03.113
विभाण्डक उवाच॥
रक्षांसि चैतानि चरन्ति पुत्र; रूपेण तेनाद्भुतदर्शनेन। अतुल्यरूपाण्यतिघोरवन्ति; विघ्नं सदा तपसश्चिन्तयन्ति ॥०३-११३-१॥
सुरूपरूपाणि च तानि तात; प्रलोभयन्ते विविधैरुपायैः। सुखाच्च लोकाच्च निपातयन्ति; तान्युग्रकर्माणि मुनीन्वनेषु ॥०३-११३-२॥
न तानि सेवेत मुनिर्यतात्मा; सतां लोकान्प्रार्थयानः कथञ्चित्। कृत्वा विघ्नं तापसानां रमन्ते; पापाचारास्तपसस्तान्यपाप ॥०३-११३-३॥
असज्जनेनाचरितानि पुत्र; पापान्यपेयानि मधूनि तानि। माल्यानि चैतानि न वै मुनीनां; स्मृतानि चित्रोज्ज्वलगन्धवन्ति ॥०३-११३-४॥
लोमश उवाच॥
रक्षांसि तानीति निवार्य पुत्रं; विभाण्डकस्तां मृगयां बभूव। नासादयामास यदा त्र्यहेण; तदा स पर्याववृतेऽऽश्रमाय ॥०३-११३-५॥
यदा पुनः काश्यपो वै जगाम; फलान्याहर्तुं विधिना श्रामणेन। तदा पुनर्लोभयितुं जगाम; सा वेशयोषा मुनिमृश्यशृङ्गम् ॥०३-११३-६॥
दृष्ट्वैव तामृश्यशृङ्गः प्रहृष्टः; सम्भ्रान्तरूपोऽभ्यपतत्तदानीम्। प्रोवाच चैनां भवतोऽऽश्रमाय; गच्छाव यावन्न पिता ममैति ॥०३-११३-७॥
ततो राजन्काश्यपस्यैकपुत्रं; प्रवेश्य योगेन विमुच्य नावम्। प्रलोभयन्त्यो विविधैरुपायै; राजग्मुरङ्गाधिपतेः समीपम् ॥०३-११३-८॥
संस्थाप्य तामाश्रमदर्शने तु; सन्तारितां नावमतीव शुभ्राम्। तीरादुपादाय तथैव चक्रे; राजाश्रमं नाम वनं विचित्रम् ॥०३-११३-९॥
अन्तःपुरे तं तु निवेश्य राजा; विभाण्डकस्यात्मजमेकपुत्रम्। ददर्श देवं सहसा प्रवृष्ट; मापूर्यमाणं च जगज्जलेन ॥०३-११३-१०॥
स लोमपादः परिपूर्णकामः; सुतां ददावृश्यशृङ्गाय शान्ताम्। क्रोधप्रतीकारकरं च चक्रे; गोभिश्च मार्गेष्वभिकर्षणं च ॥०३-११३-११॥
विभाण्डकस्याव्रजतः स राजा; पशून्प्रभूतान्पशुपांश्च वीरान्। समादिशत्पुत्रगृद्धी महर्षि; र्विभाण्डकः परिपृच्छेद्यदा वः ॥०३-११३-१२॥
स वक्तव्यः प्राञ्जलिभिर्भवद्भिः; पुत्रस्य ते पशवः कर्षणं च। किं ते प्रियं वै क्रियतां महर्षे; दासाः स्म सर्वे तव वाचि बद्धाः ॥०३-११३-१३॥
अथोपायात्स मुनिश्चण्डकोपः; स्वमाश्रमं मूलफलानि गृह्य। अन्वेषमाणश्च न तत्र पुत्रं; ददर्श चुक्रोध ततो भृशं सः ॥०३-११३-१४॥
ततः स कोपेन विदीर्यमाण; आशङ्कमानो नृपतेर्विधानम्। जगाम चम्पां प्रदिधक्षमाण; स्तमङ्गराजं विषयं च तस्य ॥०३-११३-१५॥
स वै श्रान्तः क्षुधितः काश्यपस्ता; न्घोषान्समासादितवान्समृद्धान्। गोपैश्च तैर्विधिवत्पूज्यमानो; राजेव तां रात्रिमुवास तत्र ॥०३-११३-१६॥
सम्प्राप्य सत्कारमतीव तेभ्यः; प्रोवाच कस्य प्रथिताः स्थ सौम्याः। ऊचुस्ततस्तेऽभ्युपगम्य सर्वे; धनं तवेदं विहितं सुतस्य ॥०३-११३-१७॥
देशे तु देशे तु स पूज्यमान; स्तांश्चैव शृण्वन्मधुरान्प्रलापान्। प्रशान्तभूयिष्ठरजाः प्रहृष्टः; समाससादाङ्गपतिं पुरस्थम् ॥०३-११३-१८॥
सम्पूजितस्तेन नरर्षभेण; ददर्श पुत्रं दिवि देवं यथेन्द्रम्। शान्तां स्नुषां चैव ददर्श तत्र; सौदामिनीमुच्चरन्तीं यथैव ॥०३-११३-१९॥
ग्रामांश्च घोषांश्च सुतं च दृष्ट्वा; शान्तां च शान्तोऽस्य परः स कोपः। चकार तस्मै परमं प्रसादं; विभाण्डको भूमिपतेर्नरेन्द्र ॥०३-११३-२०॥
स तत्र निक्षिप्य सुतं महर्षि; रुवाच सूर्याग्निसमप्रभावम्। जाते पुत्रे वनमेवाव्रजेथा; राज्ञः प्रियाण्यस्य सर्वाणि कृत्वा ॥०३-११३-२१॥
स तद्वचः कृतवानृश्यशृङ्गो; ययौ च यत्रास्य पिता बभूव। शान्ता चैनं पर्यचरद्यथाव; त्खे रोहिणी सोममिवानुकूला ॥०३-११३-२२॥
अरुन्धती वा सुभगा वसिष्ठं; लोपामुद्रा वापि यथा ह्यगस्त्यम्। नलस्य वा दमयन्ती यथाभू; द्यथा शची वज्रधरस्य चैव ॥०३-११३-२३॥
नाडायनी चेन्द्रसेना यथैव; वश्या नित्यं मुद्गलस्याजमीढ। तथा शान्ता ऋश्यशृङ्गं वनस्थं; प्रीत्या युक्ता पर्यचरन्नरेन्द्र ॥०३-११३-२४॥
तस्याश्रमः पुण्य एषो विभाति; महाह्रदं शोभयन्पुण्यकीर्तेः। अत्र स्नातः कृतकृत्यो विशुद्ध; स्तीर्थान्यन्यान्यनुसंयाहि राजन् ॥०३-११३-२५॥