03.124
लोमश उवाच॥
ततः श्रुत्वा तु शर्यातिर्वयःस्थं च्यवनं कृतम्। संहृष्टः सेनया सार्धमुपायाद्भार्गवाश्रमम् ॥०३-१२४-१॥
च्यवनं च सुकन्यां च दृष्ट्वा देवसुताविव। रेमे महीपः शर्यातिः कृत्स्नां प्राप्य महीमिव ॥०३-१२४-२॥
ऋषिणा सत्कृतस्तेन सभार्यः पृथिवीपतिः। उपोपविष्टः कल्याणीः कथाश्चक्रे महामनाः ॥०३-१२४-३॥
अथैनं भार्गवो राजन्नुवाच परिसान्त्वयन्। याजयिष्यामि राजंस्त्वां सम्भारानुपकल्पय ॥०३-१२४-४॥
ततः परमसंहृष्टः शर्यातिः पृथिवीपतिः। च्यवनस्य महाराज तद्वाक्यं प्रत्यपूजयत् ॥०३-१२४-५॥
प्रशस्तेऽहनि यज्ञीये सर्वकामसमृद्धिमत्। कारयामास शर्यातिर्यज्ञायतनमुत्तमम् ॥०३-१२४-६॥
तत्रैनं च्यवनो राजन्याजयामास भार्गवः। अद्भुतानि च तत्रासन्यानि तानि निबोध मे ॥०३-१२४-७॥
अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदा। तमिन्द्रो वारयामास गृह्यमाणं तयोर्ग्रहम् ॥०३-१२४-८॥
इन्द्र उवाच॥
उभावेतौ न सोमार्हौ नासत्याविति मे मतिः। भिषजौ देवपुत्राणां कर्मणा नैवमर्हतः ॥०३-१२४-९॥
च्यवन उवाच॥
मावमंस्था महात्मानौ रूपद्रविणवत्तरौ। यौ चक्रतुर्मां मघवन्वृन्दारकमिवाजरम् ॥०३-१२४-१०॥
ऋते त्वां विबुधांश्चान्यान्कथं वै नार्हतः सवम्। अश्विनावपि देवेन्द्र देवौ विद्धि पुरंदर ॥०३-१२४-११॥
इन्द्र उवाच॥
चिकित्सकौ कर्मकरौ कामरूपसमन्वितौ। लोके चरन्तौ मर्त्यानां कथं सोममिहार्हतः ॥०३-१२४-१२॥
लोमश उवाच॥
एतदेव यदा वाक्यमाम्रेडयति वासवः। अनादृत्य ततः शक्रं ग्रहं जग्राह भार्गवः ॥०३-१२४-१३॥
ग्रहीष्यन्तं तु तं सोममश्विनोरुत्तमं तदा। समीक्ष्य बलभिद्देव इदं वचनमब्रवीत् ॥०३-१२४-१४॥
आभ्यामर्थाय सोमं त्वं ग्रहीष्यसि यदि स्वयम्। वज्रं ते प्रहरिष्यामि घोररूपमनुत्तमम् ॥०३-१२४-१५॥
एवमुक्तः स्मयन्निन्द्रमभिवीक्ष्य स भार्गवः। जग्राह विधिवत्सोममश्विभ्यामुत्तमं ग्रहम् ॥०३-१२४-१६॥
ततोऽस्मै प्राहरद्वज्रं घोररूपं शचीपतिः। तस्य प्रहरतो बाहुं स्तम्भयामास भार्गवः ॥०३-१२४-१७॥
संस्तम्भयित्वा च्यवनो जुहुवे मन्त्रतोऽनलम्। कृत्यार्थी सुमहातेजा देवं हिंसितुमुद्यतः ॥०३-१२४-१८॥
ततः कृत्या समभवदृषेस्तस्य तपोबलात्। मदो नाम महावीर्यो बृहत्कायो महासुरः ॥ शरीरं यस्य निर्देष्टुमशक्यं तु सुरासुरैः ॥०३-१२४-१९॥
तस्यास्यमभवद्घोरं तीक्ष्णाग्रदशनं महत्। हनुरेका स्थिता तस्य भूमावेका दिवं गता ॥०३-१२४-२०॥
चतस्र आयता दंष्ट्रा योजनानां शतं शतम्। इतरे त्वस्य दशना बभूवुर्दशयोजनाः ॥ प्राकारसदृशाकाराः शूलाग्रसमदर्शनाः ॥०३-१२४-२१॥
बाहू पर्वतसङ्काशावायतावयुतं समौ। नेत्रे रविशशिप्रख्ये वक्त्रमन्तकसंनिभम् ॥०३-१२४-२२॥
लेलिहञ्जिह्वया वक्त्रं विद्युच्चपललोलया। व्यात्ताननो घोरदृष्टिर्ग्रसन्निव जगद्बलात् ॥०३-१२४-२३॥
स भक्षयिष्यन्सङ्क्रुद्धः शतक्रतुमुपाद्रवत्। महता घोररूपेण लोकाञ्शब्देन नादयन् ॥०३-१२४-२४॥