Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.158
वैशम्पायन उवाच॥
श्रुत्वा बहुविधैः शब्दैर्नाद्यमाना गिरेर्गुहाः। अजातशत्रुः कौन्तेयो माद्रीपुत्रावुभावपि ॥०३-१५८-१॥
धौम्यः कृष्णा च विप्राश्च सर्वे च सुहृदस्तथा। भीमसेनमपश्यन्तः सर्वे विमनसोऽभवन् ॥०३-१५८-२॥
द्रौपदीमार्ष्टिषेणाय प्रदाय तु महारथाः। सहिताः सायुधाः शूराः शैलमारुरुहुस्तदा ॥०३-१५८-३॥
ततः सम्प्राप्य शैलाग्रं वीक्षमाणा महारथाः। ददृशुस्ते महेष्वासा भीमसेनमरिंदमम् ॥०३-१५८-४॥
स्फुरतश्च महाकायान्गतसत्त्वांश्च राक्षसान्। महाबलान्महाघोरान्भीमसेनेन पातितान् ॥०३-१५८-५॥
शुशुभे स महाबाहुर्गदाखड्गधनुर्धरः। निहत्य समरे सर्वान्दानवान्मघवानिव ॥०३-१५८-६॥
ततस्ते समतिक्रम्य परिष्वज्य वृकोदरम्। तत्रोपविविशुः पार्थाः प्राप्ता गतिमनुत्तमाम् ॥०३-१५८-७॥
तैश्चतुर्भिर्महेष्वासैर्गिरिशृङ्गमशोभत। लोकपालैर्महाभागैर्दिवं देववरैरिव ॥०३-१५८-८॥
कुबेरसदनं दृष्ट्वा राक्षसांश्च निपातितान्। भ्राता भ्रातरमासीनमभ्यभाषत पाण्डवम् ॥०३-१५८-९॥
साहसाद्यदि वा मोहाद्भीम पापमिदं कृतम्। नैतत्ते सदृशं वीर मुनेरिव मृषावचः ॥०३-१५८-१०॥
राजद्विष्टं न कर्तव्यमिति धर्मविदो विदुः। त्रिदशानामिदं द्विष्टं भीमसेन त्वया कृतम् ॥०३-१५८-११॥
अर्थधर्मावनादृत्य यः पापे कुरुते मनः। कर्मणां पार्थ पापानां स फलं विन्दते ध्रुवम् ॥ पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम् ॥०३-१५८-१२॥
एवमुक्त्वा स धर्मात्मा भ्राता भ्रातरमच्युतम्। अर्थतत्त्वविभागज्ञः कुन्तीपुत्रो युधिष्ठिरः ॥ विरराम महातेजास्तमेवार्थं विचिन्तयन् ॥०३-१५८-१३॥
ततस्तु हतशिष्टा ये भीमसेनेन राक्षसाः। सहिताः प्रत्यपद्यन्त कुबेरसदनं प्रति ॥०३-१५८-१४॥
ते जवेन महावेगाः प्राप्य वैश्रवणालयम्। भीममार्तस्वरं चक्रुर्भीमसेनभयार्दिताः ॥०३-१५८-१५॥
न्यस्तशस्त्रायुधाः श्रान्ताः शोणिताक्तपरिच्छदाः। प्रकीर्णमूर्धजा राजन्यक्षाधिपतिमब्रुवन् ॥०३-१५८-१६॥
गदापरिघनिस्त्रिंशतोमरप्रासयोधिनः। राक्षसा निहताः सर्वे तव देव पुरःसराः ॥०३-१५८-१७॥
प्रमृद्य तरसा शैलं मानुषेण धनेश्वर। एकेन सहिताः सङ्ख्ये हताः क्रोधवशा गणाः ॥०३-१५८-१८॥
प्रवरा रक्षसेन्द्राणां यक्षाणां च धनाधिप। शेरते निहता देव गतसत्त्वाः परासवः ॥०३-१५८-१९॥
लब्धः शैलो वयं मुक्ता मणिमांस्ते सखा हतः। मानुषेण कृतं कर्म विधत्स्व यदनन्तरम् ॥०३-१५८-२०॥
