03.146
सौगन्धिकाहरणम्
वैशम्पायन उवाच॥
तत्र ते पुरुषव्याघ्राः परमं शौचमास्थिताः। षड्रात्रमवसन्वीरा धनञ्जयदिदृक्षया ॥ तस्मिन्विहरमाणाश्च रममाणाश्च पाण्डवाः ॥०३-१४६-१॥
मनोज्ञे काननवरे सर्वभूतमनोरमे। पादपैः पुष्पविकचैः फलभारावनामितैः ॥०३-१४६-२॥
शोभितं सर्वतोरम्यैः पुंस्कोकिलकुलाकुलैः। स्निग्धपत्रैरविरलैः शीतच्छायैर्मनोरमैः ॥०३-१४६-३॥
सरांसि च विचित्राणि प्रसन्नसलिलानि च। कमलैः सोत्पलैस्तत्र भ्राजमानानि सर्वशः ॥ पश्यन्तश्चारुरूपाणि रेमिरे तत्र पाण्डवाः ॥०३-१४६-४॥
पुण्यगन्धः सुखस्पर्शो ववौ तत्र समीरणः। ह्लादयन्पाण्डवान्सर्वान्सकृष्णान्सद्विजर्षभान् ॥०३-१४६-५॥
ततः पूर्वोत्तरो वायुः पवमानो यदृच्छया। सहस्रपत्रमर्काभं दिव्यं पद्ममुदावहत् ॥०३-१४६-६॥
तदपश्यत पाञ्चाली दिव्यगन्धं मनोरमम्। अनिलेनाहृतं भूमौ पतितं जलजं शुचि ॥०३-१४६-७॥
तच्छुभा शुभमासाद्य सौगन्धिकमनुत्तमम्। अतीव मुदिता राजन्भीमसेनमथाब्रवीत् ॥०३-१४६-८॥
पश्य दिव्यं सुरुचिरं भीम पुष्पमनुत्तमम्। गन्धसंस्थानसम्पन्नं मनसो मम नन्दनम् ॥०३-१४६-९॥
एतत्तु धर्मराजाय प्रदास्यामि परन्तप। हरेरिदं मे कामाय काम्यके पुनराश्रमे ॥०३-१४६-१०॥
यदि तेऽहं प्रिया पार्थ बहूनीमान्युपाहर। तान्यहं नेतुमिच्छामि काम्यकं पुनराश्रमम् ॥०३-१४६-११॥
एवमुक्त्वा तु पाञ्चाली भीमसेनमनिन्दिता। जगाम धर्मराजाय पुष्पमादाय तत्तदा ॥०३-१४६-१२॥
अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः। प्रियायाः प्रियकामः स भीमो भीमपराक्रमः ॥०३-१४६-१३॥
वातं तमेवाभिमुखो यतस्तत्पुष्पमागतम्। आजिहीर्षुर्जगामाशु स पुष्पाण्यपराण्यपि ॥०३-१४६-१४॥
रुक्मपृष्ठं धनुर्गृह्य शरांश्चाशीविषोपमान्। मृगराडिव सङ्क्रुद्धः प्रभिन्न इव कुञ्जरः ॥०३-१४६-१५॥
द्रौपद्याः प्रियमन्विच्छन्स्वबाहुबलमाश्रितः। व्यपेतभयसंमोहः शैलमभ्यपतद्बली ॥०३-१४६-१६॥
स तं द्रुमलतागुल्मच्छन्नं नीलशिलातलम्। गिरिं चचारारिहरः किंनराचरितं शुभम् ॥०३-१४६-१७॥
नानावर्णधरैश्चित्रं धातुद्रुममृगाण्डजैः। सर्वभूषणसम्पूर्णं भूमेर्भुजमिवोच्छ्रितम् ॥०३-१४६-१८॥
सर्वर्तुरमणीयेषु गन्धमादनसानुषु। सक्तचक्षुरभिप्रायं हृदयेनानुचिन्तयन् ॥०३-१४६-१९॥
पुंस्कोकिलनिनादेषु षट्पदाभिरुतेषु च। बद्धश्रोत्रमनश्चक्षुर्जगामामितविक्रमः ॥०३-१४६-२०॥
