03.157
जनमेजय उवाच॥
पाण्डोः पुत्रा महात्मानः सर्वे दिव्यपराक्रमाः। कियन्तं कालमवसन्पर्वते गन्धमादने ॥०३-१५७-१॥
कानि चाभ्यवहार्याणि तत्र तेषां महात्मनाम्। वसतां लोकवीराणामासंस्तद्ब्रूहि सत्तम ॥०३-१५७-२॥
विस्तरेण च मे शंस भीमसेनपराक्रमम्। यद्यच्चक्रे महाबाहुस्तस्मिन्हैमवते गिरौ ॥ न खल्वासीत्पुनर्युद्धं तस्य यक्षैर्द्विजोत्तम ॥०३-१५७-३॥
कच्चित्समागमस्तेषामासीद्वैश्रवणेन च। तत्र ह्यायाति धनद आर्ष्टिषेणो यथाब्रवीत् ॥०३-१५७-४॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन। न हि मे शृण्वतस्तृप्तिरस्ति तेषां विचेष्टितम् ॥०३-१५७-५॥
वैशम्पायन उवाच॥
एतदात्महितं श्रुत्वा तस्याप्रतिमतेजसः। शासनं सततं चक्रुस्तथैव भरतर्षभाः ॥०३-१५७-६॥
भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च। शुद्धबाणहतानां च मृगाणां पिशितान्यपि ॥०३-१५७-७॥
मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च। एवं ते न्यवसंस्तत्र पाण्डवा भरतर्षभाः ॥०३-१५७-८॥
तथा निवसतां तेषां पञ्चमं वर्षमभ्यगात्। शृण्वतां लोमशोक्तानि वाक्यानि विविधानि च ॥०३-१५७-९॥
कृत्यकाल उपस्थास्य इति चोक्त्वा घटोत्कचः। राक्षसैः सहितः सर्वैः पूर्वमेव गतः प्रभो ॥०३-१५७-१०॥
आर्ष्टिषेणाश्रमे तेषां वसतां वै महात्मनाम्। अगच्छन्बहवो मासाः पश्यतां महदद्भुतम् ॥०३-१५७-११॥
तैस्तत्र रममाणैश्च विहरद्भिश्च पाण्डवैः। प्रीतिमन्तो महाभागा मुनयश्चारणास्तथा ॥०३-१५७-१२॥
आजग्मुः पाण्डवान्द्रष्टुं सिद्धात्मानो यतव्रताः। तैस्तैः सह कथाश्चक्रुर्दिव्या भरतसत्तमाः ॥०३-१५७-१३॥
ततः कतिपयाहस्य महाह्रदनिवासिनम्। ऋद्धिमन्तं महानागं सुपर्णः सहसाहरत् ॥०३-१५७-१४॥
प्राकम्पत महाशैलः प्रामृद्यन्त महाद्रुमाः। ददृशुः सर्वभूतानि पाण्डवाश्च तदद्भुतम् ॥०३-१५७-१५॥
ततः शैलोत्तमस्याग्रात्पाण्डवान्प्रति मारुतः। अवहत्सर्वमाल्यानि गन्धवन्ति शुभानि च ॥०३-१५७-१६॥
तत्र पुष्पाणि दिव्यानि सुहृद्भिः सह पाण्डवाः। ददृशुः पञ्च वर्णानि द्रौपदी च यशस्विनी ॥०३-१५७-१७॥
भीमसेनं ततः कृष्णा काले वचनमब्रवीत्। विविक्ते पर्वतोद्देशे सुखासीनं महाभुजम् ॥०३-१५७-१८॥
सुपर्णानिलवेगेन श्वसनेन महाबलात्। पञ्चवर्णानि पात्यन्ते पुष्पाणि भरतर्षभ ॥ प्रत्यक्षं सर्वभूतानां नदीमश्वरथां प्रति ॥०३-१५७-१९॥
खाण्डवे सत्यसन्धेन भ्रात्रा तव नरेश्वर। गन्धर्वोरगरक्षांसि वासवश्च निवारितः ॥ हता मायाविनश्चोग्रा धनुः प्राप्तं च गाण्डिवम् ॥०३-१५७-२०॥
तवापि सुमहत्तेजो महद्बाहुबलं च ते। अविषह्यमनाधृष्यं शतक्रतुबलोपमम् ॥०३-१५७-२१॥
त्वद्बाहुबलवेगेन त्रासिताः सर्वराक्षसाः। हित्वा शैलं प्रपद्यन्तां भीमसेन दिशो दश ॥०३-१५७-२२॥
