03.161
वैशम्पायन उवाच॥
तस्मिन्नगेन्द्रे वसतां तु तेषां; महात्मनां सद्व्रतमास्थितानाम्। रतिः प्रमोदश्च बभूव तेषा; माकाङ्क्षतां दर्शनमर्जुनस्य ॥०३-१६१-१॥
तान्वीर्ययुक्तान्सुविशुद्धसत्त्वां; स्तेजस्विनः सत्यधृतिप्रधानान्। सम्प्रीयमाणा बहवोऽभिजग्मु; र्गन्धर्वसङ्घाश्च महर्षयश्च ॥०३-१६१-२॥
तं पादपैः पुष्पधरैरुपेतं; नगोत्तमं प्राप्य महारथानाम्। मनःप्रसादः परमो बभूव; यथा दिवं प्राप्य मरुद्गणानाम् ॥०३-१६१-३॥
मयूरहंसस्वननादितानि; पुष्पोपकीर्णानि महाचलस्य। शृङ्गाणि सानूनि च पश्यमाना; गिरेः परं हर्षमवाप्य तस्थुः ॥०३-१६१-४॥
साक्षात्कुबेरेण कृताश्च तस्मि; न्नगोत्तमे संवृतकूलरोधसः। कादम्बकारण्डवहंसजुष्टाः; पद्माकुलाः पुष्करिणीरपश्यन् ॥०३-१६१-५॥
क्रीडाप्रदेशांश्च समृद्धरूपा; न्सुचित्रमाल्यावृतजातशोभान्। मणिप्रवेकान्सुमनोहरांश्च; यथा भवेयुर्धनदस्य राज्ञः ॥०३-१६१-६॥
अनेकवर्णैश्च सुगन्धिभिश्च; महाद्रुमैः सन्ततमभ्रमालिभिः। तपःप्रधानाः सततं चरन्तः; शृङ्गं गिरेश्चिन्तयितुं न शेकुः ॥०३-१६१-७॥
स्वतेजसा तस्य नगोत्तमस्य; महौषधीनां च तथा प्रभावात्। विभक्तभावो न बभूव कश्चि; दहर्निशानां पुरुषप्रवीर ॥०३-१६१-८॥
यमास्थितः स्थावरजङ्गमानि; विभावसुर्भावयतेऽमितौजाः। तस्योदयं चास्तमयं च वीरा; स्तत्र स्थितास्ते ददृशुर्नृसिंहाः ॥०३-१६१-९॥
रवेस्तमिस्रागमनिर्गमांस्ते; तथोदयं चास्तमयं च वीराः। समावृताः प्रेक्ष्य तमोनुदस्य; गभस्तिजालैः प्रदिशो दिशश्च ॥०३-१६१-१०॥
स्वाध्यायवन्तः सततक्रियाश्च; धर्मप्रधानाश्च शुचिव्रताश्च। सत्ये स्थितास्तस्य महारथस्य; सत्यव्रतस्यागमनप्रतीक्षाः ॥०३-१६१-११॥
इहैव हर्षोऽस्तु समागतानां; क्षिप्रं कृतास्त्रेण धनञ्जयेन। इति ब्रुवन्तः परमाशिषस्ते; पार्थास्तपोयोगपरा बभूवुः ॥०३-१६१-१२॥
दृष्ट्वा विचित्राणि गिरौ वनानि; किरीटिनं चिन्तयतामभीक्ष्णम्। बभूव रात्रिर्दिवसश्च तेषां; संवत्सरेणैव समानरूपः ॥०३-१६१-१३॥
यदैव धौम्यानुमते महात्मा; कृत्वा जटाः प्रव्रजितः स जिष्णुः। तदैव तेषां न बभूव हर्षः; कुतो रतिस्तद्गतमानसानाम् ॥०३-१६१-१४॥
भ्रातुर्नियोगात्तु युधिष्ठिरस्य; वनादसौ वारणमत्तगामी। यत्काम्यकात्प्रव्रजितः स जिष्णु; स्तदैव ते शोकहता बभूवुः ॥०३-१६१-१५॥
