03.147
वैशम्पायन उवाच॥
एतच्छ्रुत्वा वचस्तस्य वानरेन्द्रस्य धीमतः। भीमसेनस्तदा वीरः प्रोवाचामित्रकर्शनः ॥०३-१४७-१॥
को भवान्किंनिमित्तं वा वानरं वपुराश्रितः। ब्राह्मणानन्तरो वर्णः क्षत्रियस्त्वानुपृच्छति ॥०३-१४७-२॥
कौरवः सोमवंशीयः कुन्त्या गर्भेण धारितः। पाण्डवो वायुतनयो भीमसेन इति श्रुतः ॥०३-१४७-३॥
स वाक्यं भीमसेनस्य स्मितेन प्रतिगृह्य तत्। हनूमान्वायुतनयो वायुपुत्रमभाषत ॥०३-१४७-४॥
वानरोऽहं न ते मार्गं प्रदास्यामि यथेप्सितम्। साधु गच्छ निवर्तस्व मा त्वं प्राप्स्यसि वैशसम् ॥०३-१४७-५॥
भीम उवाच॥
वैशसं वास्तु यद्वान्यन्न त्वा पृच्छामि वानर। प्रयच्छोत्तिष्ठ मार्गं मे मा त्वं प्राप्स्यसि वैशसम् ॥०३-१४७-६॥
हनूमानुवाच॥
नास्ति शक्तिर्ममोत्थातुं व्याधिना क्लेशितो ह्यहम्। यद्यवश्यं प्रयातव्यं लङ्घयित्वा प्रयाहि माम् ॥०३-१४७-७॥
भीम उवाच॥
निर्गुणः परमात्मेति देहं ते व्याप्य तिष्ठति। तमहं ज्ञानविज्ञेयं नावमन्ये न लङ्घये ॥०३-१४७-८॥
यद्यागमैर्न विन्देयं तमहं भूतभावनम्। क्रमेयं त्वां गिरिं चेमं हनूमानिव सागरम् ॥०३-१४७-९॥
हनूमानुवाच॥
क एष हनुमान्नाम सागरो येन लङ्घितः। पृच्छामि त्वा कुरुश्रेष्ठ कथ्यतां यदि शक्यते ॥०३-१४७-१०॥
भीम उवाच॥
भ्राता मम गुणश्लाघ्यो बुद्धिसत्त्वबलान्वितः। रामायणेऽतिविख्यातः शूरो वानरपुङ्गवः ॥०३-१४७-११॥
रामपत्नीकृते येन शतयोजनमायतः। सागरः प्लवगेन्द्रेण क्रमेणैकेन लङ्घितः ॥०३-१४७-१२॥
स मे भ्राता महावीर्यस्तुल्योऽहं तस्य तेजसा। बले पराक्रमे युद्धे शक्तोऽहं तव निग्रहे ॥०३-१४७-१३॥
उत्तिष्ठ देहि मे मार्गं पश्य वा मेऽद्य पौरुषम्। मच्छासनमकुर्वाणं मा त्वा नेष्ये यमक्षयम् ॥०३-१४७-१४॥
वैशम्पायन उवाच॥
विज्ञाय तं बलोन्मत्तं बाहुवीर्येण गर्वितम्। हृदयेनावहस्यैनं हनूमान्वाक्यमब्रवीत् ॥०३-१४७-१५॥
प्रसीद नास्ति मे शक्तिरुत्थातुं जरयानघ। ममानुकम्पया त्वेतत्पुच्छमुत्सार्य गम्यताम् ॥०३-१४७-१६॥
सावज्ञमथ वामेन स्मयञ्जग्राह पाणिना। न चाशकच्चालयितुं भीमः पुच्छं महाकपेः ॥०३-१४७-१७॥
उच्चिक्षेप पुनर्दोर्भ्यामिन्द्रायुधमिवोच्छ्रितम्। नोद्धर्तुमशकद्भीमो दोर्भ्यामपि महाबलः ॥०३-१४७-१८॥
उत्क्षिप्तभ्रूर्विवृत्ताक्षः संहतभ्रुकुटीमुखः। स्विन्नगात्रोऽभवद्भीमो न चोद्धर्तुं शशाक ह ॥०३-१४७-१९॥
यत्नवानपि तु श्रीमाँल्लाङ्गूलोद्धरणोद्धुतः। कपेः पार्श्वगतो भीमस्तस्थौ व्रीडादधोमुखः ॥०३-१४७-२०॥
