Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.095
लोमश उवाच॥
यदा त्वमन्यतागस्त्यो गार्हस्थ्ये तां क्षमामिति। तदाभिगम्य प्रोवाच वैदर्भं पृथिवीपतिम् ॥०३-९५-१॥
राजन्निवेशे बुद्धिर्मे वर्तते पुत्रकारणात्। वरये त्वां महीपाल लोपामुद्रां प्रयच्छ मे ॥०३-९५-२॥
एवमुक्तः स मुनिना महीपालो विचेतनः। प्रत्याख्यानाय चाशक्तः प्रदातुमपि नैच्छत ॥०३-९५-३॥
ततः स भार्यामभ्येत्य प्रोवाच पृथिवीपतिः। महर्षिर्वीर्यवानेष क्रुद्धः शापाग्निना दहेत् ॥०३-९५-४॥
तं तथा दुःखितं दृष्ट्वा सभार्यं पृथिवीपतिम्। लोपामुद्राभिगम्येदं काले वचनमब्रवीत् ॥०३-९५-५॥
न मत्कृते महीपाल पीडामभ्येतुमर्हसि। प्रयच्छ मामगस्त्याय त्राह्यात्मानं मया पितः ॥०३-९५-६॥
दुहितुर्वचनाद्राजा सोऽगस्त्याय महात्मने। लोपामुद्रां ततः प्रादाद्विधिपूर्वं विशां पते ॥०३-९५-७॥
प्राप्य भार्यामगस्त्यस्तु लोपामुद्रामभाषत। महार्हाण्युत्सृजैतानि वासांस्याभरणानि च ॥०३-९५-८॥
ततः सा दर्शनीयानि महार्हाणि तनूनि च। समुत्ससर्ज रम्भोरूर्वसनान्यायतेक्षणा ॥०३-९५-९॥
ततश्चीराणि जग्राह वल्कलान्यजिनानि च। समानव्रतचर्या च बभूवायतलोचना ॥०३-९५-१०॥
गङ्गाद्वारमथागम्य भगवानृषिसत्तमः। उग्रमातिष्ठत तपः सह पत्न्यानुकूलया ॥०३-९५-११॥
सा प्रीत्या बहुमानाच्च पतिं पर्यचरत्तदा। अगस्त्यश्च परां प्रीतिं भार्यायामकरोत्प्रभुः ॥०३-९५-१२॥
ततो बहुतिथे काले लोपामुद्रां विशां पते। तपसा द्योतितां स्नातां ददर्श भगवानृषिः ॥०३-९५-१३॥
स तस्याः परिचारेण शौचेन च दमेन च। श्रिया रूपेण च प्रीतो मैथुनायाजुहाव ताम् ॥०३-९५-१४॥
ततः सा प्राञ्जलिर्भूत्वा लज्जमानेव भामिनी। तदा सप्रणयं वाक्यं भगवन्तमथाब्रवीत् ॥०३-९५-१५॥
असंशयं प्रजाहेतोर्भार्यां पतिरविन्दत। या तु त्वयि मम प्रीतिस्तामृषे कर्तुमर्हसि ॥०३-९५-१६॥
यथा पितुर्गृहे विप्र प्रासादे शयनं मम। तथाविधे त्वं शयने मामुपैतुमिहार्हसि ॥०३-९५-१७॥
इच्छामि त्वां स्रग्विणं च भूषणैश्च विभूषितम्। उपसर्तुं यथाकामं दिव्याभरणभूषिता ॥०३-९५-१८॥
अगस्त्य उवाच॥
न वै धनानि विद्यन्ते लोपामुद्रे तथा मम। यथाविधानि कल्याणि पितुस्तव सुमध्यमे ॥०३-९५-१९॥
लोपामुद्रोवाच॥
ईशोऽसि तपसा सर्वं समाहर्तुमिहेश्वर। क्षणेन जीवलोके यद्वसु किञ्चन विद्यते ॥०३-९५-२०॥
अगस्त्य उवाच॥
एवमेतद्यथात्थ त्वं तपोव्ययकरं तु मे। यथा तु मे न नश्येत तपस्तन्मां प्रचोदय ॥०३-९५-२१॥
लोपामुद्रोवाच॥
अल्पावशिष्टः कालोऽयमृतौ मम तपोधन। न चान्यथाहमिच्छामि त्वामुपैतुं कथञ्चन ॥०३-९५-२२॥
न चापि धर्ममिच्छामि विलोप्तुं ते तपोधन। एतत्तु मे यथाकामं सम्पादयितुमर्हसि ॥०३-९५-२३॥
अगस्त्य उवाच॥
यद्येष कामः सुभगे तव बुद्ध्या विनिश्चितः। हन्त गच्छाम्यहं भद्रे चर काममिह स्थिता ॥०३-९५-२४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.