03.036
Pancharatra: Bhima again insists not to wait for 13 years, to wage a war.
भीमसेन उवाच॥
सन्धिं कृत्वैव कालेन अन्तकेन पतत्रिणा। अनन्तेनाप्रमेयेन स्रोतसा सर्वहारिणा ॥३-३६-१॥
प्रत्यक्षं मन्यसे कालं मर्त्यः सन्कालबन्धनः। फेनधर्मा महाराज फलधर्मा तथैव च ॥३-३६-२॥
निमेषादपि कौन्तेय यस्यायुरपचीयते। सूच्येवाञ्जनचूर्णस्य किमिति प्रतिपालयेत् ॥३-३६-३॥
यो नूनममितायुः स्यादथ वापि प्रमाणवित्। स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान् ॥३-३६-४॥
प्रतीक्षमाणान्कालो नः समा राजंस्त्रयोदश। आयुषोऽपचयं कृत्वा मरणायोपनेष्यति ॥३-३६-५॥
शरीरिणां हि मरणं शरीरे नित्यमाश्रितम्। प्रागेव मरणात्तस्माद्राज्यायैव घटामहे ॥३-३६-६॥
यो न याति प्रसङ्ख्यानमस्पष्टो भूमिवर्धनः। अयातयित्वा वैराणि सोऽवसीदति गौरिव ॥३-३६-७॥
यो न यातयते वैरमल्पसत्त्वोद्यमः पुमान्। अफलं तस्य जन्माहं मन्ये दुर्जातजायिनः ॥३-३६-८॥
हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिव। हत्वा द्विषन्तं सङ्ग्रामे भुक्त्वा बाह्वर्जितं वसु ॥३-३६-९॥
हत्वा चेत्पुरुषो राजन्निकर्तारमरिंदम। अह्नाय नरकं गच्छेत्स्वर्गेणास्य स संमितः ॥३-३६-१०॥
अमर्षजो हि सन्तापः पावकाद्दीप्तिमत्तरः। येनाहमभिसन्तप्तो न नक्तं न दिवा शये ॥३-३६-११॥
अयं च पार्थो बीभत्सुर्वरिष्ठो ज्याविकर्षणे। आस्ते परमसन्तप्तो नूनं सिंह इवाशये ॥३-३६-१२॥
योऽयमेकोऽभिमनुते सर्वाँल्लोके धनुर्भृतः। सोऽयमात्मजमूष्माणं महाहस्तीव यच्छति ॥३-३६-१३॥
नकुलः सहदेवश्च वृद्धा माता च वीरसूः। तवैव प्रियमिच्छन्त आसते जडमूकवत् ॥३-३६-१४॥
सर्वे ते प्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः। अहमेकोऽभिसन्तप्तो माता च प्रतिविन्ध्यतः ॥३-३६-१५॥
प्रियमेव तु सर्वेषां यद्ब्रवीम्युत किञ्चन। सर्वे ही व्यसनं प्राप्ताः सर्वे युद्धाभिनन्दिनः ॥३-३६-१६॥
नेतः पापीयसी काचिदापद्राजन्भविष्यति। यन्नो नीचैरल्पबलै राज्यमाच्छिद्य भुज्यते ॥३-३६-१७॥
शीलदोषाद्घृणाविष्ट आनृशंस्यात्परन्तप। क्लेशांस्तितिक्षसे राजन्नान्यः कश्चित्प्रशंसति ॥३-३६-१८॥
घृणी ब्राह्मणरूपोऽसि कथं क्षत्रे अजायथाः। अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः ॥३-३६-१९॥
अश्रौषीस्त्वं राजधर्मान्यथा वै मनुरब्रवीत्। क्रूरान्निकृतिसंयुक्तान्विहितानशमात्मकान् ॥३-३६-२०॥
कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत्। बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च ॥३-३६-२१॥
तृणानां मुष्टिनैकेन हिमवन्तं तु पर्वतम्। छन्नमिच्छसि कौन्तेय योऽस्मान्संवर्तुमिच्छसि ॥३-३६-२२॥
अज्ञातचर्या गूढेन पृथिव्यां विश्रुतेन च। दिवीव पार्थ सूर्येण न शक्या चरितुं त्वया ॥३-३६-२३॥
बृहच्छाल इवानूपे शाखापुष्पपलाशवान्। हस्ती श्वेत इवाज्ञातः कथं जिष्णुश्चरिष्यति ॥३-३६-२४॥
इमौ च सिंहसङ्काशौ भ्रातरौ सहितौ शिशू। नकुलः सहदेवश्च कथं पार्थ चरिष्यतः ॥३-३६-२५॥
पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूरियम्। विश्रुता कथमज्ञाता कृष्णा पार्थ चरिष्यति ॥३-३६-२६॥
मां चापि राजञ्जानन्ति आकुमारमिमाः प्रजाः। अज्ञातचर्यां पश्यामि मेरोरिव निगूहनम् ॥३-३६-२७॥
तथैव बहवोऽस्माभी राष्ट्रेभ्यो विप्रवासिताः। राजानो राजपुत्राश्च धृतराष्ट्रमनुव्रताः ॥३-३६-२८॥
न हि तेऽप्युपशाम्यन्ति निकृतानां निराकृताः। अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः ॥३-३६-२९॥
तेऽप्यस्मासु प्रयुञ्जीरन्प्रच्छन्नान्सुबहूञ्जनान्। आचक्षीरंश्च नो ज्ञात्वा तन्नः स्यात्सुमहद्भयम् ॥३-३६-३०॥
अस्माभिरुषिताः सम्यग्वने मासास्त्रयोदश। परिमाणेन तान्पश्य तावतः परिवत्सरान् ॥३-३६-३१॥
अस्ति मासः प्रतिनिधिर्यथा प्राहुर्मनीषिणः। पूतिकानिव सोमस्य तथेदं क्रियतामिति ॥३-३६-३२॥
अथ वानडुहे राजन्साधवे साधुवाहिने। सौहित्यदानादेकस्मादेनसः प्रतिमुच्यते ॥३-३६-३३॥
तस्माच्छत्रुवधे राजन्क्रियतां निश्चयस्त्वया। क्षत्रियस्य तु सर्वस्य नान्यो धर्मोऽस्ति संयुगात् ॥३-३६-३४॥