प्रणिपत्य च कौन्तेयः प्राञ्जलिर्वाक्यमब्रवीत्। प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम ॥०३-१४७-२१॥
सिद्धो वा यदि वा देवो गन्धर्वो वाथ गुह्यकः। पृष्टः सन्कामया ब्रूहि कस्त्वं वानररूपधृक् ॥०३-१४७-२२॥
हनूमानुवाच॥
यत्ते मम परिज्ञाने कौतूहलमरिंदम। तत्सर्वमखिलेन त्वं शृणु पाण्डवनन्दन ॥०३-१४७-२३॥
अहं केसरिणः क्षेत्रे वायुना जगदायुषा। जातः कमलपत्राक्ष हनूमान्नाम वानरः ॥०३-१४७-२४॥
सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम्। सर्ववानरराजानौ सर्ववानरयूथपाः ॥०३-१४७-२५॥
उपतस्थुर्महावीर्या मम चामित्रकर्शन। सुग्रीवेणाभवत्प्रीतिरनिलस्याग्निना यथा ॥०३-१४७-२६॥
निकृतः स ततो भ्रात्रा कस्मिंश्चित्कारणान्तरे। ऋश्यमूके मया सार्धं सुग्रीवो न्यवसच्चिरम् ॥०३-१४७-२७॥
अथ दाशरथिर्वीरो रामो नाम महाबलः। विष्णुर्मानुषरूपेण चचार वसुधामिमाम् ॥०३-१४७-२८॥
स पितुः प्रियमन्विच्छन्सहभार्यः सहानुजः। सधनुर्धन्विनां श्रेष्ठो दण्डकारण्यमाश्रितः ॥०३-१४७-२९॥
तस्य भार्या जनस्थानाद्रावणेन हृता बलात्। वञ्चयित्वा महाबुद्धिं मृगरूपेण राघवम् ॥०३-१४७-३०॥
हृतदारः सह भ्रात्रा पत्नीं मार्गन्स राघवः। दृष्टवाञ्शैलशिखरे सुग्रीवं वानरर्षभम् ॥०३-१४७-३१॥
तेन तस्याभवत्सख्यं राघवस्य महात्मनः। स हत्वा वालिनं राज्ये सुग्रीवं प्रत्यपादयत् ॥ स हरीन्प्रेषयामास सीतायाः परिमार्गणे ॥०३-१४७-३२॥
ततो वानरकोटीभिर्यां वयं प्रस्थिता दिशम्। तत्र प्रवृत्तिः सीताया गृध्रेण प्रतिपादिता ॥०३-१४७-३३॥
ततोऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणः। शतयोजनविस्तीर्णमर्णवं सहसाप्लुतः ॥०३-१४७-३४॥
दृष्टा सा च मया देवी रावणस्य निवेशने। प्रत्यागतश्चापि पुनर्नाम तत्र प्रकाश्य वै ॥०३-१४७-३५॥
ततो रामेण वीरेण हत्वा तान्सर्वराक्षसान्। पुनः प्रत्याहृता भार्या नष्टा वेदश्रुतिर्यथा ॥०३-१४७-३६॥
ततः प्रतिष्ठिते रामे वीरोऽयं याचितो मया। यावद्रामकथा वीर भवेल्लोकेषु शत्रुहन् ॥ तावज्जीवेयमित्येवं तथास्त्विति च सोऽब्रवीत् ॥०३-१४७-३७॥
दश वर्षसहस्राणि दश वर्षशतानि च। राज्यं कारितवान्रामस्ततस्तु त्रिदिवं गतः ॥०३-१४७-३८॥
तदिहाप्सरसस्तात गन्धर्वाश्च सदानघ। तस्य वीरस्य चरितं गायन्त्यो रमयन्ति माम् ॥०३-१४७-३९॥
अयं च मार्गो मर्त्यानामगम्यः कुरुनन्दन। ततोऽहं रुद्धवान्मार्गं तवेमं देवसेवितम् ॥ धर्षयेद्वा शपेद्वापि मा कश्चिदिति भारत ॥०३-१४७-४०॥
दिव्यो देवपथो ह्येष नात्र गच्छन्ति मानुषाः। यदर्थमागतश्चासि तत्सरोऽभ्यर्ण एव हि ॥०३-१४७-४१॥