03.145
युधिष्ठिर उवाच॥
धर्मज्ञो बलवाञ्शूरः सद्यो राक्षसपुङ्गवः। भक्तोऽस्मानौरसः पुत्रो भीम गृह्णातु मातरम् ॥०३-१४५-१॥
तव भीम बलेनाहमतिभीमपराक्रम। अक्षतः सह पाञ्चाल्या गच्छेयं गन्धमादनम् ॥०३-१४५-२॥
वैशम्पायन उवाच॥
भ्रातुर्वचनमाज्ञाय भीमसेनो घटोत्कचम्। आदिदेश नरव्याघ्रस्तनयं शत्रुकर्शनम् ॥०३-१४५-३॥
हैडिम्बेय परिश्रान्ता तव मातापराजिता। त्वं च कामगमस्तात बलवान्वह तां खग ॥०३-१४५-४॥
स्कन्धमारोप्य भद्रं ते मध्येऽस्माकं विहायसा। गच्छ नीचिकया गत्या यथा चैनां न पीडयेः ॥०३-१४५-५॥
घटोत्कच उवाच॥
धर्मराजं च धौम्यं च राजपुत्रीं यमौ तथा। एकोऽप्यहमलं वोढुं किमुताद्य सहायवान् ॥०३-१४५-६॥
वैशम्पायन उवाच॥
एवमुक्त्वा ततः कृष्णामुवाह स घटोत्कचः। पाण्डूनां मध्यगो वीरः पाण्डवानपि चापरे ॥०३-१४५-७॥
लोमशः सिद्धमार्गेण जगामानुपमद्युतिः। स्वेनैवात्मप्रभावेन द्वितीय इव भास्करः ॥०३-१४५-८॥
ब्राह्मणांश्चापि तान्सर्वान्समुपादाय राक्षसाः। नियोगाद्राक्षसेन्द्रस्य जग्मुर्भीमपराक्रमाः ॥०३-१४५-९॥
एवं सुरमणीयानि वनान्युपवनानि च। आलोकयन्तस्ते जग्मुर्विशालां बदरीं प्रति ॥०३-१४५-१०॥
ते त्वाशुगतिभिर्वीरा राक्षसैस्तैर्महाबलैः। उह्यमाना ययुः शीघ्रं महदध्वानमल्पवत् ॥०३-१४५-११॥
देशान्म्लेच्छगणाकीर्णान्नानारत्नाकरायुतान्। ददृशुर्गिरिपादांश्च नानाधातुसमाचितान् ॥०३-१४५-१२॥
विद्याधरगणाकीर्णान्युतान्वानरकिंनरैः। तथा किम्पुरुषैश्चैव गन्धर्वैश्च समन्ततः ॥०३-१४५-१३॥
नदीजालसमाकीर्णान्नानापक्षिरुताकुलान्। नानाविधैर्मृगैर्जुष्टान्वानरैश्चोपशोभितान् ॥०३-१४५-१४॥
ते व्यतीत्य बहून्देशानुत्तरांश्च कुरूनपि। ददृशुर्विविधाश्चर्यं कैलासं पर्वतोत्तमम् ॥०३-१४५-१५॥
तस्याभ्याशे तु ददृशुर्नरनारायणाश्रमम्। उपेतं पादपैर्दिव्यैः सदापुष्पफलोपगैः ॥०३-१४५-१६॥
ददृशुस्तां च बदरीं वृत्तस्कन्धां मनोरमाम्। स्निग्धामविरलच्छायां श्रिया परमया युताम् ॥०३-१४५-१७॥
पत्रैः स्निग्धैरविरलैरुपेतां मृदुभिः शुभाम्। विशालशाखां विस्तीर्णामतिद्युतिसमन्विताम् ॥०३-१४५-१८॥
फलैरुपचितैर्दिव्यैराचितां स्वादुभिर्भृशम्। मधुस्रवैः सदा दिव्यां महर्षिगणसेविताम् ॥ मदप्रमुदितैर्नित्यं नानाद्विजगणैर्युताम् ॥०३-१४५-१९॥
अदंशमशके देशे बहुमूलफलोदके। नीलशाद्वलसञ्छन्ने देवगन्धर्वसेविते ॥०३-१४५-२०॥
सुसमीकृतभूभागे स्वभावविहिते शुभे। जातां हिममृदुस्पर्शे देशेऽपहतकण्टके ॥०३-१४५-२१॥
तामुपेत्य महात्मानः सह तैर्ब्राह्मणर्षभैः। अवतेरुस्ततः सर्वे राक्षसस्कन्धतः शनैः ॥०३-१४५-२२॥
