Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.091
वैशम्पायन उवाच॥
ततः प्रयान्तं कौन्तेयं ब्राह्मणा वनवासिनः। अभिगम्य तदा राजन्निदं वचनमब्रुवन् ॥०३-९१-१॥
राजंस्तीर्थानि गन्तासि पुण्यानि भ्रातृभिः सह। देवर्षिणा च सहितो लोमशेन महात्मना ॥०३-९१-२॥
अस्मानपि महाराज नेतुमर्हसि पाण्डव। अस्माभिर्हि न शक्यानि त्वदृते तानि कौरव ॥०३-९१-३॥
श्वापदैरुपसृष्टानि दुर्गाणि विषमाणि च। अगम्यानि नरैरल्पैस्तीर्थानि मनुजेश्वर ॥०३-९१-४॥
भवन्तो भ्रातरः शूरा धनुर्धरवराः सदा। भवद्भिः पालिताः शूरैर्गच्छेम वयमप्युत ॥०३-९१-५॥
भवत्प्रसादाद्धि वयं प्राप्नुयाम फलं शुभम्। तीर्थानां पृथिवीपाल व्रतानां च विशां पते ॥०३-९१-६॥
तव वीर्यपरित्राताः शुद्धास्तीर्थपरिप्लुताः। भवेम धूतपाप्मानस्तीर्थसंदर्शनान्नृप ॥०३-९१-७॥
भवानपि नरेन्द्रस्य कार्तवीर्यस्य भारत। अष्टकस्य च राजर्षेर्लोमपादस्य चैव ह ॥०३-९१-८॥
भरतस्य च वीरस्य सार्वभौमस्य पार्थिव। ध्रुवं प्राप्स्यसि दुष्प्रापाँल्लोकांस्तीर्थपरिप्लुतः ॥०३-९१-९॥
प्रभासादीनि तीर्थानि महेन्द्रादींश्च पर्वतान्। गङ्गाद्याः सरितश्चैव प्लक्षादींश्च वनस्पतीन् ॥ त्वया सह महीपाल द्रष्टुमिच्छामहे वयम् ॥०३-९१-१०॥
यदि ते ब्राह्मणेष्वस्ति काचित्प्रीतिर्जनाधिप। कुरु क्षिप्रं वचोऽस्माकं ततः श्रेयोऽभिपत्स्यसे ॥०३-९१-११॥
तीर्थानि हि महाबाहो तपोविघ्नकरैः सदा। अनुकीर्णानि रक्षोभिस्तेभ्यो नस्त्रातुमर्हसि ॥०३-९१-१२॥
तीर्थान्युक्तानि धौम्येन नारदेन च धीमता। यान्युवाच च देवर्षिर्लोमशः सुमहातपाः ॥०३-९१-१३॥
विधिवत्तानि सर्वाणि पर्यटस्व नराधिप। धूतपाप्मा सहास्माभिर्लोमशेन च पालितः ॥०३-९१-१४॥
स तथा पूज्यमानस्तैर्हर्षादश्रुपरिप्लुतः। भीमसेनादिभिर्वीरैर्भ्रातृभिः परिवारितः ॥ बाढमित्यब्रवीत्सर्वांस्तानृषीन्पाण्डवर्षभः ॥०३-९१-१५॥
लोमशं समनुज्ञाप्य धौम्यं चैव पुरोहितम्। ततः स पाण्डवश्रेष्ठो भ्रातृभिः सहितो वशी ॥ द्रौपद्या चानवद्याङ्ग्या गमनाय मनो दधे ॥०३-९१-१६॥
अथ व्यासो महाभागस्तथा नारदपर्वतौ। काम्यके पाण्डवं द्रष्टुं समाजग्मुर्मनीषिणः ॥०३-९१-१७॥
तेषां युधिष्ठिरो राजा पूजां चक्रे यथाविधि। सत्कृतास्ते महाभागा युधिष्ठिरमथाब्रुवन् ॥०३-९१-१८॥
युधिष्ठिर यमौ भीम मनसा कुरुतार्जवम्। मनसा कृतशौचा वै शुद्धास्तीर्थानि गच्छत ॥०३-९१-१९॥
शरीरनियमं ह्याहुर्ब्राह्मणा मानुषं व्रतम्। मनोविशुद्धां बुद्धिं च दैवमाहुर्व्रतं द्विजाः ॥०३-९१-२०॥
मनो ह्यदुष्टं शूराणां पर्याप्तं वै नराधिप। मैत्रीं बुद्धिं समास्थाय शुद्धास्तीर्थानि गच्छत ॥०३-९१-२१॥
ते यूयं मानसैः शुद्धाः शरीरनियमव्रतैः। दैवं व्रतं समास्थाय यथोक्तं फलमाप्स्यथ ॥०३-९१-२२॥
ते तथेति प्रतिज्ञाय कृष्णया सह पाण्डवाः। कृतस्वस्त्ययनाः सर्वे मुनिभिर्दिव्यमानुषैः ॥०३-९१-२३॥
लोमशस्योपसङ्गृह्य पादौ द्वैपायनस्य च। नारदस्य च राजेन्द्र देवर्षेः पर्वतस्य च ॥०३-९१-२४॥
धौम्येन सहिता वीरास्तथान्यैर्वनवासिभिः। मार्गशीर्ष्यामतीतायां पुष्येण प्रययुस्ततः ॥०३-९१-२५॥
कठिनानि समादाय चीराजिनजटाधराः। अभेद्यैः कवचैर्युक्तास्तीर्थान्यन्वचरंस्तदा ॥०३-९१-२६॥
इन्द्रसेनादिभिर्भृत्यै रथैः परिचतुर्दशैः। महानसव्यापृतैश्च तथान्यैः परिचारकैः ॥०३-९१-२७॥
सायुधा बद्धनिष्ट्रिंशास्तूणवन्तः समार्गणाः। प्राङ्मुखाः प्रययुर्वीराः पाण्डवा जनमेजय ॥०३-९१-२८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.