03.118
वैशम्पायन उवाच॥
गच्छन्स तीर्थानि महानुभावः; पुण्यानि रम्याणि ददर्श राजा। सर्वाणि विप्रैरुपशोभितानि; क्वचित्क्वचिद्भारत सागरस्य ॥०३-११८-१॥
स वृत्तवांस्तेषु कृताभिषेकः; सहानुजः पार्थिवपुत्रपौत्रः। समुद्रगां पुण्यतमां प्रशस्तां; जगाम पारिक्षित पाण्डुपुत्रः ॥०३-११८-२॥
तत्रापि चाप्लुत्य महानुभावः; सन्तर्पयामास पितॄन्सुरांश्च। द्विजातिमुख्येषु धनं विसृज्य; गोदावरिं सागरगामगच्छत् ॥०३-११८-३॥
ततो विपाप्मा द्रविडेषु राज; न्समुद्रमासाद्य च लोकपुण्यम्। अगस्त्यतीर्थं च पवित्रपुण्यं; नारीतीर्थान्यथ वीरो ददर्श ॥०३-११८-४॥
तत्रार्जुनस्याग्र्यधनुर्धरस्य; निशम्य तत्कर्म परैरसह्यम्। सम्पूज्यमानः परमर्षिसङ्घैः; परां मुदं पाण्डुसुतः स लेभे ॥०३-११८-५॥
स तेषु तीर्थेष्वभिषिक्तगात्रः; कृष्णासहायः सहितोऽनुजैश्च। सम्पूजयन्विक्रममर्जुनस्य; रेमे महीपालपतिः पृथिव्याम् ॥०३-११८-६॥
ततः सहस्राणि गवां प्रदाय; तीर्थेषु तेष्वम्बुधरोत्तमस्य। हृष्टः सह भ्रातृभिरर्जुनस्य; सङ्कीर्तयामास गवां प्रदानम् ॥०३-११८-७॥
स तानि तीर्थानि च सागरस्य; पुण्यानि चान्यानि बहूनि राजन्। क्रमेण गच्छन्परिपूर्णकामः; शूर्पारकं पुण्यतमं ददर्श ॥०३-११८-८॥
तत्रोदधेः कञ्चिदतीत्य देशं; ख्यातं पृथिव्यां वनमाससाद। तप्तं सुरैर्यत्र तपः पुरस्ता; दिष्टं तथा पुण्यतमैर्नरेन्द्रैः ॥०३-११८-९॥
स तत्र तामग्र्यधनुर्धरस्य; वेदीं ददर्शायतपीनबाहुः। ऋचीकपुत्रस्य तपस्विसङ्घैः; समावृतां पुण्यकृदर्चनीयाम् ॥०३-११८-१०॥
ततो वसूनां वसुधाधिपः स; मरुद्गणानां च तथाश्विनोश्च। वैवस्वतादित्यधनेश्वराणा; मिन्द्रस्य विष्णोः सवितुर्विभोश्च ॥०३-११८-११॥
भगस्य चन्द्रस्य दिवाकरस्य; पतेरपां साध्यगणस्य चैव। धातुः पितॄणां च तथा महात्मा; रुद्रस्य राजन्सगणस्य चैव ॥०३-११८-१२॥
सरस्वत्याः सिद्धगणस्य चैव; पूष्णश्च ये चाप्यमरास्तथान्ये। पुण्यानि चाप्यायतनानि तेषां; ददर्श राजा सुमनोहराणि ॥०३-११८-१३॥
तेषूपवासान्विविधानुपोष्य; दत्त्वा च रत्नानि महाधनानि। तीर्थेषु सर्वेषु परिप्लुताङ्गः; पुनः स शूर्पारकमाजगाम ॥०३-११८-१४॥
स तेन तीर्थेन तु सागरस्य; पुनः प्रयातः सह सोदरीयैः। द्विजैः पृथिव्यां प्रथितं महद्भि; स्तीर्थं प्रभासं समुपाजगाम ॥०३-११८-१५॥
तत्राभिषिक्तः पृथुलोहिताक्षः; सहानुजैर्देवगणान्पितॄंश्च। सन्तर्पयामास तथैव कृष्णा; ते चापि विप्राः सह लोमशेन ॥०३-११८-१६॥
स द्वादशाहं जलवायुभक्षः; कुर्वन्क्षपाहःसु तदाभिषेकम्। समन्ततोऽग्नीनुपदीपयित्वा; तेपे तपो धर्मभृतां वरिष्ठः ॥०३-११८-१७॥
तमुग्रमास्थाय तपश्चरन्तं; शुश्राव रामश्च जनार्दनश्च। तौ सर्ववृष्णिप्रवरौ ससैन्यौ; युधिष्ठिरं जग्मतुराजमीढम् ॥०३-११८-१८॥
ते वृष्णयः पाण्डुसुतान्समीक्ष्य; भूमौ शयानान्मलदिग्धगात्रान्। अनर्हतीं द्रौपदीं चापि दृष्ट्वा; सुदुःखिताश्चुक्रुशुरार्तनादम् ॥०३-११८-१९॥
ततः स रामं च जनार्दनं च; कार्ष्णिं च साम्बं च शिनेश्च पौत्रम्। अन्यांश्च वृष्णीनुपगम्य पूजां; चक्रे यथाधर्ममदीनसत्त्वः ॥०३-११८-२०॥
ते चापि सर्वान्प्रतिपूज्य पार्थां; स्तैः सत्कृताः पाण्डुसुतैस्तथैव। युधिष्ठिरं सम्परिवार्य राज; न्नुपाविशन्देवगणा यथेन्द्रम् ॥०३-११८-२१॥
तेषां स सर्वं चरितं परेषां; वने च वासं परमप्रतीतः। अस्त्रार्थमिन्द्रस्य गतं च पार्थं; कृष्णे शशंसामरराजपुत्रम् ॥०३-११८-२२॥
श्रुत्वा तु ते तस्य वचः प्रतीता; स्तांश्चापि दृष्ट्वा सुकृशानतीव। नेत्रोद्भवं संमुमुचुर्दशार्हा; दुःखार्तिजं वारि महानुभावाः ॥०३-११८-२३॥