४॥
सर्वायुधसमोपेतं सर्वशस्त्रविशारदम्। रथनागाश्वकलिलं पदातिध्वजसङ्कुलम् ॥३-१७-५॥
तुष्टपुष्टजनोपेतं वीरलक्षणलक्षितम्। विचित्रध्वजसंनाहं विचित्ररथकार्मुकम् ॥३-१७-६॥
संनिवेश्य च कौरव्य द्वारकायां नरर्षभ। अभिसारयामास तदा वेगेन पतगेन्द्रवत् ॥३-१७-७॥
तदापतन्तं संदृश्य बलं शाल्वपतेस्तदा। निर्याय योधयामासुः कुमारा वृष्णिनन्दनाः ॥३-१७-८॥
असहन्तोऽभियानं तच्छाल्वराजस्य कौरव। चारुदेष्णश्च साम्बश्च प्रद्युम्नश्च महारथः ॥३-१७-९॥
ते रथैर्दंशिताः सर्वे विचित्राभरणध्वजाः। संसक्ताः शाल्वराजस्य बहुभिर्योधपुङ्गवैः ॥३-१७-१०॥
गृहीत्वा तु धनुः साम्बः शाल्वस्य सचिवं रणे। योधयामास संहृष्टः क्षेमवृद्धिं चमूपतिम् ॥३-१७-११॥
तस्य बाणमयं वर्षं जाम्बवत्याः सुतो महत्। मुमोच भरतश्रेष्ठ यथा वर्षं सहस्रदृक् ॥३-१७-१२॥
तद्बाणवर्षं तुमुलं विषेहे स चमूपतिः। क्षेमवृद्धिर्महाराज हिमवानिव निश्चलः ॥३-१७-१३॥
ततः साम्बाय राजेन्द्र क्षेमवृद्धिरपि स्म ह। मुमोच मायाविहितं शरजालं महत्तरम् ॥३-१७-१४॥
ततो मायामयं जालं माययैव विदार्य सः। साम्बः शरसहस्रेण रथमस्याभ्यवर्षत ॥३-१७-१५॥
ततः स विद्धः साम्बेन क्षेमवृद्धिश्चमूपतिः। अपायाज्जवनैरश्वैः साम्बबाणप्रपीडितः ॥३-१७-१६॥
तस्मिन्विप्रद्रुते क्रूरे शाल्वस्याथ चमूपतौ। वेगवान्नाम दैतेयः सुतं मेऽभ्यद्रवद्बली ॥३-१७-१७॥
अभिपन्नस्तु राजेन्द्र साम्बो वृष्णिकुलोद्वहः। वेगं वेगवतो राजंस्तस्थौ वीरो विधारयन् ॥३-१७-१८॥
स वेगवति कौन्तेय साम्बो वेगवतीं गदाम्। चिक्षेप तरसा वीरो व्याविध्य सत्यविक्रमः ॥३-१७-१९॥
तया त्वभिहतो राजन्वेगवानपतद्भुवि। वातरुग्ण इव क्षुण्णो जीर्णमूलो वनस्पतिः ॥३-१७-२०॥
तस्मिन्निपतिते वीरे गदानुन्ने महासुरे। प्रविश्य महतीं सेनां योधयामास मे सुतः ॥३-१७-२१॥
चारुदेष्णेन संसक्तो विविन्ध्यो नाम दानवः। महारथः समाज्ञातो महाराज महाधनुः ॥३-१७-२२॥
ततः सुतुमुलं युद्धं चारुदेष्णविविन्ध्ययोः। वृत्रवासवयो राजन्यथा पूर्वं तथाभवत् ॥३-१७-२३॥
अन्योन्यस्याभिसङ्क्रुद्धावन्योन्यं जघ्नतुः शरैः। विनदन्तौ महाराज सिंहाविव महाबलौ ॥३-१७-२४॥
रौक्मिणेयस्ततो बाणमग्न्यर्कोपमवर्चसम्। अभिमन्त्र्य महास्त्रेण संदधे शत्रुनाशनम् ॥३-१७-२५॥
स विविन्ध्याय सक्रोधः समाहूय महारथः। चिक्षेप मे सुतो राजन्स गतासुरथापतत् ॥३-१७-२६॥
विविन्ध्यं निहतं दृष्ट्वा तां च विक्षोभितां चमूम्। कामगेन स सौभेन शाल्वः पुनरुपागमत् ॥३-१७-२७॥
ततो व्याकुलितं सर्वं द्वारकावासि तद्बलम्। दृष्ट्वा शाल्वं महाबाहो सौभस्थं पृथिवीगतम् ॥३-१७-२८॥
ततो निर्याय कौन्तेय व्यवस्थाप्य च तद्बलम्। आनर्तानां महाराज प्रद्युम्नो वाक्यमब्रवीत् ॥३-१७-२९॥
सर्वे भवन्तस्तिष्ठन्तु सर्वे पश्यन्तु मां युधि। निवारयन्तं सङ्ग्रामे बलात्सौभं सराजकम् ॥३-१७-३०॥
अहं सौभपतेः सेनामायसैर्भुजगैरिव। धनुर्भुजविनिर्मुक्तैर्नाशयाम्यद्य यादवाः ॥३-१७-३१॥
आश्वसध्वं न भीः कार्या सौभराडद्य नश्यति। मयाभिपन्नो दुष्टात्मा ससौभो विनशिष्यति ॥३-१७-३२॥
एवं ब्रुवति संहृष्टे प्रद्युम्ने पाण्डुनन्दन। विष्ठितं तद्बलं वीर युयुधे च यथासुखम् ॥३-१७-३३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.