03.160
वैशम्पायन उवाच॥
ततः सूर्योदये धौम्यः कृत्वाह्निकमरिंदम। आर्ष्टिषेणेन सहितः पाण्डवानभ्यवर्तत ॥०३-१६०-१॥
तेऽभिवाद्यार्ष्टिषेणस्य पादौ धौम्यस्य चैव ह। ततः प्राञ्जलयः सर्वे ब्राह्मणांस्तानपूजयन् ॥०३-१६०-२॥
ततो युधिष्ठिरं धौम्यो गृहीत्वा दक्षिणे करे। प्राचीं दिशमभिप्रेक्ष्य महर्षिरिदमब्रवीत् ॥०३-१६०-३॥
असौ सागरपर्यन्तां भूमिमावृत्य तिष्ठति। शैलराजो महाराज मन्दरोऽभिविराजते ॥०३-१६०-४॥
इन्द्रवैश्रवणावेतां दिशं पाण्डव रक्षतः। पर्वतैश्च वनान्तैश्च काननैश्चोपशोभिताम् ॥०३-१६०-५॥
एतदाहुर्महेन्द्रस्य राज्ञो वैश्रवणस्य च। ऋषयः सर्वधर्मज्ञाः सद्म तात मनीषिणः ॥०३-१६०-६॥
अतश्चोद्यन्तमादित्यमुपतिष्ठन्ति वै प्रजाः। ऋषयश्चापि धर्मज्ञाः सिद्धाः साध्याश्च देवताः ॥०३-१६०-७॥
यमस्तु राजा धर्मात्मा सर्वप्राणभृतां प्रभुः। प्रेतसत्त्वगतीमेतां दक्षिणामाश्रितो दिशम् ॥०३-१६०-८॥
एतत्संयमनं पुण्यमतीवाद्भुतदर्शनम्। प्रेतराजस्य भवनमृद्ध्या परमया युतम् ॥०३-१६०-९॥
यं प्राप्य सविता राजन्सत्येन प्रतितिष्ठति। अस्तं पर्वतराजानमेतमाहुर्मनीषिणः ॥०३-१६०-१०॥
एतं पर्वतराजानं समुद्रं च महोदधिम्। आवसन्वरुणो राजा भूतानि परिरक्षति ॥०३-१६०-११॥
उदीचीं दीपयन्नेष दिशं तिष्ठति कीर्तिमान्। महामेरुर्महाभाग शिवो ब्रह्मविदां गतिः ॥०३-१६०-१२॥
यस्मिन्ब्रह्मसदश्चैव तिष्ठते च प्रजापतिः। भूतात्मा विसृजन्सर्वं यत्किञ्चिज्जङ्गमागमम् ॥०३-१६०-१३॥
यानाहुर्ब्रह्मणः पुत्रान्मानसान्दक्षसप्तमान्। तेषामपि महामेरुः स्थानं शिवमनामयम् ॥०३-१६०-१४॥
अत्रैव प्रतितिष्ठन्ति पुनरत्रोदयन्ति च। सप्त देवर्षयस्तात वसिष्ठप्रमुखाः सदा ॥०३-१६०-१५॥
देशं विरजसं पश्य मेरोः शिखरमुत्तमम्। यत्रात्मतृप्तैरध्यास्ते देवैः सह पितामहः ॥०३-१६०-१६॥
यमाहुः सर्वभूतानां प्रकृतेः प्रकृतिं ध्रुवम्। अनादिनिधनं देवं प्रभुं नारायणं परम् ॥०३-१६०-१७॥
ब्रह्मणः सदनात्तस्य परं स्थानं प्रकाशते। देवाश्च यत्नात्पश्यन्ति दिव्यं तेजोमयं शिवम् ॥०३-१६०-१८॥
अत्यर्कानलदीप्तं तत्स्थानं विष्णोर्महात्मनः। स्वयैव प्रभया राजन्दुष्प्रेक्ष्यं देवदानवैः ॥०३-१६०-१९॥
तद्वै ज्योतींषि सर्वाणि प्राप्य भासन्ति नोऽपि च। स्वयं विभुरदीनात्मा तत्र ह्यभिविराजते ॥०३-१६०-२०॥
यतयस्तत्र गच्छन्ति भक्त्या नारायणं हरिम्। परेण तपसा युक्ता भाविताः कर्मभिः शुभैः ॥०३-१६०-२१॥
योगसिद्धा महात्मानस्तमोमोहविवर्जिताः। तत्र गत्वा पुनर्नेमं लोकमायान्ति भारत ॥०३-१६०-२२॥
स्थानमेतन्महाभाग ध्रुवमक्षयमव्ययम्। ईश्वरस्य सदा ह्येतत्प्रणमात्र युधिष्ठिर ॥०३-१६०-२३॥
एतं ज्योतींषि सर्वाणि प्रकर्षन्भगवानपि। कुरुते वितमस्कर्मा आदित्योऽभिप्रदक्षिणम् ॥०३-१६०-२४॥
अस्तं प्राप्य ततः सन्ध्यामतिक्रम्य दिवाकरः। उदीचीं भजते काष्ठां दिशमेष विभावसुः ॥०३-१६०-२५॥
स मेरुमनुवृत्तः सन्पुनर्गच्छति पाण्डव। प्राङ्मुखः सविता देवः सर्वभूतहिते रतः ॥०३-१६०-२६॥
स मासं विभजन्कालं बहुधा पर्वसन्धिषु। तथैव भगवान्सोमो नक्षत्रैः सह गच्छति ॥०३-१६०-२७॥
एवमेष परिक्रम्य महामेरुमतन्द्रितः। भावयन्सर्वभूतानि पुनर्गच्छति मन्दरम् ॥०३-१६०-२८॥
तथा तमिस्रहा देवो मयूखैर्भावयञ्जगत्। मार्गमेतदसम्बाधमादित्यः परिवर्तते ॥०३-१६०-२९॥
सिसृक्षुः शिशिराण्येष दक्षिणां भजते दिशम्। ततः सर्वाणि भूतानि कालः शिशिरमृच्छति ॥०३-१६०-३०॥
स्थावराणां च भूतानां जङ्गमानां च तेजसा। तेजांसि समुपादत्ते निवृत्तः सन्विभावसुः ॥०३-१६०-३१॥
ततः स्वेदः क्लमस्तन्द्री ग्लानिश्च भजते नरान्। प्राणिभिः सततं स्वप्नो ह्यभीक्ष्णं च निषेव्यते ॥०३-१६०-३२॥
एवमेतदनिर्देश्यं मार्गमावृत्य भानुमान्। पुनः सृजति वर्षाणि भगवान्भावयन्प्रजाः ॥०३-१६०-३३॥
वृष्टिमारुतसन्तापैः सुखैः स्थावरजङ्गमान्। वर्धयन्सुमहातेजाः पुनः प्रतिनिवर्तते ॥०३-१६०-३४॥
एवमेष चरन्पार्थ कालचक्रमतन्द्रितः। प्रकर्षन्सर्वभूतानि सविता परिवर्तते ॥०३-१६०-३५॥
सन्तता गतिरेतस्य नैष तिष्ठति पाण्डव। आदायैव तु भूतानां तेजो विसृजते पुनः ॥०३-१६०-३६॥
विभजन्सर्वभूतानामायुः कर्म च भारत। अहोरात्रान्कलाः काष्ठाः सृजत्येष सदा विभुः ॥०३-१६०-३७॥