03.120
सात्यकिरुवाच॥
न राम कालः परिदेवनाय; यदुत्तरं तत्र तदेव सर्वे। समाचरामो ह्यनतीतकालं; युधिष्ठिरो यद्यपि नाह किञ्चित् ॥०३-१२०-१॥
ये नाथवन्तो हि भवन्ति लोके; ते नात्मना कर्म समारभन्ते। तेषां तु कार्येषु भवन्ति नाथाः; शैब्यादयो राम यथा ययातेः ॥०३-१२०-२॥
येषां तथा राम समारभन्ते; कार्याणि नाथाः स्वमतेन लोके। ते नाथवन्तः पुरुषप्रवीरा; नानाथवत्कृच्छ्रमवाप्नुवन्ति ॥०३-१२०-३॥
कस्मादयं रामजनार्दनौ च; प्रद्युम्नसाम्बौ च मया समेतौ। वसत्यरण्ये सह सोदरीयै; स्त्रैलोक्यनाथानधिगम्य नाथान् ॥०३-१२०-४॥
निर्यातु साध्वद्य दशार्हसेना; प्रभूतनानायुधचित्रवर्मा। यमक्षयं गच्छतु धार्तराष्ट्रः; सबान्धवो वृष्णिबलाभिभूतः ॥०३-१२०-५॥
त्वं ह्येव कोपात्पृथिवीमपीमां; संवेष्टयेस्तिष्ठतु शार्ङ्गधन्वा। स धार्तराष्ट्रं जहि सानुबन्धं; वृत्रं यथा देवपतिर्महेन्द्रः ॥०३-१२०-६॥
भ्राता च मे यश्च सखा गुरुश्च; जनार्दनस्यात्मसमश्च पार्थः। यदर्थमभ्युद्यतमुत्तमं त; त्करोति कर्माग्र्यमपारणीयम् ॥०३-१२०-७॥
तस्यास्त्रवर्षाण्यहमुत्तमास्त्रै; र्विहत्य सर्वाणि रणेऽभिभूय। कायाच्छिरः सर्पविषाग्निकल्पैः; शरोत्तमैरुन्मथितास्मि राम ॥०३-१२०-८॥
खड्गेन चाहं निशितेन सङ्ख्ये; कायाच्छिरस्तस्य बलात्प्रमथ्य। ततोऽस्य सर्वाननुगान्हनिष्ये; दुर्योधनं चापि कुरूंश्च सर्वान् ॥०३-१२०-९॥
आत्तायुधं मामिह रौहिणेय; पश्यन्तु भौमा युधि जातहर्षाः। निघ्नन्तमेकं कुरुयोधमुख्या; न्काले महाकक्षमिवान्तकाग्निः ॥०३-१२०-१०॥
प्रद्युम्नमुक्तान्निशितान्न शक्ताः; सोढुं कृपद्रोणविकर्णकर्णाः। जानामि वीर्यं च तवात्मजस्य; कार्ष्णिर्भवत्येष यथा रणस्थः ॥०३-१२०-११॥
साम्बः ससूतं सरथं भुजाभ्यां; दुःशासनं शास्तु बलात्प्रमथ्य। न विद्यते जाम्बवतीसुतस्य; रणेऽविषह्यं हि रणोत्कटस्य ॥०३-१२०-१२॥
एतेन बालेन हि शम्बरस्य; दैत्यस्य सैन्यं सहसा प्रणुन्नम्। वृत्तोरुरत्यायतपीनबाहु; रेतेन सङ्ख्ये निहतोऽश्वचक्रः ॥ को नाम साम्बस्य रणे मनुष्यो; गत्वान्तरं वै भुजयोर्धरेत ॥०३-१२०-१३॥
यथा प्रविश्यान्तरमन्तकस्य; काले मनुष्यो न विनिष्क्रमेत। तथा प्रविश्यान्तरमस्य सङ्ख्ये; को नाम जीवन्पुनराव्रजेत ॥०३-१२०-१४॥
द्रोणं च भीष्मं च महारथौ तौ; सुतैर्वृतं चाप्यथ सोमदत्तम्। सर्वाणि सैन्यानि च वासुदेवः; प्रधक्ष्यते सायकवह्निजालैः ॥०३-१२०-१५॥