जिघ्रमाणो महातेजाः सर्वर्तुकुसुमोद्भवम्। गन्धमुद्दाममुद्दामो वने मत्त इव द्विपः ॥०३-१४६-२१॥
ह्रियमाणश्रमः पित्रा सम्प्रहृष्टतनूरुहः। पितुः संस्पर्शशीतेन गन्धमादनवायुना ॥०३-१४६-२२॥
स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम्। विलोडयामास तदा पुष्पहेतोररिंदमः ॥०३-१४६-२३॥
विषमच्छेदरचितैरनुलिप्तमिवाङ्गुलैः। विमलैर्धातुविच्छेदैः काञ्चनाञ्जनराजतैः ॥०३-१४६-२४॥
सपक्षमिव नृत्यन्तं पार्श्वलग्नैः पयोधरैः। मुक्ताहारैरिव चितं च्युतैः प्रस्रवणोदकैः ॥०३-१४६-२५॥
अभिरामनदीकुञ्जनिर्झरोदरकन्दरम्। अप्सरोनूपुररवैः प्रनृत्तबहुबर्हिणम् ॥०३-१४६-२६॥
दिग्वारणविषाणाग्रैर्घृष्टोपलशिलातलम्। स्रस्तांशुकमिवाक्षोभ्यैर्निम्नगानिःसृतैर्जलैः ॥०३-१४६-२७॥
सशष्पकवलैः स्वस्थैरदूरपरिवर्तिभिः। भयस्याज्ञैश्च हरिणैः कौतूहलनिरीक्षितः ॥०३-१४६-२८॥
चालयन्नूरुवेगेन लताजालान्यनेकशः। आक्रीडमानः कौन्तेयः श्रीमान्वायुसुतो ययौ ॥०३-१४६-२९॥
प्रियामनोरथं कर्तुमुद्यतश्चारुलोचनः। प्रांशुः कनकतालाभः सिंहसंहननो युवा ॥०३-१४६-३०॥
मत्तवारणविक्रान्तो मत्तवारणवेगवान्। मत्तवारणताम्राक्षो मत्तवारणवारणः ॥०३-१४६-३१॥
प्रियपार्श्वोपविष्टाभिर्व्यावृत्ताभिर्विचेष्टितैः। यक्षगन्धर्वयोषाभिरदृश्याभिर्निरीक्षितः ॥०३-१४६-३२॥
नवावतारं रूपस्य विक्रीणन्निव पाण्डवः। चचार रमणीयेषु गन्धमादनसानुषु ॥०३-१४६-३३॥
संस्मरन्विविधान्क्लेशान्दुर्योधनकृतान्बहून्। द्रौपद्या वनवासिन्याः प्रियं कर्तुं समुद्यतः ॥०३-१४६-३४॥
सोऽचिन्तयद्गते स्वर्गमर्जुने मयि चागते। पुष्पहेतोः कथं न्वार्यः करिष्यति युधिष्ठिरः ॥०३-१४६-३५॥
स्नेहान्नरवरो नूनमविश्वासाद्वनस्य च। नकुलं सहदेवं च न मोक्ष्यति युधिष्ठिरः ॥०३-१४६-३६॥
कथं नु कुसुमावाप्तिः स्याच्छीघ्रमिति चिन्तयन्। प्रतस्थे नरशार्दूलः पक्षिराडिव वेगितः ॥०३-१४६-३७॥
कम्पयन्मेदिनीं पद्भ्यां निर्घात इव पर्वसु। त्रासयन्गजयूथानि वातरंहा वृकोदरः ॥०३-१४६-३८॥
सिंहव्याघ्रगणांश्चैव मर्दमानो महाबलः। उन्मूलयन्महावृक्षान्पोथयंश्चोरसा बली ॥०३-१४६-३९॥
लतावल्लीश्च वेगेन विकर्षन्पाण्डुनन्दनः। उपर्युपरि शैलाग्रमारुरुक्षुरिव द्विपः ॥ विनर्दमानोऽतिभृशं सविद्युदिव तोयदः ॥०३-१४६-४०॥
तस्य शब्देन घोरेण धनुर्घोषेण चाभिभो। त्रस्तानि मृगयूथानि समन्ताद्विप्रदुद्रुवुः ॥०३-१४६-४१॥
