03.096
लोमश उवाच॥
ततो जगाम कौरव्य सोऽगस्त्यो भिक्षितुं वसु। श्रुतर्वाणं महीपालं यं वेदाभ्यधिकं नृपैः ॥०३-९६-१॥
स विदित्वा तु नृपतिः कुम्भयोनिमुपागमत्। विषयान्ते सहामात्यः प्रत्यगृह्णात्सुसत्कृतम् ॥०३-९६-२॥
तस्मै चार्घ्यं यथान्यायमानीय पृथिवीपतिः। प्राञ्जलिः प्रयतो भूत्वा पप्रच्छागमनेऽर्थिताम् ॥०३-९६-३॥
अगस्त्य उवाच॥
वित्तार्थिनमनुप्राप्तं विद्धि मां पृथिवीपते। यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ मे ॥०३-९६-४॥
लोमश उवाच॥
तत आयव्ययौ पूर्णौ तस्मै राजा न्यवेदयत्। अतो विद्वन्नुपादत्स्व यदत्र वसु मन्यसे ॥०३-९६-५॥
तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः। सर्वथा प्राणिनां पीडामुपादानादमन्यत ॥०३-९६-६॥
स श्रुतर्वाणमादाय वध्र्यश्वमगमत्ततः। स च तौ विषयस्यान्ते प्रत्यगृह्णाद्यथाविधि ॥०३-९६-७॥
तयोरर्घ्यं च पाद्यं च वध्र्यश्वः प्रत्यवेदयत्। अनुज्ञाप्य च पप्रच्छ प्रयोजनमुपक्रमे ॥०३-९६-८॥
अगस्त्य उवाच॥
वित्तकामाविह प्राप्तौ विद्ध्यावां पृथिवीपते। यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नौ ॥०३-९६-९॥
लोमश उवाच॥
तत आयव्ययौ पूर्णौ ताभ्यां राजा न्यवेदयत्। ततो ज्ञात्वा समादत्तां यदत्र व्यतिरिच्यते ॥०३-९६-१०॥
तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः। सर्वथा प्राणिनां पीडामुपादानादमन्यत ॥०३-९६-११॥
पौरुकुत्सं ततो जग्मुस्त्रसदस्युं महाधनम्। अगस्त्यश्च श्रुतर्वा च वध्र्यश्वश्च महीपतिः ॥०३-९६-१२॥
त्रसदस्युश्च तान्सर्वान्प्रत्यगृह्णाद्यथाविधि। अभिगम्य महाराज विषयान्ते सवाहनः ॥०३-९६-१३॥
अर्चयित्वा यथान्यायमिक्ष्वाकू राजसत्तमः। समाश्वस्तांस्ततोऽपृच्छत्प्रयोजनमुपक्रमे ॥०३-९६-१४॥
अगस्त्य उवाच॥
वित्तकामानिह प्राप्तान्विद्धि नः पृथिवीपते। यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः ॥०३-९६-१५॥
लोमश उवाच॥
तत आयव्ययौ पूर्णौ तेषां राजा न्यवेदयत्। अतो ज्ञात्वा समादद्ध्वं यदत्र व्यतिरिच्यते ॥०३-९६-१६॥
तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः। सर्वथा प्राणिनां पीडामुपादानादमन्यत ॥०३-९६-१७॥
ततः सर्वे समेत्याथ ते नृपास्तं महामुनिम्। इदमूचुर्महाराज समवेक्ष्य परस्परम् ॥०३-९६-१८॥
अयं वै दानवो ब्रह्मन्निल्वलो वसुमान्भुवि। तमभिक्रम्य सर्वेऽद्य वयं याचामहे वसु ॥०३-९६-१९॥
तेषां तदासीद्रुचितमिल्वलस्योपभिक्षणम्। ततस्ते सहिता राजन्निल्वलं समुपाद्रवन् ॥०३-९६-२०॥