Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.159
वैश्रवण उवाच॥
युधिष्ठिर धृतिर्दाक्ष्यं देशकालौ पराक्रमः। लोकतन्त्रविधानानामेष पञ्चविधो विधिः ॥०३-१५९-१॥
धृतिमन्तश्च दक्षाश्च स्वे स्वे कर्मणि भारत। पराक्रमविधानज्ञा नराः कृतयुगेऽभवन् ॥०३-१५९-२॥
धृतिमान्देशकालज्ञः सर्वधर्मविधानवित्। क्षत्रियः क्षत्रियश्रेष्ठ पृथिवीमनुशास्ति वै ॥०३-१५९-३॥
य एवं वर्तते पार्थ पुरुषः सर्वकर्मसु। स लोके लभते वीर यशः प्रेत्य च सद्गतिम् ॥०३-१५९-४॥
देशकालान्तरप्रेप्सुः कृत्वा शक्रः पराक्रमम्। सम्प्राप्तस्त्रिदिवे राज्यं वृत्रहा वसुभिः सह ॥०३-१५९-५॥
पापात्मा पापबुद्धिर्यः पापमेवानुवर्तते। कर्मणामविभागज्ञः प्रेत्य चेह च नश्यति ॥०३-१५९-६॥
अकालज्ञः सुदुर्मेधाः कार्याणामविशेषवित्। वृथाचारसमारम्भः प्रेत्य चेह च नश्यति ॥०३-१५९-७॥
साहसे वर्तमानानां निकृतीनां दुरात्मनाम्। सर्वसामर्थ्यलिप्सूनां पापो भवति निश्चयः ॥०३-१५९-८॥
अधर्मज्ञोऽवलिप्तश्च बालबुद्धिरमर्षणः। निर्भयो भीमसेनोऽयं तं शाधि पुरुषर्षभ ॥०३-१५९-९॥
आर्ष्टिषेणस्य राजर्षेः प्राप्य भूयस्त्वमाश्रमम्। तामिस्रं प्रथमं पक्षं वीतशोकभयो वस ॥०३-१५९-१०॥
अलकाः सह गन्धर्वैर्यक्षैश्च सह राक्षसैः। मन्नियुक्ता मनुष्येन्द्र सर्वे च गिरिवासिनः ॥ रक्षन्तु त्वा महाबाहो सहितं द्विजसत्तमैः ॥०३-१५९-११॥
साहसेषु च सन्तिष्ठन्निह शैले वृकोदरः। वार्यतां साध्वयं राजंस्त्वया धर्मभृतां वर ॥०३-१५९-१२॥
इतः परं च राजेन्द्र द्रक्ष्यन्ति वनगोचराः। उपस्थास्यन्ति च सदा रक्षिष्यन्ति च सर्वशः ॥०३-१५९-१३॥
तथैव चान्नपानानि स्वादूनि च बहूनि च। उपस्थास्यन्ति वो गृह्य मत्प्रेष्याः पुरुषर्षभ ॥०३-१५९-१४॥
यथा जिष्णुर्महेन्द्रस्य यथा वायोर्वृकोदरः। धर्मस्य त्वं यथा तात योगोत्पन्नो निजः सुतः ॥०३-१५९-१५॥
आत्मजावात्मसम्पन्नौ यमौ चोभौ यथाश्विनोः। रक्ष्यास्तद्वन्ममापीह यूयं सर्वे युधिष्ठिर ॥०३-१५९-१६॥
अर्थतत्त्वविभागज्ञः सर्वधर्मविशेषवित्। भीमसेनादवरजः फल्गुनः कुशली दिवि ॥०३-१५९-१७॥
याः काश्चन मता लोकेष्वग्र्याः परमसम्पदः। जन्मप्रभृति ताः सर्वाः स्थितास्तात धनञ्जये ॥०३-१५९-१८॥
दमो दानं बलं बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम्। एतान्यपि महासत्त्वे स्थितान्यमिततेजसि ॥०३-१५९-१९॥
न मोहात्कुरुते जिष्णुः कर्म पाण्डव गर्हितम्। न पार्थस्य मृषोक्तानि कथयन्ति नरा नृषु ॥०३-१५९-२०॥
स देवपितृगन्धर्वैः कुरूणां कीर्तिवर्धनः। मानितः कुरुतेऽस्त्राणि शक्रसद्मनि भारत ॥०३-१५९-२१॥
योऽसौ सर्वान्महीपालान्धर्मेण वशमानयत्। स शन्तनुर्महातेजाः पितुस्तव पितामहः ॥ प्रीयते पार्थ पार्थेन दिवि गाण्डीवधन्वना ॥०३-१५९-२२॥
सम्यक्चासौ महावीर्यः कुलधुर्य इव स्थितः। पितॄन्देवांस्तथा विप्रान्पूजयित्वा महायशाः ॥ सप्त मुख्यान्महामेधानाहरद्यमुनां प्रति ॥०३-१५९-२३॥
अधिराजः स राजंस्त्वां शन्तनुः प्रपितामहः। स्वर्गजिच्छक्रलोकस्थः कुशलं परिपृच्छति ॥०३-१५९-२४॥
वैशम्पायन उवाच॥
ततः शक्तिं गदां खड्गं धनुश्च भरतर्षभ। प्राध्वं कृत्वा नमश्चक्रे कुबेराय वृकोदरः ॥०३-१५९-२५॥
ततोऽब्रवीद्धनाध्यक्षः शरण्यः शरणागतम्। मानहा भव शत्रूणां सुहृदां नन्दिवर्धनः ॥०३-१५९-२६॥
स्वेषु वेश्मसु रम्येषु वसतामित्रतापनाः। कामानुपहरिष्यन्ति यक्षा वो भरतर्षभाः ॥०३-१५९-२७॥
शीघ्रमेव गुडाकेशः कृतास्त्रः पुरुषर्षभः। साक्षान्मघवता सृष्टः सम्प्राप्स्यति धनञ्जयः ॥०३-१५९-२८॥
एवमुत्तमकर्माणमनुशिष्य युधिष्ठिरम्। अस्तं गिरिवरश्रेष्ठं प्रययौ गुह्यकाधिपः ॥०३-१५९-२९॥
तं परिस्तोमसङ्कीर्णैर्नानारत्नविभूषितैः। यानैरनुययुर्यक्षा राक्षसाश्च सहस्रशः ॥०३-१५९-३०॥
पक्षिणामिव निर्घोषः कुबेरसदनं प्रति। बभूव परमाश्वानामैरावतपथे यताम् ॥०३-१५९-३१॥
ते जग्मुस्तूर्णमाकाशं धनाधिपतिवाजिनः। प्रकर्षन्त इवाभ्राणि पिबन्त इव मारुतम् ॥०३-१५९-३२॥
ततस्तानि शरीराणि गतसत्त्वानि रक्षसाम्। अपाकृष्यन्त शैलाग्राद्धनाधिपतिशासनात् ॥०३-१५९-३३॥
तेषां हि शापकालोऽसौ कृतोऽगस्त्येन धीमता। समरे निहतास्तस्मात्सर्वे मणिमता सह ॥०३-१५९-३४॥
पाण्डवास्तु महात्मानस्तेषु वेश्मसु तां क्षपाम्। सुखमूषुर्गतोद्वेगाः पूजिताः सर्वराक्षसैः ॥०३-१५९-३५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.