स तच्छ्रुत्वा तु सङ्क्रुद्धः सर्वयक्षगणाधिपः। कोपसंरक्तनयनः कथमित्यब्रवीद्वचः ॥०३-१५८-२१॥
द्वितीयमपराध्यन्तं भीमं श्रुत्वा धनेश्वरः। चुक्रोध यक्षाधिपतिर्युज्यतामिति चाब्रवीत् ॥०३-१५८-२२॥
अथाभ्रघनसङ्काशं गिरिकूटमिवोच्छ्रितम्। हयैः संयोजयामासुर्गान्धर्वैरुत्तमं रथम् ॥०३-१५८-२३॥
तस्य सर्वगुणोपेता विमलाक्षा हयोत्तमाः। तेजोबलजवोपेता नानारत्नविभूषिताः ॥०३-१५८-२४॥
शोभमाना रथे युक्तास्तरिष्यन्त इवाशुगाः। हर्षयामासुरन्योन्यमिङ्गितैर्विजयावहैः ॥०३-१५८-२५॥
स तमास्थाय भगवान्राजराजो महारथम्। प्रययौ देवगन्धर्वैः स्तूयमानो महाद्युतिः ॥०३-१५८-२६॥
तं प्रयान्तं महात्मानं सर्वयक्षधनाधिपम्। रक्ताक्षा हेमसङ्काशा महाकाया महाबलाः ॥०३-१५८-२७॥
सायुधा बद्धनिस्त्रिंशा यक्षा दशशतायुताः। जवेन महता वीराः परिवार्योपतस्थिरे ॥०३-१५८-२८॥
तं महान्तमुपायान्तं धनेश्वरमुपान्तिके। ददृशुर्हृष्टरोमाणः पाण्डवाः प्रियदर्शनम् ॥०३-१५८-२९॥
कुबेरस्तु महासत्त्वान्पाण्डोः पुत्रान्महारथान्। आत्तकार्मुकनिस्त्रिंशान्दृष्ट्वा प्रीतोऽभवत्तदा ॥०३-१५८-३०॥
ते पक्षिण इवोत्पत्य गिरेः शृङ्गं महाजवाः। तस्थुस्तेषां समभ्याशे धनेश्वरपुरःसराः ॥०३-१५८-३१॥
ततस्तं हृष्टमनसं पाण्डवान्प्रति भारत। समीक्ष्य यक्षगन्धर्वा निर्विकारा व्यवस्थिताः ॥०३-१५८-३२॥
पाण्डवाश्च महात्मानः प्रणम्य धनदं प्रभुम्। नकुलः सहदेवश्च धर्मपुत्रश्च धर्मवित् ॥०३-१५८-३३॥
अपराद्धमिवात्मानं मन्यमाना महारथाः। तस्थुः प्राञ्जलयः सर्वे परिवार्य धनेश्वरम् ॥०३-१५८-३४॥
शय्यासनवरं श्रीमत्पुष्पकं विश्वकर्मणा। विहितं चित्रपर्यन्तमातिष्ठत धनाधिपः ॥०३-१५८-३५॥
तमासीनं महाकायाः शङ्कुकर्णा महाजवाः। उपोपविविशुर्यक्षा राक्षसाश्च सहस्रशः ॥०३-१५८-३६॥
शतशश्चापि गन्धर्वास्तथैवाप्सरसां गणाः। परिवार्योपतिष्ठन्त यथा देवाः शतक्रतुम् ॥०३-१५८-३७॥
काञ्चनीं शिरसा बिभ्रद्भीमसेनः स्रजं शुभाम्। बाणखड्गधनुष्पाणिरुदैक्षत धनाधिपम् ॥०३-१५८-३८॥
न भीर्भीमस्य न ग्लानिर्विक्षतस्यापि राक्षसैः। आसीत्तस्यामवस्थायां कुबेरमपि पश्यतः ॥०३-१५८-३९॥
आददानं शितान्बाणान्योद्धुकाममवस्थितम्। दृष्ट्वा भीमं धर्मसुतमब्रवीन्नरवाहनः ॥०३-१५८-४०॥
विदुस्त्वां सर्वभूतानि पार्थ भूतहिते रतम्। निर्भयश्चापि शैलाग्रे वस त्वं सह बन्धुभिः ॥०३-१५८-४१॥