ततः शैलोत्तमस्याग्रं चित्रमाल्यधरं शिवम्। व्यपेतभयसंमोहाः पश्यन्तु सुहृदस्तव ॥०३-१५७-२३॥
एवं प्रणिहितं भीम चिरात्प्रभृति मे मनः। द्रष्टुमिच्छामि शैलाग्रं त्वद्बाहुबलमाश्रिता ॥०३-१५७-२४॥
ततः क्षिप्तमिवात्मानं द्रौपद्या स परन्तपः। नामृष्यत महाबाहुः प्रहारमिव सद्गवः ॥०३-१५७-२५॥
सिंहर्षभगतिः श्रीमानुदारः कनकप्रभः। मनस्वी बलवान्दृप्तो मानी शूरश्च पाण्डवः ॥०३-१५७-२६॥
लोहिताक्षः पृथुव्यंसो मत्तवारणविक्रमः। सिंहदंष्ट्रो बृहत्स्कन्धः शालपोत इवोद्गतः ॥०३-१५७-२७॥
महात्मा चारुसर्वाङ्गः कम्बुग्रीवो महाभुजः। रुक्मपृष्ठं धनुः खड्गं तूणांश्चापि परामृशत् ॥०३-१५७-२८॥
केसरीव यथोत्सिक्तः प्रभिन्न इव वारणः। व्यपेतभयसंमोहः शैलमभ्यपतद्बली ॥०३-१५७-२९॥
तं मृगेन्द्रमिवायान्तं प्रभिन्नमिव वारणम्। ददृशुः सर्वभूतानि बाणखड्गधनुर्धरम् ॥०३-१५७-३०॥
द्रौपद्या वर्धयन्हर्षं गदामादाय पाण्डवः। व्यपेतभयसंमोहः शैलराजं समाविशत् ॥०३-१५७-३१॥
न ग्लानिर्न च कातर्यं न वैक्लव्यं न मत्सरः। कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः ॥०३-१५७-३२॥
तदेकायनमासाद्य विषमं भीमदर्शनम्। बहुतालोच्छ्रयं शृङ्गमारुरोह महाबलः ॥०३-१५७-३३॥
स किंनरमहानागमुनिगन्धर्वराक्षसान्। हर्षयन्पर्वतस्याग्रमाससाद महाबलः ॥०३-१५७-३४॥
तत्र वैश्रवणावासं ददर्श भरतर्षभः। काञ्चनैः स्फाटिकाकारैर्वेश्मभिः समलङ्कृतम् ॥०३-१५७-३५॥
मोदयन्सर्वभूतानि गन्धमादनसम्भवः। सर्वगन्धवहस्तत्र मारुतः सुसुखो ववौ ॥०३-१५७-३६॥
चित्रा विविधवर्णाभाश्चित्रमञ्जरिधारिणः। अचिन्त्या विविधास्तत्र द्रुमाः परमशोभनाः ॥०३-१५७-३७॥
रत्नजालपरिक्षिप्तं चित्रमाल्यधरं शिवम्। राक्षसाधिपतेः स्थानं ददर्श भरतर्षभः ॥०३-१५७-३८॥
गदाखड्गधनुष्पाणिः समभित्यक्तजीवितः। भीमसेनो महाबाहुस्तस्थौ गिरिरिवाचलः ॥०३-१५७-३९॥
ततः शङ्खमुपाध्मासीद्द्विषतां लोमहर्षणम्। ज्याघोषतलघोषं च कृत्वा भूतान्यमोहयत् ॥०३-१५७-४०॥
ततः संहृष्टरोमाणः शब्दं तमभिदुद्रुवुः। यक्षराक्षसगन्धर्वाः पाण्डवस्य समीपतः ॥०३-१५७-४१॥
गदापरिघनिस्त्रिंशशक्तिशूलपरश्वधाः। प्रगृहीता व्यरोचन्त यक्षराक्षसबाहुभिः ॥०३-१५७-४२॥
ततः प्रववृते युद्धं तेषां तस्य च भारत। तैः प्रयुक्तान्महाकायैः शक्तिशूलपरश्वधान् ॥ भल्लैर्भीमः प्रचिच्छेद भीमवेगतरैस्ततः ॥०३-१५७-४३॥
अन्तरिक्षचराणां च भूमिष्ठानां च गर्जताम्। शरैर्विव्याध गात्राणि राक्षसानां महाबलः ॥०३-१५७-४४॥
सा लोहितमहावृष्टिरभ्यवर्षन्महाबलम्। कायेभ्यः प्रच्युता धारा राक्षसानां समन्ततः ॥०३-१५७-४५॥
भीमबाहुबलोत्सृष्टैर्बहुधा यक्षरक्षसाम्। विनिकृत्तान्यदृश्यन्त शरीराणि शिरांसि च ॥०३-१५७-४६॥
