Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.114
वैशम्पायन उवाच॥
ततः प्रयातः कौशिक्याः पाण्डवो जनमेजय। आनुपूर्व्येण सर्वाणि जगामायतनान्युत ॥०३-११४-१॥
स सागरं समासाद्य गङ्गायाः सङ्गमे नृप। नदीशतानां पञ्चानां मध्ये चक्रे समाप्लवम् ॥०३-११४-२॥
ततः समुद्रतीरेण जगाम वसुधाधिपः। भ्रातृभिः सहितो वीरः कलिङ्गान्प्रति भारत ॥०३-११४-३॥
लोमश उवाच॥
एते कलिङ्गाः कौन्तेय यत्र वैतरणी नदी। यत्रायजत धर्मोऽपि देवाञ्शरणमेत्य वै ॥०३-११४-४॥
ऋषिभिः समुपायुक्तं यज्ञियं गिरिशोभितम्। उत्तरं तीरमेतद्धि सततं द्विजसेवितम् ॥०३-११४-५॥
समेन देवयानेन पथा स्वर्गमुपेयुषः। अत्र वै ऋषयोऽन्येऽपि पुरा क्रतुभिरीजिरे ॥०३-११४-६॥
अत्रैव रुद्रो राजेन्द्र पशुमादत्तवान्मखे। रुद्रः पशुं मानवेन्द्र भागोऽयमिति चाब्रवीत् ॥०३-११४-७॥
हृते पशौ तदा देवास्तमूचुर्भरतर्षभ। मा परस्वमभिद्रोग्धा मा धर्मान्सकलान्नशीः ॥०३-११४-८॥
ततः कल्याणरूपाभिर्वाग्भिस्ते रुद्रमस्तुवन्। इष्ट्या चैनं तर्पयित्वा मानयां चक्रिरे तदा ॥०३-११४-९॥
ततः स पशुमुत्सृज्य देवयानेन जग्मिवान्। अत्रानुवंशो रुद्रस्य तं निबोध युधिष्ठिर ॥०३-११४-१०॥
अयातयामं सर्वेभ्यो भागेभ्यो भागमुत्तमम्। देवाः सङ्कल्पयामासुर्भयाद्रुद्रस्य शाश्वतम् ॥०३-११४-११॥
इमां गाथामत्र गायन्नपः स्पृशति यो नरः। देवयानस्तस्य पन्थाश्चक्षुश्चैव प्रकाशते ॥०३-११४-१२॥
वैशम्पायन उवाच॥
ततो वैतरणीं सर्वे पाण्डवा द्रौपदी तथा। अवतीर्य महाभागा तर्पयां चक्रिरे पितॄन् ॥०३-११४-१३॥
युधिष्ठिर उवाच॥
उपस्पृश्यैव भगवन्नस्यां नद्यां तपोधन। मानुषादस्मि विषयादपेतः पश्य लोमश ॥०३-११४-१४॥
सर्वाँल्लोकान्प्रपश्यामि प्रसादात्तव सुव्रत। वैखानसानां जपतामेष शब्दो महात्मनाम् ॥०३-११४-१५॥
लोमश उवाच॥
त्रिशतं वै सहस्राणि योजनानां युधिष्ठिर। यत्र ध्वनिं शृणोष्येनं तूष्णीमास्स्व विशां पते ॥०३-११४-१६॥
एतत्स्वयम्भुवो राजन्वनं रम्यं प्रकाशते। यत्रायजत कौन्तेय विश्वकर्मा प्रतापवान् ॥०३-११४-१७॥
यस्मिन्यज्ञे हि भूर्दत्ता कश्यपाय महात्मने। सपर्वतवनोद्देशा दक्षिणा वै स्वयम्भुवा ॥०३-११४-१८॥
अवासीदच्च कौन्तेय दत्तमात्रा मही तदा। उवाच चापि कुपिता लोकेश्वरमिदं प्रभुम् ॥०३-११४-१९॥
न मां मर्त्याय भगवन्कस्मैचिद्दातुमर्हसि। प्रदानं मोघमेतत्ते यास्याम्येषा रसातलम् ॥०३-११४-२०॥
विषीदन्तीं तु तां दृष्ट्वा कश्यपो भगवानृषिः। प्रसादयां बभूवाथ ततो भूमिं विशां पते ॥०३-११४-२१॥
ततः प्रसन्ना पृथिवी तपसा तस्य पाण्डव। पुनरुन्मज्ज्य सलिलाद्वेदीरूपा स्थिता बभौ ॥०३-११४-२२॥
सैषा प्रकाशते राजन्वेदी संस्थानलक्षणा। आरुह्यात्र महाराज वीर्यवान्वै भविष्यसि ॥०३-११४-२३॥
अहं च ते स्वस्त्ययनं प्रयोक्ष्ये; यथा त्वमेनामधिरोक्ष्यसेऽद्य। स्पृष्टा हि मर्त्येन ततः समुद्र; मेषा वेदी प्रविशत्याजमीढ ॥०३-११४-२४॥
अग्निर्मित्रो योनिरापोऽथ देव्यो; विष्णो रेतस्त्वममृतस्य नाभिः। एवं ब्रुवन्पाण्डव सत्यवाक्यं; वेदीमिमां त्वं तरसाधिरोह ॥०३-११४-२५॥
वैशम्पायन उवाच॥
ततः कृतस्वस्त्ययनो महात्मा; युधिष्ठिरः सागरगामगच्छत्। कृत्वा च तच्छासनमस्य सर्वं; महेन्द्रमासाद्य निशामुवास ॥०३-११४-२६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.