अथापश्यन्महाबाहुर्गन्धमादनसानुषु। सुरम्यं कदलीषण्डं बहुयोजनविस्तृतम् ॥०३-१४६-४२॥
तमभ्यगच्छद्वेगेन क्षोभयिष्यन्महाबलः। महागज इवास्रावी प्रभञ्जन्विविधान्द्रुमान् ॥०३-१४६-४३॥
उत्पाट्य कदलीस्कन्धान्बहुतालसमुच्छ्रयान्। चिक्षेप तरसा भीमः समन्ताद्बलिनां वरः ॥०३-१४६-४४॥
ततः सत्त्वान्युपाक्रामन्बहूनि च महान्ति च। रुरुवारणसङ्घाश्च महिषाश्च जलाश्रयाः ॥०३-१४६-४५॥
सिंहव्याघ्राश्च सङ्क्रुद्धा भीमसेनमभिद्रवन्। व्यादितास्या महारौद्रा विनदन्तोऽतिभीषणाः ॥०३-१४६-४६॥
ततो वायुसुतः क्रोधात्स्वबाहुबलमाश्रितः। गजेनाघ्नन्गजं भीमः सिंहं सिंहेन चाभिभूः ॥ तलप्रहारैरन्यांश्च व्यहनत्पाण्डवो बली ॥०३-१४६-४७॥
ते हन्यमाना भीमेन सिंहव्याघ्रतरक्षवः। भयाद्विससृपुः सर्वे शकृन्मूत्रं च सुस्रुवुः ॥०३-१४६-४८॥
प्रविवेश ततः क्षिप्रं तानपास्य महाबलः। वनं पाण्डुसुतः श्रीमाञ्शब्देनापूरयन्दिशः ॥०३-१४६-४९॥
तेन शब्देन चोग्रेण भीमसेनरवेण च। वनान्तरगताः सर्वे वित्रेसुर्मृगपक्षिणः ॥०३-१४६-५०॥
तं शब्दं सहसा श्रुत्वा मृगपक्षिसमीरितम्। जलार्द्रपक्षा विहगाः समुत्पेतुः सहस्रशः ॥०३-१४६-५१॥
तानौदकान्पक्षिगणान्निरीक्ष्य भरतर्षभः। तानेवानुसरन्रम्यं ददर्श सुमहत्सरः ॥०३-१४६-५२॥
काञ्चनैः कदलीषण्डैर्मन्दमारुतकम्पितैः। वीज्यमानमिवाक्षोभ्यं तीरान्तरविसर्पिभिः ॥०३-१४६-५३॥
तत्सरोऽथावतीर्याशु प्रभूतकमलोत्पलम्। महागज इवोद्दामश्चिक्रीड बलवद्बली ॥ विक्रीड्य तस्मिन्सुचिरमुत्ततारामितद्युतिः ॥०३-१४६-५४॥
ततोऽवगाह्य वेगेन तद्वनं बहुपादपम्। दध्मौ च शङ्खं स्वनवत्सर्वप्राणेन पाण्डवः ॥०३-१४६-५५॥
तस्य शङ्खस्य शब्देन भीमसेनरवेण च। बाहुशब्देन चोग्रेण नर्दन्तीव गिरेर्गुहाः ॥०३-१४६-५६॥
तं वज्रनिष्पेषसममास्फोटितरवं भृशम्। श्रुत्वा शैलगुहासुप्तैः सिंहैर्मुक्तो महास्वनः ॥०३-१४६-५७॥
सिंहनादभयत्रस्तैः कुञ्जरैरपि भारत। मुक्तो विरावः सुमहान्पर्वतो येन पूरितः ॥०३-१४६-५८॥
तं तु नादं ततः श्रुत्वा सुप्तो वानरपुङ्गवः। प्राजृम्भत महाकायो हनूमान्नाम वानरः ॥०३-१४६-५९॥
कदलीषण्डमध्यस्थो निद्रावशगतस्तदा। जृम्भमाणः सुविपुलं शक्रध्वजमिवोच्छ्रितम् ॥ आस्फोटयत लाङ्गूलमिन्द्राशनिसमस्वनम् ॥०३-१४६-६०॥
तस्य लाङ्गूलनिनदं पर्वतः स गुहामुखैः। उद्गारमिव गौर्नर्दमुत्ससर्ज समन्ततः ॥०३-१४६-६१॥