किं नाम लोकेष्वविषह्यमस्ति; कृष्णस्य सर्वेषु सदैवतेषु। आत्तायुधस्योत्तमबाणपाणे; श्चक्रायुधस्याप्रतिमस्य युद्धे ॥०३-१२०-१६॥
ततोऽनिरुद्धोऽप्यसिचर्मपाणिर्महीमिमां धार्तराष्ट्रैर्विसञ्ज्ञैः। हृतोत्तमाङ्गैर्निहतैः करोतु; कीर्णां कुशैर्वेदिमिवाध्वरेषु ॥०३-१२०-१७॥
गदोल्मुकौ बाहुकभानुनीथाः; शूरश्च सङ्ख्ये निशठः कुमारः। रणोत्कटौ सारणचारुदेष्णौ; कुलोचितं विप्रथयन्तु कर्म ॥०३-१२०-१८॥
सवृष्णिभोजान्धकयोधमुख्या; समागता क्षत्रियशूरसेना। हत्वा रणे तान्धृतराष्ट्रपुत्राँ; ल्लोके यशः स्फीतमुपाकरोतु ॥०३-१२०-१९॥
ततोऽभिमन्युः पृथिवीं प्रशास्तु; यावद्व्रतं धर्मभृतां वरिष्ठः। युधिष्ठिरः पारयते महात्मा; द्यूते यथोक्तं कुरुसत्तमेन ॥०३-१२०-२०॥
अस्मत्प्रमुक्तैर्विशिखैर्जितारि; स्ततो महीं भोक्ष्यति धर्मराजः। निर्धार्तराष्ट्रां हतसूतपुत्रा; मेतद्धि नः कृत्यतमं यशश्यम् ॥०३-१२०-२१॥
वासुदेव उवाच॥
असंशयं माधव सत्यमेत; द्गृह्णीम ते वाक्यमदीनसत्त्व। स्वाभ्यां भुजाभ्यामजितां तु भूमिं; नेच्छेत्कुरूणामृषभः कथञ्चित् ॥०३-१२०-२२॥
न ह्येष कामान्न भयान्न लोभा; द्युधिष्ठिरो जातु जह्यात्स्वधर्मम्। भीमार्जुनौ चातिरथौ यमौ वा; तथैव कृष्णा द्रुपदात्मजेयम् ॥०३-१२०-२३॥
उभौ हि युद्धेऽप्रतिमौ पृथिव्यां; वृकोदरश्चैव धनञ्जयश्च। कस्मान्न कृत्स्नां पृथिवीं प्रशासे; न्माद्रीसुताभ्यां च पुरस्कृतोऽयम् ॥०३-१२०-२४॥
यदा तु पाञ्चालपतिर्महात्मा; सकेकयश्चेदिपतिर्वयं च। योत्स्याम विक्रम्य परांस्तदा वै; सुयोधनस्त्यक्ष्यति जीवलोकम् ॥०३-१२०-२५॥
युधिष्ठिर उवाच॥
नैतच्चित्रं माधव यद्ब्रवीषि; सत्यं तु मे रक्ष्यतमं न राज्यम्। कृष्णस्तु मां वेद यथावदेकः; कृष्णं च वेदाहमथो यथावत् ॥०३-१२०-२६॥
यदैव कालं पुरुषप्रवीरो; वेत्स्यत्ययं माधव विक्रमस्य। तदा रणे त्वं च शिनिप्रवीर; सुयोधनं जेष्यसि केशवश्च ॥०३-१२०-२७॥
प्रतिप्रयान्त्वद्य दशार्हवीरा; दृढोऽस्मि नाथैर्नरलोकनाथैः। धर्मेऽप्रमादं कुरुताप्रमेया; द्रष्टास्मि भूयः सुखिनः समेतान् ॥०३-१२०-२८॥
वैशम्पायन उवाच॥
तेऽन्योन्यमामन्त्र्य तथाभिवाद्य; वृद्धान्परिस्वज्य शिशूंश्च सर्वान्। यदुप्रवीराः स्वगृहाणि जग्मू; राजापि तीर्थान्यनुसञ्चचार ॥०३-१२०-२९॥
विसृज्य कृष्णं त्वथ धर्मराजो; विदर्भराजोपचितां सुतीर्थाम्। सुतेन सोमेन विमिश्रितोदां; ततः पयोष्णीं प्रति स ह्युवास ॥०३-१२०-३०॥