ततस्तमाश्रमं पुण्यं नरनारायणाश्रितम्। ददृशुः पाण्डवा राजन्सहिता द्विजपुङ्गवैः ॥०३-१४५-२३॥
तमसा रहितं पुण्यमनामृष्टं रवेः करैः। क्षुत्तृट्शीतोष्णदोषैश्च वर्जितं शोकनाशनम् ॥०३-१४५-२४॥
महर्षिगणसम्बाधं ब्राह्म्या लक्ष्म्या समन्वितम्। दुष्प्रवेशं महाराज नरैर्धर्मबहिष्कृतैः ॥०३-१४५-२५॥
बलिहोमार्चितं दिव्यं सुसंमृष्टानुलेपनम्। दिव्यपुष्पोपहारैश्च सर्वतोऽभिविराजितम् ॥०३-१४५-२६॥
विशालैरग्निशरणैः स्रुग्भाण्डैराचितं शुभैः। महद्भिस्तोयकलशैः कठिनैश्चोपशोभितम् ॥ शरण्यं सर्वभूतानां ब्रह्मघोषनिनादितम् ॥०३-१४५-२७॥
दिव्यमाश्रयणीयं तमाश्रमं श्रमनाशनम्। श्रिया युतमनिर्देश्यं देवचर्योपशोभितम् ॥०३-१४५-२८॥
फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः। सूर्यवैश्वानरसमैस्तपसा भावितात्मभिः ॥०३-१४५-२९॥
महर्षिभिर्मोक्षपरैर्यतिभिर्नियतेन्द्रियैः। ब्रह्मभूतैर्महाभागैरुपेतं ब्रह्मवादिभिः ॥०३-१४५-३०॥
सोऽभ्यगच्छन्महातेजास्तानृषीन्नियतः शुचिः। भ्रातृभिः सहितो धीमान्धर्मपुत्रो युधिष्ठिरः ॥०३-१४५-३१॥
दिव्यज्ञानोपपन्नास्ते दृष्ट्वा प्राप्तं युधिष्ठिरम्। अभ्यगच्छन्त सुप्रीताः सर्व एव महर्षयः ॥ आशीर्वादान्प्रयुञ्जानाः स्वाध्यायनिरता भृशम् ॥०३-१४५-३२॥
प्रीतास्ते तस्य सत्कारं विधिना पावकोपमाः। उपाजह्रुश्च सलिलं पुष्पमूलफलं शुचि ॥०३-१४५-३३॥
स तैः प्रीत्याथ सत्कारमुपनीतं महर्षिभिः। प्रयतः प्रतिगृह्याथ धर्मपुत्रो युधिष्ठिरः ॥०३-१४५-३४॥
तं शक्रसदनप्रख्यं दिव्यगन्धं मनोरमम्। प्रीतः स्वर्गोपमं पुण्यं पाण्डवः सह कृष्णया ॥०३-१४५-३५॥
विवेश शोभया युक्तं भ्रातृभिश्च सहानघ। ब्राह्मणैर्वेदवेदाङ्गपारगैश्च सहाच्युतः ॥०३-१४५-३६॥
तत्रापश्यत्स धर्मात्मा देवदेवर्षिपूजितम्। नरनारायणस्थानं भागीरथ्योपशोभितम् ॥०३-१४५-३७॥
मधुस्रवफलां दिव्यां महर्षिगणसेविताम्। तामुपेत्य महात्मानस्तेऽवसन्ब्राह्मणैः सह ॥०३-१४५-३८॥
आलोकयन्तो मैनाकं नानाद्विजगणायुतम्। हिरण्यशिखरं चैव तच्च बिन्दुसरः शिवम् ॥०३-१४५-३९॥
भागीरथीं सुतीर्थां च शीतामलजलां शिवाम्। मणिप्रवालप्रस्तारां पादपैरुपशोभिताम् ॥०३-१४५-४०॥
दिव्यपुष्पसमाकीर्णां मनसः प्रीतिवर्धनीम्। वीक्षमाणा महात्मानो विजह्रुस्तत्र पाण्डवाः ॥०३-१४५-४१॥
तत्र देवान्पितॄंश्चैव तर्पयन्तः पुनः पुनः। ब्राह्मणैः सहिता वीरा न्यवसन्पुरुषर्षभाः ॥०३-१४५-४२॥
कृष्णायास्तत्र पश्यन्तः क्रीडितान्यमरप्रभाः। विचित्राणि नरव्याघ्रा रेमिरे तत्र पाण्डवाः ॥०३-१४५-४३॥