तथा तु तं चिन्तयतां सिताश्व; मस्त्रार्थिनं वासवमभ्युपेतम्। मासोऽथ कृच्छ्रेण तदा व्यतीत; स्तस्मिन्नगे भारत भारतानाम् ॥०३-१६१-१६॥
ततः कदाचिद्धरिसम्प्रयुक्तं; महेन्द्रवाहं सहसोपयातम्। विद्युत्प्रभं प्रेक्ष्य महारथानां; हर्षोऽर्जुनं चिन्तयतां बभूव ॥०३-१६१-१७॥
स दीप्यमानः सहसान्तरिक्षं; प्रकाशयन्मातलिसङ्गृहीतः। बभौ महोल्केव घनान्तरस्था; शिखेव चाग्नेर्ज्वलिता विधूमा ॥०३-१६१-१८॥
तमास्थितः संददृशे किरीटी; स्रग्वी वराण्याभरणानि बिभ्रत्। धनञ्जयो वज्रधरप्रभावः; श्रिया ज्वलन्पर्वतमाजगाम ॥०३-१६१-१९॥
स शैलमासाद्य किरीटमाली; महेन्द्रवाहादवरुह्य तस्मात्। धौम्यस्य पादावभिवाद्य पूर्व; मजातशत्रोस्तदनन्तरं च ॥०३-१६१-२०॥
वृकोदरस्यापि ववन्द पादौ; माद्रीसुताभ्यामभिवादितश्च। समेत्य कृष्णां परिसान्त्व्य चैनां; प्रह्वोऽभवद्भ्रातुरुपह्वरे सः ॥०३-१६१-२१॥
बभूव तेषां परमः प्रहर्ष; स्तेनाप्रमेयेण समागतानाम्। स चापि तान्प्रेक्ष्य किरीटमाली; ननन्द राजानमभिप्रशंसन् ॥०३-१६१-२२॥
यमास्थितः सप्त जघान पूगा; न्दितेः सुतानां नमुचेर्निहन्ता। तमिन्द्रवाहं समुपेत्य पार्थाः; प्रदक्षिणं चक्रुरदीनसत्त्वाः ॥०३-१६१-२३॥
ते मातलेश्चक्रुरतीव हृष्टाः; सत्कारमग्र्यं सुरराजतुल्यम्। सर्वं यथावच्च दिवौकसस्ता; न्पप्रच्छुरेनं कुरुराजपुत्राः ॥०३-१६१-२४॥
तानप्यसौ मातलिरभ्यनन्द; त्पितेव पुत्राननुशिष्य चैनान्। ययौ रथेनाप्रतिमप्रभेण; पुनः सकाशं त्रिदिवेश्वरस्य ॥०३-१६१-२५॥
गते तु तस्मिन्वरदेववाहे; शक्रात्मजः सर्वरिपुप्रमाथी। शक्रेण दत्तानि ददौ महात्मा; महाधनान्युत्तमरूपवन्ति ॥ दिवाकराभाणि विभूषणानि; प्रीतः प्रियायै सुतसोममात्रे ॥०३-१६१-२६॥
ततः स तेषां कुरुपुङ्गवानां; तेषां च सूर्याग्निसमप्रभाणाम्। विप्रर्षभाणामुपविश्य मध्ये; सर्वं यथावत्कथयां बभूव ॥०३-१६१-२७॥
एवं मयास्त्राण्युपशिक्षितानि; शक्राच्च वाताच्च शिवाच्च साक्षात्। तथैव शीलेन समाधिना च; प्रीताः सुरा मे सहिताः सहेन्द्राः ॥०३-१६१-२८॥
सङ्क्षेपतो वै स विशुद्धकर्मा; तेभ्यः समाख्याय दिवि प्रवेशम्। माद्रीसुताभ्यां सहितः किरीटी; सुष्वाप तामावसतिं प्रतीतः ॥०३-१६१-२९॥