न च मन्युस्त्वया कार्यो भीमसेनस्य पाण्डव। कालेनैते हताः पूर्वं निमित्तमनुजस्तव ॥०३-१५८-४२॥
व्रीडा चात्र न कर्तव्या साहसं यदिदं कृतम्। दृष्टश्चापि सुरैः पूर्वं विनाशो यक्षरक्षसाम् ॥०३-१५८-४३॥
न भीमसेने कोपो मे प्रीतोऽस्मि भरतर्षभ। कर्मणानेन भीमस्य मम तुष्टिरभूत्पुरा ॥०३-१५८-४४॥
एवमुक्त्वा तु राजानं भीमसेनमभाषत। नैतन्मनसि मे तात वर्तते कुरुसत्तम ॥ यदिदं साहसं भीम कृष्णार्थे कृतवानसि ॥०३-१५८-४५॥
मामनादृत्य देवांश्च विनाशं यक्षरक्षसाम्। स्वबाहुबलमाश्रित्य तेनाहं प्रीतिमांस्त्वयि ॥ शापादस्मि विनिर्मुक्तो घोरादद्य वृकोदर ॥०३-१५८-४६॥
अहं पूर्वमगस्त्येन क्रुद्धेन परमर्षिणा। शप्तोऽपराधे कस्मिंश्चित्तस्यैषा निष्कृतिः कृता ॥०३-१५८-४७॥
दृष्टो हि मम सङ्क्लेशः पुरा पाण्डवनन्दन। न तवात्रापराधोऽस्ति कथञ्चिदपि शत्रुहन् ॥०३-१५८-४८॥
युधिष्ठिर उवाच॥
कथं शप्तोऽसि भगवन्नगस्त्येन महात्मना। श्रोतुमिच्छाम्यहं देव तवैतच्छापकारणम् ॥०३-१५८-४९॥
इदं चाश्चर्यभूतं मे यत्क्रोधात्तस्य धीमतः। तदैव त्वं न निर्दग्धः सबलः सपदानुगः ॥०३-१५८-५०॥
वैश्रवण उवाच॥
देवतानामभून्मन्त्रः कुशवत्यां नरेश्वर। वृतस्तत्राहमगमं महापद्मशतैस्त्रिभिः ॥ यक्षाणां घोररूपाणां विविधायुधधारिणाम् ॥०३-१५८-५१॥
अध्वन्यहमथापश्यमगस्त्यमृषिसत्तमम्। उग्रं तपस्तपस्यन्तं यमुनातीरमाश्रितम् ॥ नानापक्षिगणाकीर्णं पुष्पितद्रुमशोभितम् ॥०३-१५८-५२॥
तमूर्ध्वबाहुं दृष्ट्वा तु सूर्यस्याभिमुखं स्थितम्। तेजोराशिं दीप्यमानं हुताशनमिवैधितम् ॥०३-१५८-५३॥
राक्षसाधिपतिः श्रीमान्मणिमान्नाम मे सखा। मौर्ख्यादज्ञानभावाच्च दर्पान्मोहाच्च भारत ॥ न्यष्ठीवदाकाशगतो महर्षेस्तस्य मूर्धनि ॥०३-१५८-५४॥
स कोपान्मामुवाचेदं दिशः सर्वा दहन्निव। मामवज्ञाय दुष्टात्मा यस्मादेष सखा तव ॥०३-१५८-५५॥
धर्षणां कृतवानेतां पश्यतस्ते धनेश्वर। तस्मात्सहैभिः सैन्यैस्ते वधं प्राप्स्यति मानुषात् ॥०३-१५८-५६॥
त्वं चाप्येभिर्हतैः सैन्यैः क्लेशं प्राप्स्यसि दुर्मते। तमेव मानुषं दृष्ट्वा किल्बिषाद्विप्रमोक्ष्यसे ॥०३-१५८-५७॥
सैन्यानां तु तवैतेषां पुत्रपौत्रबलान्वितम्। न शापं प्राप्स्यते घोरं गच्छ तेऽऽज्ञां करिष्यति ॥०३-१५८-५८॥
एष शापो मया प्राप्तः प्राक्तस्मादृषिसत्तमात्। स भीमेन महाराज भ्रात्रा तव विमोक्षितः ॥०३-१५८-५९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.