03.090
लोमश उवाच॥
धनञ्जयेन चाप्युक्तं यत्तच्छृणु युधिष्ठिर। युधिष्ठिरं भ्रातरं मे योजयेर्धर्म्यया श्रिया ॥०३-९०-१॥
त्वं हि धर्मान्परान्वेत्थ तपांसि च तपोधन। श्रीमतां चापि जानासि राज्ञां धर्मं सनातनम् ॥०३-९०-२॥
स भवान्यत्परं वेद पावनं पुरुषान्प्रति। तेन संयोजयेथास्त्वं तीर्थपुण्येन पाण्डवम् ॥०३-९०-३॥
यथा तीर्थानि गच्छेत गाश्च दद्यात्स पार्थिवः। तथा सर्वात्मना कार्यमिति मां विजयोऽब्रवीत् ॥०३-९०-४॥
भवता चानुगुप्तोऽसौ चरेत्तीर्थानि सर्वशः। रक्षोभ्यो रक्षितव्यश्च दुर्गेषु विषमेषु च ॥०३-९०-५॥
दधीच इव देवेन्द्रं यथा चाप्यङ्गिरा रविम्। तथा रक्षस्व कौन्तेयं राक्षसेभ्यो द्विजोत्तम ॥०३-९०-६॥
यातुधाना हि बहवो राक्षसाः पर्वतोपमाः। त्वयाभिगुप्तान्कौन्तेयान्नातिवर्तेयुरन्तिकात् ॥०३-९०-७॥
सोऽहमिन्द्रस्य वचनान्नियोगादर्जुनस्य च। रक्षमाणो भयेभ्यस्त्वां चरिष्यामि त्वया सह ॥०३-९०-८॥
द्विस्तीर्थानि मया पूर्वं दृष्टानि कुरुनन्दन। इदं तृतीयं द्रक्ष्यामि तान्येव भवता सह ॥०३-९०-९॥
इयं राजर्षिभिर्याता पुण्यकृद्भिर्युधिष्ठिर। मन्वादिभिर्महाराज तीर्थयात्रा भयापहा ॥०३-९०-१०॥
नानृजुर्नाकृतात्मा च नावैद्यो न च पापकृत्। स्नाति तीर्थेषु कौरव्य न च वक्रमतिर्नरः ॥०३-९०-११॥
त्वं तु धर्ममतिर्नित्यं धर्मज्ञः सत्यसङ्गरः। विमुक्तः सर्वपापेभ्यो भूय एव भविष्यसि ॥०३-९०-१२॥
यथा भगीरथो राजा राजानश्च गयादयः। यथा ययातिः कौन्तेय तथा त्वमपि पाण्डव ॥०३-९०-१३॥
युधिष्ठिर उवाच॥
न हर्षात्सम्प्रपश्यामि वाक्यस्यास्योत्तरं क्वचित्। स्मरेद्धि देवराजो यं किं नामाभ्यधिकं ततः ॥०३-९०-१४॥
भवता सङ्गमो यस्य भ्राता यस्य धनञ्जयः। वासवः स्मरते यस्य को नामाभ्यधिकस्ततः ॥०३-९०-१५॥
यच्च मां भगवानाह तीर्थानां दर्शनं प्रति। धौम्यस्य वचनादेषा बुद्धिः पूर्वं कृतैव मे ॥०३-९०-१६॥
तद्यदा मन्यसे ब्रह्मन्गमनं तीर्थदर्शने। तदैव गन्तास्मि दृढमेष मे निश्चयः परः ॥०३-९०-१७॥
वैशम्पायन उवाच॥
गमने कृतबुद्धिं तं पाण्डवं लोमशोऽब्रवीत्। लघुर्भव महाराज लघुः स्वैरं गमिष्यसि ॥०३-९०-१८॥
युधिष्ठिर उवाच॥
बिक्षाभुजो निवर्तन्तां ब्राह्मणा यतयश्च ये। ये चाप्यनुगताः पौरा राजभक्तिपुरस्कृताः ॥०३-९०-१९॥
धृतराष्ट्रं महाराजमभिगच्छन्तु चैव ते। स दास्यति यथाकालमुचिता यस्य या भृतिः ॥०३-९०-२०॥
स चेद्यथोचितां वृत्तिं न दद्यान्मनुजेश्वरः। अस्मत्प्रियहितार्थाय पाञ्चाल्यो वः प्रदास्यति ॥०३-९०-२१॥
वैशम्पायन उवाच॥
ततो भूयिष्ठशः पौरा गुरुभारसमाहिताः। विप्राश्च यतयो युक्ता जग्मुर्नागपुरं प्रति ॥०३-९०-२२॥
तान्सर्वान्धर्मराजस्य प्रेम्णा राजाम्बिकासुतः। प्रतिजग्राह विधिवद्धनैश्च समतर्पयत् ॥०३-९०-२३॥
ततः कुन्तीसुतो राजा लघुभिर्ब्राह्मणैः सह। लोमशेन च सुप्रीतस्त्रिरात्रं काम्यकेऽवसत् ॥०३-९०-२४॥