स लाङ्गूलरवस्तस्य मत्तवारणनिस्वनम्। अन्तर्धाय विचित्रेषु चचार गिरिसानुषु ॥०३-१४६-६२॥
स भीमसेनस्तं श्रुत्वा सम्प्रहृष्टतनूरुहः। शब्दप्रभवमन्विच्छंश्चचार कदलीवनम् ॥०३-१४६-६३॥
कदलीवनमध्यस्थमथ पीने शिलातले। स ददर्श महाबाहुर्वानराधिपतिं स्थितम् ॥०३-१४६-६४॥
विद्युत्सङ्घातदुष्प्रेक्ष्यं विद्युत्सङ्घातपिङ्गलम्। विद्युत्सङ्घातसदृशं विद्युत्सङ्घातचञ्चलम् ॥०३-१४६-६५॥
बाहुस्वस्तिकविन्यस्तपीनह्रस्वशिरोधरम्। स्कन्धभूयिष्ठकायत्वात्तनुमध्यकटीतटम् ॥०३-१४६-६६॥
किञ्चिच्चाभुग्नशीर्षेण दीर्घरोमाञ्चितेन च। लाङ्गूलेनोर्ध्वगतिना ध्वजेनेव विराजितम् ॥०३-१४६-६७॥
रक्तोष्ठं ताम्रजिह्वास्यं रक्तकर्णं चलद्भ्रुवम्। वदनं वृत्तदंष्ट्राग्रं रश्मिवन्तमिवोडुपम् ॥०३-१४६-६८॥
वदनाभ्यन्तरगतैः शुक्लभासैरलङ्कृतम्। केसरोत्करसंमिश्रमशोकानामिवोत्करम् ॥०३-१४६-६९॥
हिरण्मयीनां मध्यस्थं कदलीनां महाद्युतिम्। दीप्यमानं स्ववपुषा अर्चिष्मन्तमिवानलम् ॥०३-१४६-७०॥
निरीक्षन्तमवित्रस्तं लोचनैर्मधुपिङ्गलैः। तं वानरवरं वीरमतिकायं महाबलम् ॥०३-१४६-७१॥
अथोपसृत्य तरसा भीमो भीमपराक्रमः। सिंहनादं समकरोद्बोधयिष्यन्कपिं तदा ॥०३-१४६-७२॥
तेन शब्देन भीमस्य वित्रेसुर्मृगपक्षिणः। हनूमांश्च महासत्त्व ईषदुन्मील्य लोचने ॥ अवैक्षदथ सावज्ञं लोचनैर्मधुपिङ्गलैः ॥०३-१४६-७३॥
स्मितेनाभाष्य कौन्तेयं वानरो नरमब्रवीत्। किमर्थं सरुजस्तेऽहं सुखसुप्तः प्रबोधितः ॥०३-१४६-७४॥
ननु नाम त्वया कार्या दया भूतेषु जानता। वयं धर्मं न जानीमस्तिर्यग्योनिं समाश्रिताः ॥०३-१४६-७५॥
मनुष्या बुद्धिसम्पन्ना दयां कुर्वन्ति जन्तुषु। क्रूरेषु कर्मसु कथं देहवाक्चित्तदूषिषु ॥ धर्मघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥०३-१४६-७६॥
न त्वं धर्मं विजानासि वृद्धा नोपासितास्त्वया। अल्पबुद्धितया वन्यानुत्सादयसि यन्मृगान् ॥०३-१४६-७७॥
ब्रूहि कस्त्वं किमर्थं वा वनं त्वमिदमागतः। वर्जितं मानुषैर्भावैस्तथैव पुरुषैरपि ॥०३-१४६-७८॥
अतः परमगम्योऽयं पर्वतः सुदुरारुहः। विना सिद्धगतिं वीर गतिरत्र न विद्यते ॥०३-१४६-७९॥
कारुण्यात्सौहृदाच्चैव वारये त्वां महाबल। नातः परं त्वया शक्यं गन्तुमाश्वसिहि प्रभो ॥०३-१४६-८०॥
इमान्यमृतकल्पानि मूलानि च फलानि च। भक्षयित्वा निवर्तस्व ग्राह्यं यदि वचो मम ॥०३-१४६-८१॥