Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.162
वैशम्पायन उवाच॥
एतस्मिन्नेव काले तु सर्ववादित्रनिस्वनः। बभूव तुमुलः शब्दस्त्वन्तरिक्षे दिवौकसाम् ॥०३-१६२-१॥
रथनेमिस्वनश्चैव घण्टाशब्दश्च भारत। पृथग्व्यालमृगाणां च पक्षिणां चैव सर्वशः ॥०३-१६२-२॥
तं समन्तादनुययुर्गन्धर्वाप्सरसस्तथा। विमानैः सूर्यसङ्काशैर्देवराजमरिंदमम् ॥०३-१६२-३॥
ततः स हरिभिर्युक्तं जाम्बूनदपरिष्कृतम्। मेघनादिनमारुह्य श्रिया परमया ज्वलन् ॥०३-१६२-४॥
पार्थानभ्याजगामाशु देवराजः पुरंदरः। आगत्य च सहस्राक्षो रथादवरुरोह वै ॥०३-१६२-५॥
तं दृष्ट्वैव महात्मानं धर्मराजो युधिष्ठिरः। भ्रातृभिः सहितः श्रीमान्देवराजमुपागमत् ॥०३-१६२-६॥
पूजयामास चैवाथ विधिवद्भूरिदक्षिणः। यथार्हममितात्मानं विधिदृष्टेन कर्मणा ॥०३-१६२-७॥
धनञ्जयश्च तेजस्वी प्रणिपत्य पुरंदरम्। भृत्यवत्प्रणतस्तस्थौ देवराजसमीपतः ॥०३-१६२-८॥
आप्यायत महातेजाः कुन्तीपुत्रो युधिष्ठिरः। धनञ्जयमभिप्रेक्ष्य विनीतं स्थितमन्तिके ॥०३-१६२-९॥
जटिलं देवराजस्य तपोयुक्तमकल्मषम्। हर्षेण महताविष्टः फल्गुनस्याथ दर्शनात् ॥०३-१६२-१०॥
तं तथादीनमनसं राजानं हर्षसम्प्लुतम्। उवाच वचनं धीमान्देवराजः पुरंदरः ॥०३-१६२-११॥
त्वमिमां पृथिवीं राजन्प्रशासिष्यसि पाण्डव। स्वस्ति प्राप्नुहि कौन्तेय काम्यकं पुनराश्रमम् ॥०३-१६२-१२॥
अस्त्राणि लब्धानि च पाण्डवेन; सर्वाणि मत्तः प्रयतेन राजन्। कृतप्रियश्चास्मि धनञ्जयेन; जेतुं न शक्यस्त्रिभिरेष लोकैः ॥०३-१६२-१३॥
एवमुक्त्वा सहस्राक्षः कुन्तीपुत्रं युधिष्ठिरम्। जगाम त्रिदिवं हृष्टः स्तूयमानो महर्षिभिः ॥०३-१६२-१४॥
धनेश्वरगृहस्थानां पाण्डवानां समागमम्। शक्रेण य इमं विद्वानधीयीत समाहितः ॥०३-१६२-१५॥
संवत्सरं ब्रह्मचारी नियतः संशितव्रतः। स जीवेत निराबाधः सुसुखी शरदां शतम् ॥०३-१६२-१६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.