03.119
जनमेजय उवाच॥
प्रभासतीर्थं सम्प्राप्य वृष्णयः पाण्डवास्तथा। किमकुर्वन्कथाश्चैषां कास्तत्रासंस्तपोधन ॥०३-११९-१॥
ते हि सर्वे महात्मानः सर्वशास्त्रविशारदाः। वृष्णयः पाण्डवाश्चैव सुहृदश्च परस्परम् ॥०३-११९-२॥
वैशम्पायन उवाच॥
प्रभासतीर्थं सम्प्राप्य पुण्यं तीर्थं महोदधेः। वृष्णयः पाण्डवान्वीरान्परिवार्योपतस्थिरे ॥०३-११९-३॥
ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभः। वनमाली हली रामो बभाषे पुष्करेक्षणम् ॥०३-११९-४॥
न कृष्ण धर्मश्चरितो भवाय; जन्तोरधर्मश्च पराभवाय। युधिष्ठिरो यत्र जटी महात्मा; वनाश्रयः क्लिश्यति चीरवासाः ॥०३-११९-५॥
दुर्योधनश्चापि महीं प्रशास्ति; न चास्य भूमिर्विवरं ददाति। धर्मादधर्मश्चरितो गरीया; नितीव मन्येत नरोऽल्पबुद्धिः ॥०३-११९-६॥
दुर्योधने चापि विवर्धमाने; युधिष्ठिरे चासुख आत्तराज्ये। किं न्वद्य कर्तव्यमिति प्रजाभिः; शङ्का मिथः सञ्जनिता नराणाम् ॥०३-११९-७॥
अयं हि धर्मप्रभवो नरेन्द्रो; धर्मे रतः सत्यधृतिः प्रदाता। चलेद्धि राज्याच्च सुखाच्च पार्थो; धर्मादपेतश्च कथं विवर्धेत् ॥०३-११९-८॥
कथं नु भीष्मश्च कृपश्च विप्रो; द्रोणश्च राजा च कुलस्य वृद्धः। प्रव्राज्य पार्थान्सुखमाप्नुवन्ति; धिक्पापबुद्धीन्भरतप्रधानान् ॥०३-११९-९॥
किं नाम वक्ष्यत्यवनिप्रधानः; पितॄन्समागम्य परत्र पापः। पुत्रेषु सम्यक्चरितं मयेति; पुत्रानपापानवरोप्य राज्यात् ॥०३-११९-१०॥
नासौ धिया सम्प्रतिपश्यति स्म; किं नाम कृत्वाहमचक्षुरेवम्। जातः पृथिव्यामिति पार्थिवेषु; प्रव्राज्य कौन्तेयमथापि राज्यात् ॥०३-११९-११॥
नूनं समृद्धान्पितृलोकभूमौ; चामीकराभान्क्षितिजान्प्रफुल्लान्। विचित्रवीर्यस्य सुतः सपुत्रः; कृत्वा नृशंसं बत पश्यति स्म ॥०३-११९-१२॥
व्यूढोत्तरांसान्पृथुलोहिताक्षा; न्नेमान्स्म पृच्छन्स शृणोति नूनम्। प्रस्थापयद्यत्स वनं ह्यशङ्को; युधिष्ठिरं सानुजमात्तशस्त्रम् ॥०३-११९-१३॥
योऽयं परेषां पृतनां समृद्धां; निरायुधो दीर्घभुजो निहन्यात्। श्रुत्वैव शब्दं हि वृकोदरस्य; मुञ्चन्ति सैन्यानि शकृत्समूत्रम् ॥०३-११९-१४॥
स क्षुत्पिपासाध्वकृशस्तरस्वी; समेत्य नानायुधबाणपाणिः। वने स्मरन्वासमिमं सुघोरं; शेषं न कुर्यादिति निश्चितं मे ॥०३-११९-१५॥
न ह्यस्य वीर्येण बलेन कश्चि; त्समः पृथिव्यां भविता नरेषु। शीतोष्णवातातपकर्शिताङ्गो; न शेषमाजावसुहृत्सु कुर्यात् ॥०३-११९-१६॥
प्राच्यां नृपानेकरथेन जित्वा; वृकोदरः सानुचरान्रणेषु। स्वस्त्यागमद्योऽतिरथस्तरस्वी; सोऽयं वने क्लिश्यति चीरवासाः ॥०३-११९-१७॥
यो दन्तकूरे व्यजयन्नृदेवा; न्समागतान्दाक्षिणात्यान्महीपान्। तं पश्यतेमं सहदेवमद्य; तपस्विनं तापसवेषरूपम् ॥०३-११९-१८॥
यः पार्थिवानेकरथेन वीरो; दिशं प्रतीचीं प्रति युद्धशौण्डः। सोऽयं वने मूलफलेन जीव; ञ्जटी चरत्यद्य मलाचिताङ्गः ॥०३-११९-१९॥
सत्रे समृद्धेऽति रथस्य राज्ञो; वेदीतलादुत्पतिता सुता या। सेयं वने वासमिमं सुदुःखं; कथं सहत्यद्य सती सुखार्हा ॥०३-११९-२०॥
त्रिवर्गमुख्यस्य समीरणस्य; देवेश्वरस्याप्यथ वाश्विनोश्च। एषां सुराणां तनयाः कथं नु; वने चरन्त्यल्पसुखाः सुखार्हाः ॥०३-११९-२१॥
जिते हि धर्मस्य सुते सभार्ये; सभ्रातृके सानुचरे निरस्ते। दुर्योधने चापि विवर्धमाने; कथं न सीदत्यवनिः सशैला ॥०३-११९-२२॥