प्रच्छाद्यमानं रक्षोभिः पाण्डवं प्रियदर्शनम्। ददृशुः सर्वभूतानि सूर्यमभ्रगणैरिव ॥०३-१५७-४७॥
स रश्मिभिरिवादित्यः शरैररिनिघातिभिः। सर्वानार्छन्महाबाहुर्बलवान्सत्यविक्रमः ॥०३-१५७-४८॥
अभितर्जयमानाश्च रुवन्तश्च महारवान्। न मोहं भीमसेनस्य ददृशुः सर्वराक्षसाः ॥०३-१५७-४९॥
ते शरैः क्षतसर्वाङ्गा भीमसेनभयार्दिताः। भीममार्तस्वरं चक्रुर्विप्रकीर्णमहायुधाः ॥०३-१५७-५०॥
उत्सृज्य ते गदाशूलानसिशक्तिपरश्वधान्। दक्षिणां दिशमाजग्मुस्त्रासिता दृढधन्वना ॥०३-१५७-५१॥
तत्र शूलगदापाणिर्व्यूढोरस्को महाभुजः। सखा वैश्रवणस्यासीन्मणिमान्नाम राक्षसः ॥०३-१५७-५२॥
अदर्शयदधीकारं पौरुषं च महाबलः। स तान्दृष्ट्वा परावृत्तान्स्मयमान इवाब्रवीत् ॥०३-१५७-५३॥
एकेन बहवः सङ्ख्ये मानुषेण पराजिताः। प्राप्य वैश्रवणावासं किं वक्ष्यथ धनेश्वरम् ॥०३-१५७-५४॥
एवमाभाष्य तान्सर्वान्न्यवर्तत स राक्षसः। शक्तिशूलगदापाणिरभ्यधावच्च पाण्डवम् ॥०३-१५७-५५॥
तमापतन्तं वेगेन प्रभिन्नमिव वारणम्। वत्सदन्तैस्त्रिभिः पार्श्वे भीमसेनः समर्पयत् ॥०३-१५७-५६॥
मणिमानपि सङ्क्रुद्धः प्रगृह्य महतीं गदाम्। प्राहिणोद्भीमसेनाय परिक्षिप्य महाबलः ॥०३-१५७-५७॥
विद्युद्रूपां महाघोरामाकाशे महतीं गदाम्। शरैर्बहुभिरभ्यर्छद्भीमसेनः शिलाशितैः ॥०३-१५७-५८॥
प्रत्यहन्यन्त ते सर्वे गदामासाद्य सायकाः। न वेगं धारयामासुर्गदावेगस्य वेगिताः ॥०३-१५७-५९॥
गदायुद्धसमाचारं बुध्यमानः स वीर्यवान्। व्यंसयामास तं तस्य प्रहारं भीमविक्रमः ॥०३-१५७-६०॥
ततः शक्तिं महाघोरां रुक्मदण्डामयस्मयीम्। तस्मिन्नेवान्तरे धीमान्प्रजहाराथ राक्षसः ॥०३-१५७-६१॥
सा भुजं भीमनिर्ह्रादा भित्त्वा भीमस्य दक्षिणम्। साग्निज्वाला महारौद्रा पपात सहसा भुवि ॥०३-१५७-६२॥
सोऽतिविद्धो महेष्वासः शक्त्यामितपराक्रमः। गदां जग्राह कौरव्यो गदायुद्धविशारदः ॥०३-१५७-६३॥
तां प्रगृह्योन्नदन्भीमः सर्वशैक्यायसीं गदाम्। तरसा सोऽभिदुद्राव मणिमन्तं महाबलम् ॥०३-१५७-६४॥
दीप्यमानं महाशूलं प्रगृह्य मणिमानपि। प्राहिणोद्भीमसेनाय वेगेन महता नदन् ॥०३-१५७-६५॥
भङ्क्त्वा शूलं गदाग्रेण गदायुद्धविशारदः। अभिदुद्राव तं तूर्णं गरुत्मानिव पन्नगम् ॥०३-१५७-६६॥
सोऽन्तरिक्षमभिप्लुत्य विधूय सहसा गदाम्। प्रचिक्षेप महाबाहुर्विनद्य रणमूर्धनि ॥०३-१५७-६७॥
सेन्द्राशनिरिवेन्द्रेण विसृष्टा वातरंहसा। हत्वा रक्षः क्षितिं प्राप्य कृत्येव निपपात ह ॥०३-१५७-६८॥
तं राक्षसं भीमबलं भीमसेनेन पातितम्। ददृशुः सर्वभूतानि सिंहेनेव गवां पतिम् ॥०३-१५७-६९॥
तं प्रेक्ष्य निहतं भूमौ हतशेषा निशाचराः। भीममार्तस्वरं कृत्वा जग्मुः प्राचीं दिशं प्रति ॥०३-१५७-७०॥