03.156
वैशम्पायन उवाच॥
युधिष्ठिरस्तमासाद्य तपसा दग्धकिल्बिषम्। अभ्यवादयत प्रीतः शिरसा नाम कीर्तयन् ॥०३-१५६-१॥
ततः कृष्णा च भीमश्च यमौ चापि यशस्विनौ। शिरोभिः प्राप्य राजर्षिं परिवार्योपतस्थिरे ॥०३-१५६-२॥
तथैव धौम्यो धर्मज्ञः पाण्डवानां पुरोहितः। यथान्यायमुपाक्रान्तस्तमृषिं संशितव्रतम् ॥०३-१५६-३॥
अन्वजानात्स धर्मज्ञो मुनिर्दिव्येन चक्षुषा। पाण्डोः पुत्रान्कुरुश्रेष्ठानास्यतामिति चाब्रवीत् ॥०३-१५६-४॥
कुरूणामृषभं प्राज्ञं पूजयित्वा महातपाः। सह भ्रातृभिरासीनं पर्यपृच्छदनामयम् ॥०३-१५६-५॥
नानृते कुरुषे भावं कच्चिद्धर्मे च वर्तसे। मतापित्रोश्च ते वृत्तिः कच्चित्पार्थ न सीदति ॥०३-१५६-६॥
कच्चित्ते गुरवः सर्वे वृद्धा वैद्याश्च पूजिताः। कच्चिन्न कुरुषे भावं पार्थ पापेषु कर्मसु ॥०३-१५६-७॥
सुकृतं प्रतिकर्तुं च कच्चिद्धातुं च दुष्कृतम्। यथान्यायं कुरुश्रेष्ठ जानासि न च कत्थसे ॥०३-१५६-८॥
यथार्हं मानिताः कच्चित्त्वया नन्दन्ति साधवः। वनेष्वपि वसन्कच्चिद्धर्ममेवानुवर्तसे ॥०३-१५६-९॥
कच्चिद्धौम्यस्त्वदाचारैर्न पार्थ परितप्यते। दानधर्मतपःशौचैरार्जवेन तितिक्षया ॥०३-१५६-१०॥
पितृपैतामहं वृत्तं कच्चित्पार्थानुवर्तसे। कच्चिद्राजर्षियातेन पथा गच्छसि पाण्डव ॥०३-१५६-११॥
स्वे स्वे किल कुले जाते पुत्रे नप्तरि वा पुनः। पितरः पितृलोकस्थाः शोचन्ति च हसन्ति च ॥०३-१५६-१२॥
किं न्वस्य दुष्कृतेऽस्माभिः सम्प्राप्तव्यं भविष्यति। किं चास्य सुकृतेऽस्माभिः प्राप्तव्यमिति शोभनम् ॥०३-१५६-१३॥
पिता माता तथैवाग्निर्गुरुरात्मा च पञ्चमः। यस्यैते पूजिताः पार्थ तस्य लोकावुभौ जितौ ॥०३-१५६-१४॥
अब्भक्षा वायुभक्षाश्च प्लवमाना विहायसा। जुषन्ते पर्वतश्रेष्ठमृषयः पर्वसन्धिषु ॥०३-१५६-१५॥
कामिनः सह कान्ताभिः परस्परमनुव्रताः। दृश्यन्ते शैलशृङ्गस्थास्तथा किम्पुरुषा नृप ॥०३-१५६-१६॥
अरजांसि च वासांसि वसानाः कौशिकानि च। दृश्यन्ते बहवः पार्थ गन्धर्वाप्सरसां गणाः ॥०३-१५६-१७॥
विद्याधरगणाश्चैव स्रग्विणः प्रियदर्शनाः। महोरगगणाश्चैव सुपर्णाश्चोरगादयः ॥०३-१५६-१८॥
अस्य चोपरि शैलस्य श्रूयते पर्वसन्धिषु। भेरीपणवशङ्खानां मृदङ्गानां च निस्वनः ॥०३-१५६-१९॥
इहस्थैरेव तत्सर्वं श्रोतव्यं भरतर्षभाः। न कार्या वः कथञ्चित्स्यात्तत्राभिसरणे मतिः ॥०३-१५६-२०॥
न चाप्यतः परं शक्यं गन्तुं भरतसत्तमाः। विहारो ह्यत्र देवानाममानुषगतिस्तु सा ॥०३-१५६-२१॥
ईषच्चपलकर्माणं मनुष्यमिह भारत। द्विषन्ति सर्वभूतानि ताडयन्ति च राक्षसाः ॥०३-१५६-२२॥
अभ्यतिक्रम्य शिखरं शैलस्यास्य युधिष्ठिर। गतिः परमसिद्धानां देवर्षीणां प्रकाशते ॥०३-१५६-२३॥
चापलादिह गच्छन्तं पार्थ यानमतः परम्। अयःशूलादिभिर्घ्नन्ति राक्षसाः शत्रुसूदन ॥०३-१५६-२४॥
अप्सरोभिः परिवृतः समृद्ध्या नरवाहनः। इह वैश्रवणस्तात पर्वसन्धिषु दृश्यते ॥०३-१५६-२५॥
शिखरे तं समासीनमधिपं सर्वरक्षसाम्। प्रेक्षन्ते सर्वभूतानि भानुमन्तमिवोदितम् ॥०३-१५६-२६॥
देवदानवसिद्धानां तथा वैश्रवणस्य च। गिरेः शिखरमुद्यानमिदं भरतसत्तम ॥०३-१५६-२७॥
उपासीनस्य धनदं तुम्बुरोः पर्वसन्धिषु। गीतसामस्वनस्तात श्रूयते गन्धमादने ॥०३-१५६-२८॥
एतदेवंविधं चित्रमिह तात युधिष्ठिर। प्रेक्षन्ते सर्वभूतानि बहुशः पर्वसन्धिषु ॥०३-१५६-२९॥
भुञ्जानाः सर्वभोज्यानि रसवन्ति फलानि च। वसध्वं पाण्डवश्रेष्ठा यावदर्जुनदर्शनम् ॥०३-१५६-३०॥
न तात चपलैर्भाव्यमिह प्राप्तैः कथञ्चन। उषित्वेह यथाकामं यथाश्रद्धं विहृत्य च ॥ ततः शस्त्रभृतां श्रेष्ठ पृथिवीं पालयिष्यसि ॥०३-१५६-३१॥