Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.115
कार्तवीर्योपाख्यानम्
वैशम्पायन उवाच॥
स तत्र तामुषित्वैकां रजनीं पृथिवीपतिः। तापसानां परं चक्रे सत्कारं भ्रातृभिः सह ॥०३-११५-१॥
लोमशश्चास्य तान्सर्वानाचख्यौ तत्र तापसान्। भृगूनङ्गिरसश्चैव वासिष्ठानथ काश्यपान् ॥०३-११५-२॥
तान्समेत्य स राजर्षिरभिवाद्य कृताञ्जलिः। रामस्यानुचरं वीरमपृच्छदकृतव्रणम् ॥०३-११५-३॥
कदा नु रामो भगवांस्तापसान्दर्शयिष्यति। तेनैवाहं प्रसङ्गेन द्रष्टुमिच्छामि भार्गवम् ॥०३-११५-४॥
अकृतव्रण उवाच॥
आयानेवासि विदितो रामस्य विदितात्मनः। प्रीतिस्त्वयि च रामस्य क्षिप्रं त्वां दर्शयिष्यति ॥०३-११५-५॥
चतुर्दशीमष्टमीं च रामं पश्यन्ति तापसाः। अस्यां रात्र्यां व्यतीतायां भवित्री च चतुर्दशी ॥०३-११५-६॥
युधिष्ठिर उवाच॥
भवाननुगतो वीरं जामदग्न्यं महाबलम्। प्रत्यक्षदर्शी सर्वस्य पूर्ववृत्तस्य कर्मणः ॥०३-११५-७॥
स भवान्कथयत्वेतद्यथा रामेण निर्जिताः। आहवे क्षत्रियाः सर्वे कथं केन च हेतुना ॥०३-११५-८॥
अकृतव्रण उवाच॥
कन्यकुब्जे महानासीत्पार्थिवः सुमहाबलः। गाधीति विश्रुतो लोके वनवासं जगाम सः ॥०३-११५-९॥
वने तु तस्य वसतः कन्या जज्ञेऽप्सरःसमा। ऋचीको भार्गवस्तां च वरयामास भारत ॥०३-११५-१०॥
तमुवाच ततो राजा ब्राह्मणं संशितव्रतम्। उचितं नः कुले किञ्चित्पूर्वैर्यत्सम्प्रवर्तितम् ॥०३-११५-११॥
एकतः श्यामकर्णानां पाण्डुराणां तरस्विनाम्। सहस्रं वाजिनां शुल्कमिति विद्धि द्विजोत्तम ॥०३-११५-१२॥
न चापि भगवान्वाच्यो दीयतामिति भार्गव। देया मे दुहिता चेयं त्वद्विधाय महात्मने ॥०३-११५-१३॥
ऋचीक उवाच॥
एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम्। दास्याम्यश्वसहस्रं ते मम भार्या सुतास्तु ते ॥०३-११५-१४॥
अकृतव्रण उवाच॥
स तथेति प्रतिज्ञाय राजन्वरुणमब्रवीत्। एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम् ॥ सहस्रं वाजिनामेकं शुल्कार्थं मे प्रदीयताम् ॥०३-११५-१५॥
तस्मै प्रादात्सहस्रं वै वाजिनां वरुणस्तदा। तदश्वतीर्थं विख्यातमुत्थिता यत्र ते हयाः ॥०३-११५-१६॥
गङ्गायां कन्यकुब्जे वै ददौ सत्यवतीं तदा। ततो गाधिः सुतां तस्मै जन्याश्चासन्सुरास्तदा ॥ लब्ध्वा हयसहस्रं तु तांश्च दृष्ट्वा दिवौकसः ॥०३-११५-१७॥
धर्मेण लब्ध्वा तां भार्यामृचीको द्विजसत्तमः। यथाकामं यथाजोषं तया रेमे सुमध्यया ॥०३-११५-१८॥
तं विवाहे कृते राजन्सभार्यमवलोककः। आजगाम भृगुश्रेष्ठः पुत्रं दृष्ट्वा ननन्द च ॥०३-११५-१९॥
भार्यापती तमासीनं गुरुं सुरगणार्चितम्। अर्चित्वा पर्युपासीनौ प्राञ्जली तस्थतुस्तदा ॥०३-११५-२०॥
ततः स्नुषां स भगवान्प्रहृष्टो भृगुरब्रवीत्। वरं वृणीष्व सुभगे दाता ह्यस्मि तवेप्सितम् ॥०३-११५-२१॥
सा वै प्रसादयामास तं गुरुं पुत्रकारणात्। आत्मनश्चैव मातुश्च प्रसादं च चकार सः ॥०३-११५-२२॥
भृगुरुवाच॥
ऋतौ त्वं चैव माता च स्नाते पुंसवनाय वै। आलिङ्गेतां पृथग्वृक्षौ साश्वत्थं त्वमुदुम्बरम् ॥०३-११५-२३॥
आलिङ्गने तु ते राजंश्चक्रतुः स्म विपर्ययम्। कदाचिद्भृगुरागच्छत्तं च वेद विपर्ययम् ॥०३-११५-२४॥
अथोवाच महातेजा भृगुः सत्यवतीं स्नुषाम्। ब्राह्मणः क्षत्रवृत्तिर्वै तव पुत्रो भविष्यति ॥०३-११५-२५॥
क्षत्रियो ब्राह्मणाचारो मातुस्तव सुतो महान्। भविष्यति महावीर्यः साधूनां मार्गमास्थितः ॥०३-११५-२६॥
ततः प्रसादयामास श्वशुरं सा पुनः पुनः। न मे पुत्रो भवेदीदृक्कामं पौत्रो भवेदिति ॥०३-११५-२७॥
एवमस्त्विति सा तेन पाण्डव प्रतिनन्दिता। जमदग्निं ततः पुत्रं सा जज्ञे काल आगते ॥ तेजसा वर्चसा चैव युक्तं भार्गवनन्दनम् ॥०३-११५-२८॥
स वर्धमानस्तेजस्वी वेदस्याध्ययनेन वै। बहूनृषीन्महातेजाः पाण्डवेयात्यवर्तत ॥०३-११५-२९॥
तं तु कृत्स्नो धनुर्वेदः प्रत्यभाद्भरतर्षभ। चतुर्विधानि चास्त्राणि भास्करोपमवर्चसम् ॥०३-११५-३०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.